________________ 310 नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नवोपदेशः। ज्ञानादिनिवृत्त्या भेदभ्रमनिवृतिप्रसङ्गादिति चेत् ? उच्यते- सोपाधिकभ्रमनिवृत्तावुपाधिनिवृत्तेः पुकलकारणस्वाम ततो भेदभ्रमनिवृत्तिः / मुखान्तरोत्पत्तिपक्षे तु सोपाधिकत्वमेव नास्ति, उपाधिर्हि उप समीपे स्थित्वा स्वकीयं धर्ममन्यत्रादधातीत्युच्यते, नहि मुखान्तराध्यासे उपाधिरस्ति रजताध्यासवत्, भेदाध्यासे दर्पणस्योपाधित्वं संभवति, अतः सत्यपि प्रत्यभिज्ञाने यावदुपाधि भेदाध्यासानुवृत्तियुक्ता, * तस्मान्मुखमधिष्ठानं तत्र भेदोऽध्यस्यते / एवं चाज्ञानादौ प्रतिबिम्बे सत्यपि नाभासान्तरम् , मानाभावात् / सादृश्यापत्तिस्त्वज्ञानाध्यासेन परिच्छिन्नत्वापत्त्याहङ्काराध्यासापेक्षिता भविष्यति, तस्माना. भासवादो ज्यायानिति विवरणाचार्याभिप्रायः। अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा, अज्ञानानुपहितं शुद्धविशेषणम्। समाधत्ते-उच्यते इति / सोपाधिकेति- आदर्शरूपोपाधिसन्निधाने सत्येव मुखे भेदभ्रम इति सोऽयं . मुखे भेदभ्रमः सोपाधिकस्तन्निवृत्तौ सान्निध्यसम्बन्धेन दर्पणरूपोपाधिनिवृत्तेः। पुष्कलकारणस्वाद असाधारणकारणत्वादिति सानिध्यसम्बन्धेन दर्पणाभावादेव मुखे भेदभ्रमनिवृत्तिः, ततोऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञानतोऽभेदाजाननिवृत्तितो म नैव, मेदभ्रमनिवृत्तिरित्यर्थः। यश्च दर्पणरूपाधिष्ठान एव मुखान्तरोत्पत्तिमभ्युपैति तन्मते दर्पणे मुखान्तरभ्रमस्य सोपाधिकत्वं नास्ति, यो हि सनिहिते वस्तुनि स्वधर्ममादधाति स उपाधिर्भवति, दर्पणे मुखाध्यासे तु दर्पणधर्मस्य न मुखे आधानम् , यथा शुक्कौ रजताध्यासे न शुक्तिधर्मस्य रजत आधानमिति शुक्तौ रजतभ्रमो. न सोपाधिकस्तथा दर्पणे मुखान्तरभ्रमोऽपि सोपाधिको न भवेत्, मुखरूपाधिष्ठाने भेदाध्यासे तु दर्पणस्य मुखभिनत्वाद् भेदो दर्पणधर्मस्तस्य सन्निहित मुखेऽध्यास इति मुखे भेदभ्रमः सोपाधिक इति तनिवृत्तिः सान्निध्यसम्बन्धेन दर्पणनिवृत्तित एवेति यावद् दर्पणरूपोपाधिसान्निध्य तावन्मुखे भेदभ्रमोऽनुवर्ततेऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपीत्युपपादयति- मुखान्तरोत्पत्तिपक्षे त्विति / दर्पणे मुखान्तरभ्रमे सोपाधिकस्वनिषेधे हेतुमुपदर्शयति-उपाधिौंति / उपाधिरित्यस्य उच्यते इत्यनेन सम्बन्धः / उपाधिपदे उपशब्द आधिशब्दश्च वर्तते, तदर्थयोरावेदनपुरस्सरं तद्वथुत्पत्तिमुपदर्शयति- उप समीप इतियो बन्यपदार्थस्य समीपे स्थित्वाऽन्यपदार्थे स्वकीयं धर्ममादधाति स उपाधिरिति गीयते, यथा जपाकुसुमं स्फटिकस्य समीपे स्थित्वा स्वकीयं रक्तत्वधर्म स्फटिके आदधातीति जपाकुसुममुपाधिः, तत्सन्निधानात् स्फटिके रकत्वभ्रमः सोपाधिक इति / शुक्तौ रजताध्यासे यथा कोऽप्युपाधिनस्तिीति शुक्तौ रजतभ्रमो न सोपाधिकस्तथा दर्पणे मुखान्तराध्यासे कोऽप्युपाधिर्नास्तीति दर्पणे मुखान्तरनमोपगमे तस्य सोपाधिकत्वं न स्यादित्यर्थः / भेदाध्यास इति- मुखेऽधिष्ठाने भेदस्याध्यास इत्यर्थः / दर्पणस्योपाधित्वं सम्भवति दर्पणं मुखस्य समीपे स्थित्वा स्वकीयं धर्म भेदरूपं मुखे आदधातीत्येव व्यत्पत्तिनिमित्तं दर्पणेऽस्तीति / अतः दर्पणे उपाधित्वस्य सम्भवतः। सत्यपि प्रत्यभिज्ञाने ग्रीवास्थमेवेदं मुखमित्यभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपि / यावदुपाधि दर्पणरूपोपाधिसन्निधानं यावत् / अध्यासानुवृत्तिर्यका मुखे भेदाभ्यासस्यानुवर्तनं युज्यते, सोपाधिकभ्रमनिवृत्तिकारणस्योपाधिनिवृत्तेरभावन भ्रमनिवृत्तेरभावादित्यर्थः / उपसंहरतितस्मादिति / तत्र मुखे। प्रकृतं विवरणाचार्यमतमधिकरोति- एवं चेति-दर्पणे मुखान्तरोत्पत्तिप्रतिक्षेपे व्यवस्थिते चेत्यर्थः / मचानादौ अनादिभूताज्ञानादौ / प्रतिबिम्बे सत्यपि चैतन्यप्रतिबिम्बे सत्यपि / नाभासान्तरम् मनाने चैतन्याभासान्तरं नैव / तत्र हेतुः-मानाभावादिति / चैतन्ये जडत्वेनाहवारसादृश्यापोऽहाराध्यासः सम्भवति नान्यवेत्येतदर्थमनादिभूताशाने चैतन्याभासः, तत्तादात्म्यापत्त्या चैतन्यस्य जडत्वेन सादृश्यं यदिष्टं तचैतन्य एवाज्ञानाध्यासेनाज्ञानतादात्म्यापत्त्या परिच्छिन्नत्वेन सम्भवतीत्याह-सादृश्यापत्तिस्त्विति-अस्य भविष्यतीत्यनेनान्वयः / अज्ञानाम्यासेन चैतन्येऽशानाध्यासेन / परिच्छिन्नत्वापत्त्या अज्ञानाभासस्य परिच्छिन्नत्वेन तत्तादात्म्याचैतन्यस्यापि परिच्छिन्नत्वापत्तिस्तया। उपसंहरति-तस्मादिति / . विवरणाचार्यसिद्धान्तमुपदश्यनिकेषु वेदान्तिसिद्धान्तेषु प्रधानं दृष्टिसृष्टिवादसिद्धान्तमुपदर्शयितुं तदभिप्रेतं जीवेश्वरविमानमुपदर्शयति-अज्ञानोपहितमिति-उपाधेः प्रतिबिम्बपक्षपातित्वादुपाधिकार्य प्रतिबिम्बे भवति न तु विम्बे इति