________________ नयामृतवरहिणी तरङ्गिणीतरणिभ्यां समलङ्कतो गयोपदेशः। सहायशब्दब्रह्मैव तदुपादानं वाच्यम् , अद्वैतशास्त्रेणाविद्यानिवृत्तौ च तन्मूलप्रपञ्चविगमे शुद्धं शब्दब्रह्मैवावशिष्यते, स एव मोक्ष इति निरवद्यम् / केवलं तस्य शब्दात्मकत्वे शुद्धशब्दत्वादिधर्मवत्त्वम् , निर्धर्मकत्वेऽप्यसदादिव्यावृत्तिवदशब्दादिव्यावृत्त्यैवोपपत्तिरिति संक्षेपः। द्वितीयमवावलम्बिनो वेदान्तिनः, तन्मतेऽखण्डमद्वितीयमानन्दैकरसं स्वप्रकाशं चैतन्यमेव जगतस्तत्त्वम् , अनिर्वचनीयस्यैव सर्पस्य रज्जुः / कथं तर्हि जीवेश्वरविभाग इति चेत् ? अलानरूपादुपाधेः, सहायम् अविद्यासहकृतम् / ब्रह्मैवेत्येवकारेण तदतिरिक्तस्य सर्वस्यैव कल्पितस्योपादानत्वव्यवच्छेदः / तदुपादानं प्रामा-ऽऽरामादिप्रपञ्चस्योपादानम् / अद्वैतशास्त्रेण शब्दब्रह्माद्वैतबोधकवेदान्तवाक्येन, नहि तद्वाक्यमात्रतोऽविद्यानिवृत्तिः सम्भवति तथा सति पूर्वमेवाविद्यानिवृत्तिप्रसङ्गः स्यात् किन्तु शब्दात्मकब्रह्माद्वतसाक्षात्कारादित्यत्र दृश्यम् / तन्मूलप्रपश्चविगमे अविद्यामूलकस्य प्रपञ्चस्य- प्रामारामादिरूपस्य विलये सति / शुद्धं कल्पितप्रपञ्चरहितम् / शब्दब्रह्मव शब्दतत्त्वात्मकब्रह्ममात्रम् / अवशिष्यते अवशिष्टं भवति / स एव शुद्ध शब्दतत्त्वात्मकब्रह्ममात्रम्, एवकारेण शब्दब्रह्मातिरिक्तस्य मोक्षस्वरूपत्वस्य व्यवच्छेदः / केवलं किन्तु / तस्य ब्रह्मणः। अखण्डस्य ब्रह्मणो भिन्नस्य कस्यचिद्धर्मस्याभावाच्छुद्धशब्दत्वादिधर्मोऽपि नास्ति द्वैतापत्तिभयात् तदुपगमोऽपि न शक्यः कर्तुमत आह-निर्मकत्वेऽ. पीति / विधिरूपधर्मस्यातिरिक्तस्याभावादेव निर्धर्मकत्वं ब्रह्मणः, अभावो हि अधिकरणात्मक इत्यसदादिव्यावृत्तिलक्षणस्य सत्त्वादिधर्मस्य ब्रह्मात्मकाधिकरणस्वरूपस्य ब्रह्मणि स्वीकारतो यथा सद् ब्रह्म आनन्दो ब्रह्म ज्ञानं ब्रह्मेति व्यवहारोप. पत्तिस्तथाऽशब्दादिष्यावृत्तिलक्षणस्य शुद्धशब्दत्वादिधर्मस्य ब्रह्मात्मकस्यैव ब्रह्मण्यभ्युपगमेन शब्दतत्त्वं ब्रह्मत्यप्युपपद्यतेतरामित्याह-असदादिव्यावृत्तिवदिति // चित्सन्मानं ब्रह्मेति द्वितीयब्रह्मवादिमतमुपवर्णयितुमाह-द्वितीयेति / शब्दतत्त्वं ब्रह्मेति प्रथमब्रह्मवादिमतावलम्बिनो भर्तृहरिप्रभृतेर्वैयाकरणत्वस्यावधारितत्वाद् द्वितीयमतावलम्बिनः के इत्याकालानिवृत्तये त्वाह-वेदान्तिन इति / तन्मते वेदान्तिमते। भखण्डम् अवयवावयविभाव-देशप्रदेशादिभाव-गुणगुणिमावादिविकलम् / अद्वितीयं स्वभिनत्वव्यापकीभूताभावप्रतियोगिपारमार्थिकसत्त्ववत्, एतावता ब्रह्मैव परमार्थसत्, ब्रह्मभिन्नं परमार्थसन्न भवतीति ज्ञापितम् / दु.