SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। 301 शकीः रन्जुतिरोधानशक्तिच, एवं मूलाज्ञानस्याद्वितीयपूर्णानन्दैकरसचिदावर्णशक्तिराकाशादिप्रपञ्चजननशक्तिश्चेति; निवृत्ते चाज्ञाने तन्निमित्ते च जीवेश्वरादिप्रपञ्चे चिन्मात्रमेव(वाव)शिष्यते, जीवस्त्वज्ञानप्रतिबिम्बितं चैतन्यमिति विवरणाचार्याः, " रूपं रूपं प्रति रूपी बभूव " [ श्रुतेः, " एकघा बहुधा चैव दृश्यते जलचन्द्रवद् " इति [ ] स्मृतेश्च, न चामूर्तस्यप्रतिबिम्बामावः शक्यो वक्तुम् , अमूर्तानामपि रूप-परिमाणादीनां गुणानामादर्शमूर्तद्रव्यस्यापि साधनक्षत्राप्रातिमासिकसत्त्वाकान्तं रज्जुसादिकं सृजति चेति, “सर्पजननशक्तीः" इत्यस्य स्थाने “सर्पजननशकी" इति पाठो युक्तः, रज्ज्वज्ञानस्य या सर्पजननशक्तिः सा विक्षेपशक्तिरित्यर्थः, रज्ज्वज्ञानस्य या पुना रज्जुतिरोधानशक्तिर्यदलात् सत्यपि रन्जुस्तिरोहिता सती न ज्ञायते सा आवरणशक्तिरित्यर्थः / एवं तथा / मूलाचानस्य शुद्धचैतन्यस्वरूपब्रह्मावरकाशानस्य / चिदावर्णशक्तिरित्यस्य स्थाने चिदावरणशक्तिरिति पाठः सम्यग्, यया शक्त्याऽऽवृतं ब्रह्म अद्वितीयपूर्णानन्देकरसचिद्रूपतया न ज्ञायते सा आवरणशक्तिर्मूलाज्ञानस्येत्यर्थः, यया शक्त्या मूलाज्ञानं पुनस्तत्र ब्रह्मणि आकाशादिप्रपञ्चं जनयति सा मूलाज्ञानस्य विक्षेपशकिरित्यर्थः, मूलाज्ञाननिवृत्तौ तन्निमित्तजीवेश्वरादिप्रपञ्चनिवृत्तौ च शुद्धं ब्रह्मवावशिष्यते तदेव मोक्ष इत्युपदर्शयति-निवृत्ते चाज्ञान इति / तन्निमित्ते अज्ञाननिमित्तके, चकारानिवृत्ते इति अनुकृष्यते। यद्यज्ञानरूपोपाधित एव जीवेश्वरविभागो वक्तव्यस्तर्हि किंस्वरूपस्तदा जीव ईश्वरश्च किंस्वरूप इत्यपेक्षायामाह-जीवस्विति-जीवस्याज्ञानप्रतिबिम्बितचैतन्यस्वरूपत्वे कथिते अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वर इत्युक्तमेवेति न न्यूनत्वमिति नात्र मन्तव्यम्, ईश्वरस्याप्यशानप्रतिबिम्बितचैतन्यस्वरूपतयैवात्रैवाप्रेऽभिधानादिति बोध्यम् / एकं मूलाज्ञानमित्येके, अनेकानि तानीत्यन्ये, मुमज्ञाना. वस्थाविशेषरूपाण्यज्ञानानि तुलाशानानि, तत्र शकिद्वयमावरणविक्षेपशक्तिस्वरूपम् , तदज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरस्तत्प्रतिबिम्बत्वाकान्तं चैतन्य जीव इत्येवं बिम्बप्रतिबिम्बभाववादोपवर्णनं केषामित्याकालानिवृत्तये त्वाह-इति विव. रणाचार्या इति- एवं विवरणाचार्याः प्रतिपादयन्तीत्यर्थः / अयं च बिम्बप्रतिबिम्बभाववादः श्रुति-स्मृतिप्रमाणसिद्धत्वात् सर्वेरप्युपादेय इत्यावेदनाय तत्रः क्रमेण श्रुति-स्मृती दर्शयति-रूपमिति, एकघेति च, "रूपं रूपं