________________ 304 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः। मिति नात्र दोषस्पर्शः। नन्वेवमज्ञातस्य चैतन्यस्येश्वरत्वे 'अहं मां न जानामि' इत्यनुभवादीश्वरस्य प्रत्यक्षत्वापातः, न चाज्ञाततयेश्वरस्य प्रत्यक्षवमनापायः सर्वस्यैव वस्तुनो ज्ञाततयाऽज्ञाततया वा साक्षिप्रत्यक्षत्वानीकारादिति वाच्यम् ; न ह्यज्ञाततयेश्वरप्रत्यक्षमापाद्यते-ईश्वरं न जानामीति येनाभ्युपगमव्याघातापत्तिः स्यात्, किन्त्वहं मां न जानामीत्यज्ञानं चैतन्यमनुभूयते, स चेश्वर इति तस्य स्वरूपेणापरोक्षत्वं स्यादिति चेत् ? न- अहं मां न जानामीत्यत्राज्ञाततया जीवस्याखण्डजगज्जीवेश्वरादिभ्रमा यथा पटावच्छिन्नाकाशो न भवतीति घटावच्छिन्नाकाशत्वविशिष्टस्य न पटावच्छिन्नाकाशत्वविशिष्टता तथाऽविद्यावच्छिन्नात्मकतन्यत्वरूपजीवत्वविशिष्टस्य नाविद्यावच्छिन्नचैतन्यात्मकेश्वरत्वविशिष्टता, विवेकस्त्वत्रापि अविद्यापदेनाविद्यावरणशक्यविद्याविक्षेपशक्त्योर्विवक्षया सम्भवति किन्तु यत्रैकावच्छिन्नचैतन्यस्वरूपावस्थानं तत्र नान्यावच्छिन्नस्वरूपावस्थानमिति जीवनियन्तृत्वस्यानुपपत्त्या तत्प्रतिपादकश्रुतिव्याकोपदोषो विवरणाचार्योको न वाचस्पतिमिश्रमतं स्पृशति यतो नात्रोभयोरप्यवच्छिन्नरूपत्वं जीवस्यावच्छिन्नरूपत्वेऽपीश्वरस्य तदभावादित्याशयः / वाचस्पतिमिश्रमते अज्ञानस्याश्रयो जीवः, अज्ञानस्य विषय ईश्वर इति फलितम्, संक्षेपशारीरकारमते तु शुद्धं चैतन्यमेवाज्ञानस्याश्रयो विषयश्च, तदुक्तं संक्षेपशारीरके- "आश्रयत्व-'' विषयत्वभागिनी निर्विभागचितिरेव केवला / पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः // 1 // बहु निगद्य : किमत्र वदाम्यहं शृणुत सङ्ग्रहमदयशासने / सकलवाङ्मनसाऽतिगता चितिः सकलवाङ्मनसोर्व्यवहारभाक् // 2 // इति / वाचस्पतिमिश्रसम्मतमीश्वरेऽज्ञानविषयत्वमसहमानः परः शङ्कते-नन्वेवमिति / एवमित्यस्यैवोपवर्णनम्- अज्ञातस्य चैतन्यस्येश्वरत्वे इति- अज्ञानविषयचैतन्यस्येश्वरत्वाभ्युपगमे इत्यर्थः। अहमिति- अहं मां न जानामीत्यनुभवोऽस्मच्छन्दार्थस्वात्मविषयकाशानवानहमित्येवंस्वरूप एव, तत्राज्ञानविषयो यदीश्वर एव तदा द्वितीयाप्रकृत्यस्मच्छब्दार्थोऽपि स . एव, तस्यैवाज्ञानविषयत्वाभ्युयगमादित्युक्तानुभवस्य प्रत्यक्षरूपत्वेन तद्विषयस्थाज्ञानकर्मतापञ्चेश्वरस्य प्रत्यक्षत्वं प्रसज्यत / इत्यर्थः / नन्वज्ञाततयेश्वरप्रत्यक्षं यदापाद्यते तन्नानिष्टं वस्तुमात्रस्यैव शाततयाऽज्ञाततया वा साक्षिभास्यत्वेनेश्वरस्यापि