________________ 300 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। तथाहि-एकस्यैव मुखस्य दर्पणोपाधिसम्बन्धाद् बिम्बप्रतिबिम्बभावः, एवं चिन्मात्रस्योक्तोपाधिसम्बन्धाजीवेश्वरभावो न तत्त्वान्तरमस्ति / अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादिशब्दाभिधेयम् , तचैकेनेवोपपसावनेककल्पनानवकाशादेकमेवेत्येके / बद्धमुक्तव्यवस्थानिरूपणाय नानेत्यन्ये, तदवस्थानि मूलाझानानि व्यवहारसौकर्याय निरूपयन्ति- तत्रैव माया-ऽविद्याशब्दद्वयनिमित्तं शक्तिद्वयं-विक्षेपशक्तिरावर्णशक्तिच, कार्यजननशक्तिर्विक्षेपशकि, तिरोधानशक्तिरावर्णशक्तिः, यथा-अवस्थारूपस्य रज्वज्ञानस्य सर्पजनन. तथाहीत्यादिना / बिम्बप्रतिबिम्बमाव इति- दर्पणरूपोपाधौ दर्पणगतमालिन्यादिदोषान्मलिनमिव तद्गतमुपलभ्यमान मुखं प्रतिविम्बत्वधर्माकान्तत्वादन्यत् तदन्यच्च प्रीवास्थमेव स्वस्वरूपव्यवस्थितं बिम्बत्वधर्माकान्तम्, दर्पणलक्षणोपाधिसम्बन्धाभावे च बिम्बप्रतिबिम्बमावानाक्रान्तमेव केवलं मुखमिति यथेत्यर्थः / एवं तथा / उकोपाधिसम्बन्धाद अज्ञानलक्षणोपाधिसम्बन्धात् / न तस्वान्तरम् औपाधिकस्य जीवेश्वरविभागस्योपाध्यभावेऽभाव एवेति वस्तुतस्तस्याभावान ब्रह्मतत्त्वातिरिकतत्त्वरूपतालक्षणं तत्त्वान्तरत्वमिति न ब्रह्मतत्त्वादन्यत् तत्त्वमस्ति / अज्ञानमिदं न ज्ञानप्रागभावज्ञानात्यन्ताभावरूपं किन्तु तेजोविरोधिभावस्वरूपवज्ञानविरोधिमावस्वरूपमेवाविद्यादिशब्दाभिधेयमित्याह-मशानं विति- अनाद्यनिर्वचनीयं यद् मायाऽविद्यादि तत्प्रतिपादको यो मायाऽविद्यादिशब्दस्तेनाभिधेयमज्ञानमित्यर्थः, अथवा अनादिशब्दोऽनिर्वचनीयशब्दो मायाशब्दोऽविद्याशब्द इत्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः / तदज्ञानमेकमनेकं वेति जिज्ञासायामेके केचन वेदान्तिमतानुयायिन आचार्या लाघवादेकमेव तदिच्छन्तीति तन्मतमुपदर्शयति- तश्चेति-मायाऽविद्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः / एकेनैवाशानेन उपपत्ती अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरः, अज्ञानप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इत्येवमीश्वरजीवभेदव्यवस्थित्युपपत्तौ। अनेककल्पनानवकाशात् मायोपाधिकं चैतन्यमीश्वरोऽविद्योपाधिकं चैतन्यं जीव इत्येवमनेकाज्ञानकल्पनायाः प्रयोजनस्य जीवेश्वरविभागस्यान्यथैवोपपत्तावनवकाशात् / एकमेवेत्सत्र तदित्यस्यान्वयः / इति एवम् / एके आचार्या अभ्युपगच्छन्ति / अविद्याशब्दाभिधेयस्य जीवोपाधेरज्ञानस्यकत्वे तदुपाधिकचैतन्यरूपस्य जीवस्याप्येकत्वमित्येकस्य मुक्तौ तद्रूपस्य