प्रति रूपीवभूव" इत्यस्य स्थाने "रूपं रूपं प्रतिरूपो बभूव" इति पाठः सम्यग्, रूपं रूपमिति वीप्सया यं यमुपाधि प्राप्नोति चैतन्य तत् तदुपाध्यनुरूपं तद् भवति तदुपाधिविगमे नासौ तथा भवतीति दर्शितम्, एतावताऽनेकोपाधिपक्षः प्रकटितो भवति; अथवा रूप रूपमित्यनेनैकस्याप्युपारनेकावस्थस्यामेडनम्, तथा चैकोपाधिरवस्थाविशेषादनेकरूपतामश्चतीत्येकोपाधिपक्षोऽपि सूचितो भवति, मायाऽप्येका चैतन्यमप्येकमेवमपि तयोः सम्बन्धे कथं जीवेश्वराद्यनेकव्यवस्थितिरित्याकासां निवर्तयति एकत्यादिस्मृतिः, यथा जलाशयलक्षण उपाधिरेकः, आकाशश्चन्द्रोऽप्येकस्तथापि तयोः सम्बन्धे सति नानाविधजलाशय. गतोर्मिभावे अनेकानि चन्द्रप्रतिबिम्बानि जायन्ते, निस्तरङ्गे च तस्मिन्नेव जलाशये एकं चन्द्रप्रतिबिम्बं समुल्लसदू दृश्यते तथा प्रकृतेऽसीति / ननु मूर्तस्यैव चन्द्रादेः प्रतिबिम्बं भवतीत्यमूर्तस्य चैतन्यस्वरूपस्य ब्रह्मणः प्रतिबिम्बमेव न सम्भवतीत्याशङ्कां प्रतिक्षिपति-न चेति-अस्य शक्य इत्यनेनान्वयः। निषेधे हेतुमाह-अमूर्तानामपीति "मादर्शमर्त" इत्यस्य स्थाने “मादर्शेऽमूर्त" इति पाठो युक्तः, मूर्तत्वं रूपवत्त्वमेव प्रतिविम्बनिबन्धनमत्र परस्याभिमतम् , न च रूप परिणामादयो गुणा रूपवन्तः, गुणे गुणानङ्गीकारात्, अथापि आदर्श-दर्पणे रूप-परिणामादिगुणविशिष्टस्य मुखादेः प्रतिबिम्बने मुखादिगताना रूपपरिणामादीना गुणानाममूर्तानामपि प्रतिबिम्बस्य दर्शनादित्यर्थः / ननु दर्शनस्य दुरपडवस्वादमूर्तानां गुणानां प्रतिबिम्बनं दृश्यत इति तदुररीक्रियताम् , अमूर्तस्य तु द्रव्यस्य प्रतिबिम्बनं न दृष्टमिति दृष्टान्ताभावात् कथममूर्तस्व ब्रह्मणः प्रतिबिम्बनमास्थेयमित्यत आह- अमूर्तद्रव्यस्यापीति / साभ्रनक्षत्राकाशस्येति-अत्र अभ्र-नक्षत्रयोर्मूतत्वेऽपि आकाशस्य न मूर्तत्वमिति साधनक्षत्राकाशस्य न मूर्तत्वमिति बोध्यम्। जानुमात्र जानुप्रमाणे, एतेन चन्द्रो यद्यपि जलाशयगतोऽधिकपरिमाणस्तथाऽपि वितस्तिमात्रतयैव लोकैरनुभूयत इति कृत्वा जलाशयान्न्यूनपरिमाणक एव कल्पित 'इति न्यूनपरिमाणकस्य तस्य प्रतिबिम्बनमधिकपरिमाणे जलाशये, न त्वधिकपरिमाणस्य न्यूनपरिमाणे प्रतिविम्बनं सम्भवतीति कथमतिमहतो ब्रह्मणोऽपिपरिमाणेऽज्ञाने प्रतिबिम्बनमिति तुच्छशङ्काऽपि व्यपाकृता भवति, अतिमहतोऽ. प्याकाशस्य स्वल्पपरिमाणे जले प्रतिविम्बस्य दर्शनेन तदृष्टान्तेनातिमहतोऽपि ब्रह्मणः स्वापेक्षया न्यूनपरिमाणेशाने
SR No.004344
Book TitleNayopdesh Part 02 Tarangini Tarni
Original Sutra AuthorN/A
AuthorYashovijay Gani, Lavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy