________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः। 303 जीवान्तरयामित्वानुपपत्तेः / कार्योपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयोर्जीवेश्वरयोरपि व्यापकत्वाज्जीवान्तर्यामित्वश्रुतेरप्यव्याघातात्, अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं चाविद्यापरम् , अज्ञानप्रतिबिम्बितं चैतन्यं साक्षी, स चोक्तशक्तिद्वयप्रतिबिम्बितो जीव इति, ईश्वरश्रवियं तु शुद्धमिति दिक् / एतेनाज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः, बुद्धिप्रतिबिम्बितं चैतन्य जीवः, अज्ञानोपहित बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरकारमतमप्युपसङगृहीतं तात्पर्यतोऽभेदात् / अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्राः, तेषामयमाशयः- वस्तुतः सजातीय-विजातीय. भेदशून्यं चैतन्यमनादिसिद्धानिर्वचनीयाज्ञानोपाध्यवच्छिन्नं जीव इति, अज्ञानं चेश्वर इति द्वैविध्यं प्रतिपद्यते, अज्ञातत्वम् अज्ञानविषयत्वम् , तदेवेश्वरोपाधिः, तञ्च व्यापकमिति तदुपहितेश्वरस्यापि व्याप. कत्वात् सर्वान्तर्यामित्वमप्युपपद्यते, विवरणाचार्यस्त्ववच्छिन्नस्यैवेश्वरत्वमवच्छिन्नस्य च जीवत्वं दूषित www.m........... ........ चैतन्यस्य जीवत्वाभ्युपगमादित्यत आह-अज्ञानप्रतिबिम्बितमित्यत्रेति-घटकत्वं त्रत्प्रत्ययार्थः, तथा चाज्ञानप्रतिबिम्बितमित्यस्याविद्याप्रतिबिम्बितमित्यर्थः, अविद्या चावरण-विक्षेपशक्तिद्वयरूपैवात्र विवक्षिता, तत्रावरणशक्तिप्रतिविम्बितचैतन्यं जीवः, विक्षेपशक्तिप्रतिबिम्बितचैतन्यमीश्वर इति विवेकः प्रागुपदर्शित इति न जीवेश्वरयोः सर्वथैक्यापत्तिः। वेदान्ते यचैतन्यस्य जीवेश्वर-साक्षि-ब्रह्मभेदेन चतुर्विधत्वं प्रसिद्धं तत् संक्षेपेण निगमयति-अज्ञानप्रतिबिम्बितं चैतन्यं साक्षीति / "ईश्वरावयं तु शुद्धमिति" इत्यस्य स्थाने "ईश्वर इति च, ब्रह्म तु शुद्धमिति " इति पाठः सम्यग्, तथा च सब निरुक्तस्वरूपः साक्षी पुनः। उक्तशक्तिद्वयप्रतिबिम्बितः आवरण-विक्षेपशक्तिद्वयप्रतिबिम्बितः सन् जीव इति जीवसाक्षीत्येवमाख्यायते, तथा ईश्वर इति ईश्वरसाक्षीत्येवमाख्यायते, अज्ञानलक्षणव्यापकोपाधिप्रतिबिम्बितस्य तच्छक्तिरूपव्याप्योपाधिप्रतिबिम्बितत्वं नासम्भवदुक्तिकम् , जलप्रतिबिम्बितस्य चन्द्रस्य जलतरणप्रतिबिम्बितत्वस्यापि दर्शनात्, एतावांस्तत्र विशेषः-जीवे ईश्वरे च शक्तिप्रतिबिम्बितत्वं विशेषणमिति शक्तिरूपोपाधिकार्य तत्र भवति, साक्षिणि तु तदुपलक्षणमतस्तत्र निरुत्तोपाधिकार्य न भवतीति, ब्रह्म पुनश्शुद्धं चैतन्यमित्यर्थः / एतेनेत्यस्योपसगृहीतमित्यनेनान्वयः। बुद्धिप्रतिबिम्बितम् अन्तःकरणप्रतिबिम्बितम् / कथमुपसङ्ग्रहीतमित्यपेक्षायामाह- तात्पर्यतोऽमेदात् उक्तमतस्य पूर्वोपदर्शितार्थ एव तात्पर्यादित्यर्थः। अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं निरुतशक्तिपरम्, बुद्धिप्रति. विम्बितमित्यत्र बुद्धिपदमपि तथा, अज्ञानोपहितमिति तु यथाश्रुतार्थकमेव, बिम्बचैतन्यमित्यनेन साक्षी परिगृहीतः, शुद्धमित्यनेन शुद्धचैतन्यस्वरूपं ब्रह्म परिगृहीतमिति / वाचस्पतिमिश्राणां भामतीग्रन्थप्रणेतृणां मतमुपदर्शयति- अज्ञानावच्छिन्नमिति / तदभिप्रायमुद्घाटयति-तेषामिति- वाचस्पतिमिश्राणामित्यर्थः / वस्तुत इति- वस्तुतः सजातीयविजातीयभेदशून्यं चैतन्यं द्वैविध्यं प्रतिपद्यते इत्यन्वयः, परमार्थतश्चैतन्यमेकमेव, चेतन्यभिन्नं च किमपि नास्त्येवेत्यतस्तस्य सजातीयं चैतन्यान्तरम्, विजातीयं बडं च नास्तीति सजातीय-विजातीयभेदशून्यमित्यर्थः। अनादिसिद्धेति- अनादिसिद्धं न केनचित् कदाचित् कुत्रचिदुस्पादितं किन्त्वनादिकालतः स्वत एवासादितात्मलाभम् , एवमप्यनिर्वचनीयं- नेदं सद् भवितुमर्हति, उत्तरकालं ब्रह्मज्ञानेन बाभ्यमानत्वात् , नाप्यसत् प्रतीयमानत्वादिति पारमार्थिकसत्त्वकिञ्चिदधिष्ठानकप्रतीस्यविषयत्वलक्षणासत्त्वाभावो. भयवरवलक्षणानिर्वनीयत्वाकलितं यदज्ञानं तदात्मकोपाध्यवच्छिन्नं यनिरुक्तचैतन्यं तजोव इत्यर्थः, “अक्षानं चेश्वरः", इत्यस्य स्थाने "अज्ञातं चेश्वरः" इति पाठो युक्तः, अज्ञातं निरुक्तचैतन्यमीश्वर इत्यर्थः / इति एवम् , वैविध्य द्विवियत्व, प्रतिपद्यते भजति / अज्ञातं चेश्वर इत्यत्राज्ञातत्वं किमिल्यपेक्षयामाह-अशातत्वमज्ञानविषयत्वमिति / सदेव अज्ञातत्वमेव विषयतयाऽज्ञानमेवेति यावत् / तच्च अज्ञानं च / इति उपाधेरज्ञानस्य व्यापकत्वाद्धेतोः। तदुपरितेश्वरस्यापि अज्ञानोपहितचैतन्यरूपेश्वरस्यापि / ननु विवरणाचारक्च्छेदवादे यो दोष उपदर्शितस्तहोषदुष्टत्वेनेदं वाचस्पतिमतं नोपावेयमित्यत आह-विवरणाचास्त्विति- जीवेश्वस्योरुभयोरप्यवच्छिमचैतन्यरूपत्वे घटावच्छिन्नाकाशो