________________ 306 नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / सम्भवात्, न चाभासाध्यासेऽपि तदपेक्षायामनवस्थापत्तिः, तस्यानादित्वात् , जन्याध्यास एव निरुपा. धिके सादृश्यापेक्षणात्, न चाहानाध्यासेनैव सादृश्यापत्तिः सुवचा, जाड्येन हि सादृश्यं वाच्यम् , तच्च जडतादात्म्यापत्त्या; न चाहानं तादात्म्येनाध्यस्तम्, किन्त्वहमज्ञ इति संसर्गेणाध्यस्तमिति, अतो. ऽनाथाभासतादात्म्याध्यासेन जाड्यापत्त्या सादृश्ये सत्यहवाराध्यासो युज्यते / न चाभासे प्रमाणामावा, आदर्श मुखमिति स्पष्टं मुखान्तराभासात्, एकत्र क्लुप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायेनाशानेऽपि तद्रूपेणाहकारेण समं सादृश्यस्य सम्भवेन तद्बलाच्चैतन्ये निरुपाधिकाहङ्काराध्यास उपपद्यतेतरामित्याह-आभासतादाम्यापत्त्या चेति- अज्ञानगतचैतन्याभासतादात्म्यापत्त्या, जडात्मकाहङ्कारेण समं जडत्वलक्षणसाधारणधर्मवत्त्वेन सादृश्यापन्ने चैतन्येऽहकारतादात्म्यारोपलक्षणाहकाराध्याससम्भवादित्यर्थः। नन्वनादिभूताज्ञाने चैतन्याभासोऽपि न वास्तविको वस्तुभूतस्य तस्याभावात् किन्त्वध्यस्त एवेति तदध्यासस्यापि निरुपाधिकाध्यासरूपत्वेन चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्य निमित्ततयाऽपेक्षणीयमतस्तत्सादृश्योपपत्तयेऽनादिभूताज्ञाने चैतन्याभासतादात्म्यापत्तिमूलकचैतन्याभासगतकिश्चित्साधारणधर्म• वत्वं वाच्यमित्यनवस्थापत्तिरपरिहार्यत्याशय प्रतिक्षिपति-न चेति / आभासाध्यासेऽपि अनादिभूताशाने चैतन्याभासाध्यासेऽपि / तदपेक्षायां चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यापेक्षायाम् / अनवस्थापत्तिः अवतरणोपदर्शितप्रकारेणानवस्था प्रसज्यत इति / निषेधे हेतुमाह-तस्यानादित्वादिति- अनादिभूताज्ञाने चैतन्याभासाध्यासस्यानादित्वात्, अनादेर्न किञ्चिजन्यत्वमिति तत्र सादृश्यं निमित्ततया नापेक्षितमित्यर्थः / अनाद्यध्यासे सादृश्यस्य नापेक्षेत्येतत्स्पष्टप्रतिपत्तये वाह-जन्याध्यास एवेति- एवकारेणाजन्येऽनाद्यध्यासे सादृश्यापेक्षणस्य व्यवच्छेदः / नन्वज्ञानमेवात्मन्यध्यस्तम्, अज्ञानाध्यासोऽपि चैतन्ये, सादृश्यमन्तरेण न सम्भवतीति जडस्वरूपेणाज्ञानेन चैतन्यस्य सादृश्यं जडत्वेनैव धर्मेणेत्येतावताऽपि जडवेनाहकारेणापि समं चैतन्यस्य सादृश्यात् ततोऽहङ्काराध्यासो निरुपाधिकश्चैतन्ये सम्भवेदेवेति किमित्यनाथज्ञाने चैतन्यस्यामासः कल्पनीय इति अनादिभूताज्ञाने चैतन्याभासस्यैवाभावान्न चैतन्याभासतादात्म्यापनं चैतन्य जीव इत्याश प्रतिक्षिपति-न