सर्वजीवस्य मुक्तिरेकस्य बन्धे सर्वस्यापि बन्ध इति एको जीवो बद्धस्तदानीमेवान्यो मुक्त इत्येवं बद्धमुक्तव्यवस्थैकाज्ञानोपाधिवादे दुर्घटेत्यनेकमेवाज्ञानमभ्युपेयमित्येवमन्ये वेदान्तिमतानुयायिन आचार्या उररीकुर्वन्तीति तन्मतं दर्शयतिबद्धमुकेति / 'अन्ये' इत्यस्यैव निरूपयन्तीत्यनेनान्वयः, तथा च व्यवहारसौकर्याय तदवस्थानि मूलाज्ञानानि निरूपयन्त्यन्ये इत्यन्वयः फलितः / कथं तन्निरूपणमित्याकालायां निरूपणप्रकारमुपदर्शयति-तत्रैवेति- मूलाज्ञान एवेत्यर्थः / मायेति-मायाशब्दनिमित्तमेकां शक्तिमपरामविद्याशब्दनिमित्तमित्येवं शक्तिद्वयं निरूपयन्तीत्यर्थः। शक्तिद्वयं नाममाह दर्शयति-विक्षेपेति-रावणेत्यस्य स्थाने रावरणेति पाठो युक्तः, एवमप्रेऽपि, तथा च अशाने विक्षेपशक्या मायाशब्दः प्रवर्तते, आवरणशल्या अविद्याशब्दः प्रवर्तते इति / क्रमेण तदुभयस्वरूपं लक्षयति-कार्येति- अज्ञानं यया शक्त्याsभिनवकार्य जनयति सा कार्यजननशक्तिर्विक्षेपशक्तिरित्यर्थः, यया शक्त्या यथावस्थितवस्तुस्वरूपग्रहणं ज्ञानस्य प्रतिबध्नाति सा. तिरोधानशक्तिरावणशक्तिरित्यभिधीयते, अवरणशक्तरपि असत्त्वापादका-ऽभानापादकशक्तिभ्यां वैविध्यं प्रन्थान्तरे उपवर्णितम्, तत्र ययाऽज्ञानशक्त्या प्रतिबन्धाद् वस्तुनोऽस्तित्वमपि प्रहीतुं न पार्यते साऽसत्त्वापादकावरणशक्तिः, वस्तुनः सत्त्वं गृहलपि पुरुषो ययाऽज्ञानशक्त्या प्रतिबन्धादिदमीग् वस्त्वित्येवं प्रहीतु न शक्नोति प्रमाता साऽभानापादकावरणशक्तिः, अत्र असत्वापादकावरणशक्तिरज्ञानस्य परोक्षज्ञानात् प्रतिरुदा भवति विनश्यति वा, तेन वस्तुनः परोक्षज्ञाने जाते सोऽस्तीति सामान्यतोऽस्तित्वं प्रतीयते, स इत्थं स्वरूप इति विशेषतो ज्ञानाभावात् कीदृशः स इति जिज्ञासा ततो न निवर्तते, अभानापादकावरणशक्तिस्त्वज्ञानस्यापरोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः प्रत्यक्षाने समुत्पने सतीदं वस्त्वित्यमेवेति विशेषतो ग्रहणं भवति, न तदानीं कीदृगिदमिति जिज्ञासा समुल्लसति, तथा च परोक्षज्ञानतोऽसत्त्वापादकशकेरमिभवाचाशाद् वा वस्त्वस्तीत्येव ज्ञायते, प्रत्यक्षज्ञानतोऽमानापादकशक्तेरभिमवानाशाद् वा वस्तु भातीति ज्ञायते इति विवेकः / निरुतशक्तिद्वयमेव दृष्टान्तदान्तिकभावसझमनेन भावयति-यथेति / अवस्थारूपस्य मूलाशानावस्थरूपस्य, तूलाज्ञानपदवाच्यस्येति यावत्, मूलाज्ञानं शुद्धचैतन्यं परमब्रह्मावृणोति, तत्रैव व्यावहारिकसत्त्वाद्याकान्तं भूजलादिकं सूजति चेति रज्ज्वज्ञानादिकं च तस्यैवावस्थाविशेषरूप तूलाज्ञानशब्दाभिधेयं रज्ज्वादिकमाषणोति रज्ज्वादावेव च