________________ amavasaamannmamannamannmanna नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलड़तो नयोपदेशः। 305 धिष्ठानचैतन्यरूपस्य भानेऽप्यज्ञानोपहितचैतन्यरूपस्येश्वरस्याभानादज्ञानतास्फुरणे तदुपहितस्येश्वरस्य स्फुरणापत्तेः कर्तुमशक्यत्वात् , तस्यायोग्यत्वात् , नहि घटस्फुरणे घटोपहिताकाशादेरपि स्फुरणं केन. चिदापादयितुं शक्यत इति, तत्र विशेष्यस्यायोग्यत्वम् , अत्र तु विशेषण-विशेष्ययोर्योग्यत्वमित्यस्ति विशेष इति चेत् ? न- तथाप्युपहितत्वसम्बन्धगर्भत्वेनादृष्टवज्जीवत्वेनेवायोग्यताया धौव्यात् / ___ आभासवादिनो वार्तिकाचार्यास्तु- 'दर्पणादौ मुखान्तरोत्पत्ति स्वीकुर्वाणाश्चैतन्यस्यानादिभूतासाने अज्ञानादिरेवाभासः समस्ति, न त्वसौ जीवो जडत्वात् , अतस्तत्तादात्म्यापन्नं चैतन्यं जीवः' इत्याहुः / किमत्राभासाङ्गीकारे बीजमिति चेत् ? चैतन्ये अहङ्काराध्यासस्य निरुपाधिकस्येष्टत्वात् , निरुपाधिका. ध्यासत्वावच्छेदेन च सादृश्यस्यापेक्षणात्, आभासतादात्म्यापत्त्या च सादृश्यापने चैतन्येऽहवाराध्यास. 'अज्ञाततास्फुरणे' इति पाठो युक्तः / तदुपहितस्य अज्ञाततोपहितस्य / नन्वज्ञातताऽपि भासते तद्रूपेण चैतन्यस्वरूपो जीवोऽपि भासते इति किमवशिष्टं यदभानादीश्वरस्याभानमित्यपेक्षायामाह-तस्यायोग्यत्वादिति-अज्ञाततोपहितचैतन्य. स्वरूपस्येश्वरस्यास्मदादिप्रत्यक्षायोग्यत्वादित्यर्थः / ईश्वरस्योपाधिभूतमज्ञानविषयत्वं योग्यत्वाद् भासते, ईश्वरस्त्वयोग्यत्वान भासते इत्येतद् दृष्टान्तावष्टम्भेन भावयति- नहीति- अस्य 'शक्यते' इत्यनेनान्वयः, यथा घटस्य प्रत्यक्ष भानेऽपि तदुपाधिकस्य घटावच्छिन्नाकाशस्यायोग्यत्वान प्रत्यक्षे भानं तथाऽज्ञानविषयत्वस्य प्रत्यक्ष भानेऽपि तदुपाधिकस्याज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्यायोग्यत्वान प्रत्यक्षे भानमित्यर्थः / ननूपाधेर्घटस्य विशेषणीभूतस्य योग्यत्वेऽपि विशेष्यीभूतस्या काशस्यायोग्यत्वमिति न घटावच्छिन्नाकाशस्य प्रत्यक्षविषयत्वमिति युज्यते, प्रकृते त्वज्ञानविषयत्वलक्षणस्योपाधेर्विशेषणीभूतस्यापि : योग्यत्वं विशेष्यीभूतस्य चैतन्यस्यापि योग्यत्वमिति विशेषस्य सद्भावात् कथं नाज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्य प्रत्यक्षविषयत्वमित्याशहते-तत्रेति-घटावच्छिन्नाकाशे इत्यर्थः / विशेष्यस्य आकाशस्य / अयोग्यत्वं प्रत्यक्षायोग्यत्वम् / अत्र तु