________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः / / तदुत्पत्तेः स्वीकर्तव्यत्वान्मुखाधिष्ठानस्य चानुभवाननुसारित्वादिति चेत् ? एवं अधिष्ठानत्वाभिमसस्योपाधिकत्वोक्ती सर्वभ्रमाणां सोपाधिकत्वे प्रसक्ते सोपाधिक-निरुपाधिकभ्रमव्यवच्छेदप्रसङ्गात् , ' लोहितः स्फटिकः' इत्यत्रापि शुन्यज्ञानाद् रजतभ्रमवज्जपाकुसुमत्वाज्ञानालोहिते तस्मिन् स्फटिकतादात्म्यभ्रम इति सोपाधिकभ्रमत्वासिद्धेः, शक्यं यत्रापि वक्तम्- स्फटिको यद्यपरोक्षस्तर्हि तत्संसर्गमात्रमुत्पद्यते, यदि नापरोक्षस्तर्हि तदुत्पत्तिस्तस्मानादर्शोऽधिष्ठानम् , किन्तु मुखमेव, तत्र च मेदोऽध्यस्यते न मुखान्तरम्, प्रत्यभिज्ञानाच न मुखान्तरोत्पत्तिः स्वीक्रियते / कथं तर्हि भेदभ्रमोऽपि स्यात्, प्रत्यक्षप्रत्यभिज्ञानेनामुखमिति विशदप्रत्यक्षं तु मुखस्य भवति तदन्यथानुपपत्त्या, तदुत्पत्तेः मुखोत्पत्तेः, आदर्श स्वीकर्तव्यत्वाद् अभ्युपगन्तव्यत्वादित्यर्थः। मुखरूपाधिष्ठान एवादर्शस्थत्वं भेदश्वोत्पद्यत इत्येव किं नोपयत इत्यपेक्षायामाह-मुखाधिष्ठानस्य चेति- अनुभवानुसारेण कल्पना प्रामाणिकानां शोभते, मुखस्याधिष्ठानता तु नानुभूयत इति मुखाधिष्ठानस्यानुभवाननुसारित्वान्न मुखे आदर्शस्थत्वोत्पत्त्यादिकल्पना भद्रेत्यर्थः / मुखं यदि नाधिष्ठानं किन्वादर्श एवाधिष्ठानमुपाधिश्चेति भ्रमा. न्तरेष्वपि यदेवाधिष्ठानं तदेवोपाधिरिति निरधिष्ठानको भ्रमो न भवत्येवेत्यधिष्ठानात्मकोपाधेः सर्वत्र सत्त्वात् सर्वभ्रमाणा सोपाधिकत्वमेव स्यादिति निरुपाधिकभ्रमोच्छेदापत्तरिति समाधत्ते- एवं हीति / “सोपाधिक-निरुपाधिक भ्रमव्यवच्छेदप्रसङ्गात्" इत्यस्य स्थाने " निरुपाधिकभ्रमव्यवच्छेदप्रसज्ञात्" इति " सोपाधिक-निरुपाधिकभ्रमव्यवस्थाव्यवच्छेदप्रसङ्गात्" इति वा पाठो युक्तः, अत्राप्रिमग्रन्थखारस्याद् द्वितीयपाठ युक्तः, यतो यश्वोपाधिस्तस्यैवाधिष्ठानत्वमुक्तदिशा प्राप्तमिति लोहितः स्फटिक इत्ययं भ्रमः सोपाधिकः, आदर्श मुखमिति भ्रमच सोपाधिकः, जपाकुसुमादर्शरूपोपाधिसन्निधानतो भावात्, शुक्तौ रजतम्रमश्च निरुपाधिकखत्रोपाधेरभावादित्येवं सोपाधिक-निरूपाधिकभ्रमव्यवस्था, तस्या इदानी लोपः, यो झुपाधिः स एवाधिष्ठानं यथैकत्र तथाऽन्यत्रापि भविष्यतीत्यधिष्ठानव्यतिरिक उपाधिरेव नास्तीति स्पष्टयति-लोहितः स्फटिक इत्यत्रापीति-अस्य सोपाधिकभ्रमत्वासिद्धरित्यनेनान्वयः। सोपाधिकभ्रमत्वासिद्धौ हेतुमुपदर्शयति-शुक्क्यज्ञानादिति- यथा शुक्ताविदं