________________ 302 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / काशस्य जानुमात्रे जले विशालरूपेण प्रतिबिम्बदर्शनात् / प्रतिबिम्बस्यापि च विपत्वं प्रत्यक्षशास्त्राभ्यां सिद्धम् / न च घटावच्छिन्नाकाशवदविद्यावच्छिन्नं चैतन्यमेव जीवोऽस्तु, किं प्रतिबिम्बत्वेनेति वाच्यम् , तथा सति जीवभावेनावच्छिन्नस्य पुनरवच्छेदान्तरायोगात्, घटाकाशादौ तथादर्शनाद् ब्रह्मणः सर्वनियन्तृत्वानुपपत्तौ " यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमयति " [ बृहदारण्यकोपनिषद् 3, 7, 22] इति श्रुतिव्याकोपप्रसङ्गात् , प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनाद् द्विगुणीकृत्य वृत्त्युपपत्तेर्जीवावच्छेदेषु ब्रह्मणोऽपि नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति न दोषः / अस्मिन् पक्षे बिम्बचैतन्यं नेश्वरः, बिम्बास्यापि प्रतिबिम्बान्तरद्विगुणीकृत्य वृत्त्ययोगेन प्रतिबिम्बात्मक प्रतिविम्बनं सम्भवत्येवेति / विशालरूपेणेति-एतेन शास्त्रदृष्ट्या भवतु जलापेक्षयाधिकप्रमाणश्चन्द्रस्तथापि लोकदृष्ट्या विशालस्यैव तस्याविशालरूपणेव प्रतिबिम्बनं न तु ब्रह्मण इत्याशङ्काशङ्करप्युद्धतः, साधनक्षत्राकाशस्य विशालरूपस्यैव विशालरूपेण प्रतिबिम्बस्य दर्शमादित्यर्थः / ननु भवतूपदर्शितदृष्टान्तबलाद् ब्रह्मणोऽपि प्रतिबिम्बनम् , किन्तु जलाशयगतस्य चन्द्रप्रतिबिम्बस्य न चन्द्रत्वं बिम्बादन्यदेव प्रतिबिम्बमिति बिम्बगतासाधारणधर्मस्य प्रतिबिम्बे न सम्भव इति कथं. चिद्रपब्रह्मप्रतिबिम्बरूपस्य चिद्रूपत्वमित्यत आह-प्रतिबिम्बस्यापीति-जीवश्चैतन्यरूपतया स्वसंवेदनप्रत्यक्षेषानुभूयते, शास्त्रमपि तस्य चैतन्यरूपस्वमनुशास्तीति प्रत्यक्ष-शास्त्राभ्यां सिद्धं जीवस्य चैतन्यरूपत्वं नान्यत्रादर्शनमात्रेणापनेयमित्यर्थः / न चेत्यस्य वाच्यमित्यनेनान्वयः, यथा योऽप्यस्ति आकाशोऽप्यस्ति, तयोरवच्छेद्यावच्छेदकभावमात्रतो घटावच्छिन्नाकाश इति ब्यबहियते तथाऽविद्या-चैतन्ययोरवच्छेद्यावच्छेदकभावमात्रतोऽविद्यावच्छिन्नचैतन्यस्य जीवत्वमस्तु किमतिरिक्तबिम्बप्रतिविम्बभाषकल्पनेनेति शङ्कार्थः / प्रतिक्षेपहेतुमुपदर्शयति-तथा सतीति- अविद्यावच्छिन्नत्वस्यैव जीवत्वस्वरूपत्वे प्रतीत्यर्थः। जीवभावेन अविद्यावच्छिन्नत्वलक्षणजीवत्वेन। अवच्छिन्नस्य अवच्छेद्यभावं प्राप्तस्य चैतन्यस्य / पुनः अपच्छे. दाम्तरायोगात् अन्यावच्छिन्नत्वासम्भवात् , अस्य श्रुतिव्याकोपप्रसङ्गादित्यत्रान्वयः। एकनावच्छिन्नस्यावच्छेदासम्भवे दृष्धान्तमाह-घटाकाशादाविति / तथादर्शनात् अन्यावच्छेदासम्भवस्य दर्शनात् , न हि घटाद्यवच्छिन्नत्वविशिष्टाकाशस्य पदाधवच्छिनत्वं दृश्यते / अन्यानवच्छेदे यदनिष्टं तदुपदर्शयति- ब्रह्मण इति-जीवभावेनावच्छिन्नस्य ब्रह्मणोऽन्यानवच्छिन्नत्वामान्यनियन्तृत्वम् , तत्रस्थस्यैव तन्नियन्तृत्वम् , जीवभावेनावच्छिन्नं तु जीव एव तिष्ठति नान्यत्रेत्यतः सर्वनियन्तृत्वानुपपत्ती सत्याम् , " यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमर्यात" इत्यस्य स्थाने " यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति पाठो युक्तः / इति एवंस्वरूपेत्यर्थः / प्रतिबिम्बवादे यथा ब्रह्मणः सर्वनियन्तृत्वोपपत्त्योक्तश्रुत्यव्याकोपस्तथा भावयति-प्रतिबिम्बपक्षेत्विति - निरवच्छिन्नस्य शुद्धाकाशस्य सर्वव्यापकत्वाजले शुद्धाकाशस्य सत्त्वे सत्येव प्रतिबिम्बाकाशस्य सत्त्वं दृश्यत इति शुद्धभावेन प्रतिबिम्बभावेन च द्विगुणीभूयाकाशस्तत्र वर्तते, यत्र ब्रह्मप्रतिबिम्ब जीवो वर्ततेऽविद्यायां तत्रैव जीवावच्छेदेषु सत्सु ब्रह्मणोऽपि शुद्धस्य सर्वव्यापकस्यावस्थितितो नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति सर्वनियन्तृत्वोपपत्त्या निरुक्तश्रुतिव्याकोपो न भवतीत्यर्थः / अस्मिन् पक्षे प्रतिबिम्बपक्षे। कथं बिम्बचैतन्यं नेश्वर इत्यपेक्षायामाह-बिम्बस्यापीति- “प्रतिबिम्बान्तरद्विगुणीकृत्य" इत्यस्य स्थाने "प्रतिबिम्बान्तरे द्विगुणीकृत्य" इति पाठः सम्यग्, 'यो यत्र बिम्बरूपेण तिष्ठति स तत्र प्रतिबिम्बरूपेणापि तिष्ठति' इत्येवं द्विगुणीकृत्य- द्विगुणो भूत्वा, बिम्बस्य प्रतिबिम्बान्तरे-भिन्नप्रतिबिम्बे, वृत्त्ययोगेन वृत्त्यसम्भवेन, “प्रतिबिम्बात्मकजीवान्तरयामित्वानुपपत्तेः” इत्यस्य स्थाने "प्रतिबिम्बात्मकजीवान्तर्यामित्वानुपपत्तेः” इति पाठः सम्यग, प्रतिबिम्बात्मकस्य जीवस्यान्तर्यामित्वं बिम्बस्येश्वरस्य न स्यात् / तर्हि किंस्वरूपतयेश्वरस्याभ्युपगमे तस्य जीवान्तर्यामित्वोपपत्तिरित्याकाडायामाह-कार्योपाधिभूतस्येति-कारणोपाधिमूलाऽविद्या, कार्योपाधिस्तूलाविद्येति तूला विद्यारूपस्येत्यर्थः। शकिद्वयस्य विक्षेपशक्तिरावरणशक्तिश्चेत्येवं शक्तिद्वयस्य / व्यापकत या सर्वत्रावस्थितत्वेन / तत्प्रतिबिम्बयोर्जीवेश्वरयोरपीतिअत्र विक्षेपशक्तिरूपकार्योपाधिप्रतिबिम्बमीश्वरः, आवरणशक्तिरूपकार्योपाधिप्रतिबिम्बं जीव इत्येवं शक्तिद्वयप्रतिबिम्बितचैतन्यरूपयोर्जीवेश्वरयोरपीत्यर्थः / जीवान्तर्यामित्वश्रतः ईश्वरस्य जोवान्तर्यामित्वप्रतिपादिकायाः “यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति श्रुतेः / न च ज्ञानप्रतिबिम्बितं चैतन्यं जीव इतीदानी परित्यक्त: पक्षः शक्तिप्रतिबिम्बित