चेति-अस्य सुवचेत्यनेनान्वयः / निषेधे हेतुमाह-जाड्येनेति / हि यतः,,सादृश्यम् अहवारेण समं चैतन्यस्य सादृश्यम् / जाड्येन जाड्यात्मकधर्मेण / वाच्यं वक्तव्यम् / तच जाज्यं च। जडतादाम्यापस्या जडेन केनचित् सह तादात्म्यं कस्यचिजडस्य वा तादात्म्यं तदापत्त्या भवेदिति, अजडस्य चैतन्यस्य जाज्यं वस्तुतो नास्ति किन्तु जडतादात्म्यापत्त्या स्यादिति यावत् / ननु तदर्थमेवाज्ञानाध्यासः स्वीक्रियते. चैतन्ये अज्ञानाध्यासादेव जडत्वरूपाज्ञानतादात्म्यापत्तिश्चैतन्ये स्यादित्यत आह-न चेति-अस्या 'अध्यस्तम्' इत्यनेनान्वयः, अज्ञानं चैतन्ये तादात्म्येनाध्यस्तं न चेत्यर्थः, अज्ञानस्य चैतन्ये तादात्म्येनाध्यासे सत्येवाज्ञानस्य जडत्वात् तत्तादात्म्यापन्नस्य चैतन्यस्यापि जडत्वापत्त्या जडत्वेनाहकारसादृश्यं तस्याहवाराध्यासप्रयोजकं भवेन चैवमित्याशयः। तत् किमज्ञानं चैतन्ये नाध्यस्तमेव ! तथा सत्यनध्यस्तस्य तस्य चैतन्यवद् वस्तुत्वेऽद्वतवादो व्याहन्येतत्याशयेन पृच्छति-किन्विति / उत्तरयति-महमा इतीति-अहमज्ञ इत्याकारकवृत्तिरूपेण संसर्गेण चैतन्येऽज्ञानमध्यस्तमतोऽध्यस्तस्वादज्ञानस्य वस्तुत्वं नापतति नवा तथाध्यासतो जडत्वापत्तिश्चैतन्ये, ततो नाज्ञानाध्यासतोऽहद्वाराध्यासप्रयोजकमहवारसादृश्यं चैतन्ये घटत इत्यर्थः / अतोऽस्माद्धेतोः। अनाद्याभासतादात्म्याध्यासेनेति- अनादिभूताज्ञानेऽनादिर्यश्चैतन्याभासस्तस्य चैतन्ये यस्तादात्म्याध्यासस्तेनेत्यर्थः / जाड्यापत्त्या चैतन्ये जायापत्त्या। सादृश्ये सति जडत्वरूपसाधारणधर्मेण चैतन्येऽहकारस्य सादृश्ये सति / अहबाराध्यासो युज्यते चैतन्येऽहाराभ्यासो घटत इत्यर्थः / अनादिभूताशाने चैतन्याभास इत्यत्र प्रमाणमेव नास्तीत्यपि नास्तीत्याह-न चेति। आदर्श यन्मुखं दृश्यते तद् प्रीवास्थमुखं न भवति किन्तु मुखान्तरमेवाभासत इति तदृष्टान्तेनाशानेऽपि यचैतन्यमवभासते तच्छुद्धचैतन्यं न भवति किन्तु चैतन्याभास एवेत्येवं चैतन्याद् भिन्नस्य चैतन्याभासस्य स्वीकारादित्याह-आदर्श मुखमितीति- प्रीवास्थं यन्मुखं तस्य श्रीवैवाधारो न त्वादर्श इत्यादर्शाधिकरणतया प्रतीयमानं मुखं स्पष्टं मुखान्तरमिति तस्य यथा मुखाभासत्वं तथा व्यापकीभूतं चैतन्यं स्त्रापेक्षयाऽव्यापके ऽज्ञाने नावस्थातुमर्हतीति अज्ञानाश्रिततया प्रतीयमानस्य चैतन्यस्य चैतन्यान्तरत्वमिति तस्य चैतन्याभासत्वमित्यर्थः / नन्वादर्श मुखान्तरं तथादर्शनात् क्लप्तं न त्वज्ञाने चैतन्याभास इत्यत आह-एकत्रेति-एकत्र मुखे मुखान्तरकल्पनानिमित्ततया क्लप्तं युक्ति