रजतमिति भ्रमः शुक्त्यज्ञानाच्छुक्तिरूपाधिष्ठाने उत्पन्नस्य रजतस्यावगाही निरुपाधिक उपाधेरधिष्ठानव्यतिरिक्तस्याभावात्, तथा लोहितः स्फटिक इति भ्रमोऽपि जपाकुसुमत्वाज्ञानालोहिते जपाकुसुमे स्फटिकस्य स्फटिकतादात्म्यरूपसंसर्गस्य वोत्पत्त्या स्फटिकतादात्म्यावगाही निरुपाघिकभ्रम एवेत्यतः सोपाधिकभ्रमत्वासिद्धरित्यर्थः / यथा चादर्श मुखसम्बन्धस्य मुखस्य वोत्पत्तिव्यवस्थापनत आदर्श मुखमिति प्रतीतिर्मुखसंसर्गावगाहिनी मुखावगाहिनी वोपपादिता, तथा प्रकृतेऽप्युपपादनं सम्भवतीत्याह-शक्यं हीति / भत्रापि लोहितः स्फटिक इत्यत्रापि। किं वक्तुं शक्यमित्यपेक्षायामाह-स्फटिक इति-स्फटिकस्य व्यावहारिकस्येन्द्रियसनिकृष्टस्य लोहितः स्फटिक इति प्रत्यक्षे भानं सम्भवतीति न तत्र स्फटिकान्तरस्य जपाकुसुमे उत्पत्तिकल्पना भद्रेत्याशयः। तर्हि स्फटिकस्यापरोक्षतायाम् / तत्संसर्गमात्रमुत्पद्यते लोहिते जपाकुसुमे स्फटिकतादात्म्य. मात्रमुत्पद्यते, मात्रपदेन स्फटिकान्तरोत्पत्तेर्व्यवच्छेदः, यो अपरोक्षः श्वेतरूपविशिष्टः स्फटिकः स श्वेतरूपवत्तयैवापरोक्षः, स्वरूपसहितस्यैव तस्य प्रत्यक्षयोग्यत्वम्, लौहित्यं च न व्यावहारिकस्य स्फटिकस्य रूपमिति न सोऽपरोक्ष इति यदि विभाव्यते तदा स्फटिकान्तरमेव लोहिते जपाकुसुमे उत्पद्यत इत्याह-यदि नापरोक्ष इति / तदुत्पत्तिः स्फटिकोत्पत्तिः। उपसंहरति-तस्मादिति- सोपाधिकनिरुपाधिकभ्रमव्यवस्थोच्छेदप्रसङ्गमयादित्यर्थः। नादर्शोऽधिष्ठानं मुखान्तरस्य मुखसंसर्गस्याधिष्ठानमादर्शो न भवति, मुखमेव अधिष्ठानमित्यनुवर्तते। तत्र च मुखे च। मेदोऽध्यस्यते मेदोऽध्यस्तो भवति. एकमेव मुखं भेदाध्यासाद द्वित्वेन प्रतीयते, न मुखान्तरम् एकं ग्रीवास्थं मुखं द्वितीयमादर्थस्थं मुखमित्येतन भवति / आदर्श मुखान्तरोत्पत्तिरेव कुतो नाङ्गीक्रियते इत्यपेक्षायामाह-प्रत्यभिज्ञानाचेति- प्रीवास्थमुखमेवेदमित्येवं प्रत्यभिज्ञानाच मुखान्तरोत्पत्ति भ्युपेयत इत्यर्थः / नन्वेकत्वावगाहिप्रत्यभिज्ञानेनाभेदाज्ञानस्य भेदभ्रमकारणस्य निवृत्या तत्कार्यस्य मुखे भेदभ्रमस्य निवृत्तिः प्रसज्येत, ब्रह्मज्ञानेन ब्रह्माज्ञानरूपजगदुपादानकारणनिवृत्या अगनि वृत्तिवदित्याशहते-प्रत्यक्षप्रत्यभिज्ञानेनेति- ब्रह्मसाक्षात्कारस्यैव ब्रह्माज्ञाननिवर्तकत्वं न तु ब्रह्मपरोक्षज्ञानस्य दिब्योहादौ . तवावधारणादिति प्रत्यभिज्ञानं यदि परोक्षं स्यान तर्हि ततो भेदाज्ञाननिवृत्तिवेदतः प्रत्यक्षत्वं प्रत्यभिज्ञानस्य