खैकरूपमप्यद्वितीयं स्यादत बाह-मानदेकरसमिति-आनन्दैकस्वभावमित्यर्थः / एवम्भूतं ब्रह्म यदि न प्रमाणविषयस्तर्हि न धदेयम्, यदि च प्रमाणविषयस्तर्हि तत्प्रमाणं यदि परमार्थसत् तर्हि तदादाय द्वैतापत्तिः, अथ कल्पितं तदा कल्पितेन तेन न परमार्थसब्रह्मसिद्धिरित्यत आह- स्वप्रकाशमिति-तथा च स्वप्रकाशरूपत्वात् स्वसिद्धस्य न प्रमाणान्तराधीना सिद्धिरिति न तत्सिद्धये प्रमाणान्तरमन्वेषणीयमिति / अभेदे विषयविषयिभावाभावात् स्वप्रकाशमित्यस्य स्वविषयकप्रकाशरूपमिति नार्थः, किन्त्वत्स्वप्रकाशभिन्नमिस्येव तदर्थः, कथं ज्ञानानात्मकं तत् स्वप्रकाशं जडस्य स्वप्रकाशस्वासम्भवादत माहचैतन्यमेवेति-तथा च शानस्वरूपत्वादेव स्वप्रकाशं तदित्यर्थः, एवकारेण तद्विजस्य तत्त्वरूपताव्यवच्छेदः / निरुकस्वप्रकाशं ब्रह्म जगतोऽधिष्ठानमतो ब्रह्मैव जगतस्तत्त्वं यद् यस्याधिष्ठानं तत् तस्य तत्त्वमिति व्याप्तेमिष्टानाय दृष्टान्तमुपदर्शयति-अनिर्वचनीयस्येति-"अनिर्वचनीयस्वैव" इत्यस्य स्थाने “अनिर्वचनीयस्येव" इति पाठो युकः, ममिर्वचनीयस्य सर्पस्य रज्जुरिवेत्यन्वयः, रजौ अयं सर्प इति यद् भ्रमात्मकं ज्ञानं भवति तद्विषयः सर्पो न देशान्तरीयः, तेन समं च चक्षुषो लौकिकसन्निकर्षाभावात् , ज्ञानलक्षणाऽलौकिकसनिकर्षस्वेन्द्रियप्रत्यासत्तित्वं नाभ्युपेयत एव, किन्तु एज्ज्वज्ञानात् तदानोमेवोत्पन्नोऽनिर्वचनीयः सर्प एव रज्जो कलिलतस्तद्विषयः, सच प्रातीतिकसनिति गीयते, तस्यानिर्वचनीयस्य सर्पस्याधिष्ठानं रज्जुरेव तत्त्वं कल्पितस्याधिष्ठानसत्तातिरिक्तसत्त्वानभ्युपगमादिति यथा तथा निरुतचैतन्यस्वरूप.. ब्रह्मणि कल्पितस्य जगतो ब्रह्मसत्त्वातिरिक्तसत्त्वाभावात् तदेव तत्त्वमित्यर्थः / पृच्छति-कथमिति / तर्हि यदि निरुक्तचैतन्यव्यतिरिक्तवस्तुनोऽभावाचैतन्यमेव जगतस्तत्त्वं तदा उत्तरयति-अज्ञानरूपादुपाधेरिति- एकस्यापि चैतन्यस्वरूपस्य ब्रह्मणोऽज्ञानरूपोपाधिसम्बन्धादयं जीवोऽयमीश्वर इति भेदस्वरूपो विभाग इति विभागेनोपाधिकल्पितेन न परमार्थस्य शुद्धचैतन्यातस्य व्याघात इत्यर्थः / अज्ञानरूपादुपारेकस्य चैतन्यस्य जीवेश्वरविभाग इति यदुक्तं तदेव भावयति