तद्रूपेण साक्षिप्रत्यक्षत्वस्य स्वीकारादित्याशा प्रतिक्षिपति-न चेति-अस्य वाच्यमित्यनेनान्वयः। "मनापाद्यः" इत्यस्य स्थाने इत्यस्य स्थाने " मनापाद्यम्" इति पाठो युक्तः, तदेवापादनं दोषाधायकं यदनिष्टम् , ईश्वरस्य प्रत्यक्षत्वं त्विष्टमेवेति परं प्रति तन्नापाद्यमित्यर्थः। तस्येष्टत्वमेवात्र हेतुतयोपदर्शयति-सर्वस्यैवेति-सर्व वस्तु ज्ञातमज्ञातं वेति मनसो वृत्तिर्न बहिरिन्द्रियव्यापारमपेक्षते, बहिरिन्द्रियव्यापारमन्तरेण जायमानमनोवृत्त्याऽविद्यावृत्त्या वा यत् प्रत्यक्षं भवति तत् साक्षिप्रत्यक्षमिति गीयते, अत एवं शुक्काविदं रजतमिति भ्रमस्थले शुक्त्यवच्छिन्नचैतन्याज्ञानमेव शुक्तिरजतरूपेण तदाकारमनोवृत्तिरूपेण परिणमत इत्यनिर्वचनीयशुक्तिरजतस्य तदाकारवृत्त्यवच्छिन्नचैतन्यलक्षणतत्प्रत्यक्षस्य साक्षिमास्यत्वात् साक्षिप्रत्यक्षत्वमिति / निषेधे हेतुमाह-न हीति-हि यतः, ईश्वरं न जानामीत्येवंस्वरूपमज्ञाततयेश्वरप्रत्यक्षं नापाद्यत इत्यर्थः / येन तथापादनेन / अभ्युपगमव्याघातापत्ति: स्यात् अज्ञाततयेश्वरप्रत्यक्षाभ्युपगमस्य व्याघातापत्तिर्भवेत् / यद्येवं नापाद्यते तर्हि कीदृशमापाद्यत इति पृच्छति-किन्विति / उत्तरयति- अहमिति / “त्यक्षानम्" इत्यस्य स्थाने "त्यज्ञातम्" इति पाठो युक्तः, अहं न जानामीत्याकारकप्रत्यक्षेण अज्ञातं चैतन्यमनुभूयते, न त्वज्ञातचैतन्यलक्षणस्येश्वरस्याशातत्वेन स्फुरणं तत्र येन तदिष्टं भवेदित्यर्थः / ननु भवतु अज्ञातचैतन्यानुभवः स तावताऽपि प्रकृते किमायातमित्यत आह-स चेति- ईश्वरक्षन्दस्य तच्छब्दार्थाभिन्नार्थप्रतिपादकस्य पुंलिङ्गत्वात् तच्छब्दस्याशातचैतन्यप्रतिपादकस्यापि पुंलिशस्य निर्देशः, तथा चाशातचैतन्यं चेत्यर्थः / इति अज्ञातचैतन्यत्वेनेश्वरासाधारणधर्मेणाह मां न जानामीति प्रत्यक्षेड. वमासमानत्वादेतोः। तस्य ईश्वरस्य। स्वरूपेणेति-यथा घटोऽयमिति प्रत्यक्षे घटत्वेन स्वाधारणधर्मेणावभासमानस्य घटस्य स्वरूपेणापरोक्षत्वं तथेश्वरस्य स्वाधारणाशातचैतन्यस्वरूपधर्मेणावभासमानस्य स्वरूपेणापरोक्षत्वं प्रसज्येतेत्यर्धः / समापत्ते-नेति- अज्ञाततया जीवस्य भानेऽपीत्यन्वयः। किंस्वरूपस्य जीवस्य तत्राज्ञाततया भानमित्यपेक्षयामाह- अखण्डं चेति-सकलोपाधिशून्यं च जगज्जीवेश्वरादीनां भ्रमस्याधिष्ठानं च यच्चैतन्यं तदात्मकस्येत्यर्थः। जीवस्य निरुक्तचैतन्यस्वरूपस्य तत्र भानं न त्वज्ञानोपहितचैतन्यरूपस्येश्वरस्येत्यत्र किं बीजमित्यपेक्षायामाह- अज्ञानतास्फुरण इति-अत्र