अज्ञानविषयत्वोपहितचैतन्यखरूपेश्वरे पुनः। विशेषण-विशेष्ययोः अज्ञानविषयत्वलक्षणविशेषण-चैतन्यलक्षणविशेष्ययोः। योग्यत्वं प्रत्यक्षयोग्यत्वम् / इति एवम् / विशेषः घटावच्छिन्नाकाशादज्ञानविषयत्वोपहितचैतन्ये विशेषः / समाधत्ते-नेति / तथापि अज्ञानविषयत्वोपहितचैतन्यलक्षणेश्वरे अज्ञानविषयत्वलक्षणविशेषणचैतन्यलक्षणविशेष्ययोर्योग्यत्वेऽपि / उपहितत्वसम्बन्धगर्भत्वेनेति- नापहितत्वं सम्बन्धमन्तरेण भवति, तथा सति सर्वस्य सर्वोपहितत्वं स्यात्, अतोऽवश्यमेवोपहितत्वं सम्बन्धविशेषेण भवतीति वाच्यम्, तथा च विशेषणविशेष्ययोर्योग्यत्वेऽपि सम्बन्धविशेषघटितस्य प्रयुक्तस्य वोपहितत्वस्यायोग्यत्वमित्युपहितत्वसन्निविष्टसम्बन्ध उपहितत्वनियामकसम्बन्धो वा गर्भ खशरीरमध्ये यस्य स उपहितत्वसम्बन्धगर्भस्तत्त्वेन, अज्ञानविषयत्वोपहितचैतन्यस्य जीवस्य जीवत्वेन योग्यत्वेऽप्यदृष्टवजीवत्वेन यथाs. योग्यत्वं तथाऽयोग्यताया एव ध्रौव्याद्-अवश्यम्भावादित्यर्थः। ___आभासवादिनां वार्तिककृतां वेदान्तिप्रवराणां मतमुपदर्शयति- आभासवादिन इति- दर्पणादौ मुखान्तरोत्पत्ति खीकुर्वाणा आभासवादिनो वार्तिकाचार्यास्त्वित्याहुरिति सम्बन्धः / किमाहुरित्यपेक्षायां तत्कर्मोपदर्शयति-बैतन्यस्येतिअनादिभूताज्ञाने चैतन्यस्याभासोऽज्ञानादिरेव समस्त्रीत्यन्वयः, अज्ञानादिरेक्त्येवकारेणाशानादिम्यतिरिकरूपत्वस्य व्यवच्छेदः, 'म त्वसौ जीवः' इत्यनेनैवकारार्थव्यवच्छेदस्यैवोपदर्शनम् , असौ अनादिभूताज्ञाने चैतन्यस्यामासः, जीवो न तु जीवखरूपो नैव भवति / तत्र हेतुः-जडत्वात् जीवावृत्तिजडत्वधर्माकान्तत्वात् / अतः एतस्मात् कारणात्, तादाम्यापनम् अनादिभूताज्ञानगतचैतन्याभासतादात्म्यापन्नम्। आभासः किमर्थमुररीक्रियत इति पृच्छति-किमिति-अस्य बीजमित्यनेनान्वयः / अत्र अनादिभूताज्ञाने / आभासाङ्गीकारे चैतन्याभासस्य स्वीकारे / उत्तरयति-चैतन्य इति / निरुपाधिकेति- यत्र यस्य निरुपाधिकोऽध्यासस्तत्र तस्य सादृश्यमिति व्याप्त्या निरुपाधिकाध्याससामान्ये निमित्ततया पारश्यस्यापेक्षणादित्यर्थः। एवं च यदि अनादिभूताज्ञाने चैतन्यस्यामासो नानीक्रियेत तदा चैतन्यस्य जडस्वरूपत्वाभावेन * तत्र जडस्याहारस्य सादृश्याभावात् तद्रूपनिमित्ताभावेन चैतन्ये निरुपाधिकाहारो न भवेत्, अनादिभूताशाने चैतन्या भासाङ्गीकारे तु अज्ञानस्य जडरूपत्वेन तत्र चैतन्यामासस्यापि जडरूपतया तत्तादात्म्यापनस्य चैतन्यस्यापि जडत्वेन