________________ 298 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। वाच्यतासम्बन्धेन दशरथपदत्वेन वा शाब्दबोधः स्वीकर्तव्यः, तथा तुल्यन्यायात् सर्वत्रापीति शब्दानु. भवोऽप्यर्थस्य शब्दात्मकत्व एव साक्षीति / न चानवगतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव विषयीकरोतीति नीलादेरशब्दात्मकत्वसिद्धिः. शब्दासंसृष्टार्थानुभवस्य ज्ञानवादिना ज्ञानाभावकाल इव शब्दवादिना शब्दांभावकाले बाह्यार्थस्यैवानुभ्युपगमेन शब्दातिरिक्तबाह्यासिद्धेः, बाह्यत्वनियतदेशवृत्तित्वादि च घटादावविद्यावशादेव भासत इति न तत्तदाकारैः शब्दब्रह्मभेदसिद्धिः, तदुक्तम्" यथा विशुद्धाकाशं तिमिरोपप्लुतो जनः / संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते // 1 // . तथैदममलं ब्रह्म निर्विकल्पमविद्यया / कलुषत्वमिवापन्नं भेदरूपं विवर्तते // 2 // " ] इति / यदि वा प्रामा-ऽऽरामादिप्रपञ्चो व्यवहारसत्यः स्वीक्रियते, ताहग्वैलक्षण्यानुभावात् , तदाऽविद्या प्रतियोगिकशक्तिलक्षणान्यतरसम्बन्धनिष्टप्रकारतानिरूपकज्ञानाद् दशरथपदाद् दशरथपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धन दशरथपदवत्वेन रूपेण वा दशरथस्य बोधो यथा स्वीकर्तव्यो भवति तथा तुल्यन्यायात् सर्वत्र घट-पटादिस्थलेऽपि घटादिपदवाच्यत्ववति घटादिपदवृत्तिप्रकारकज्ञानाद् घटादिपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धेन घटादिपदवत्वेन घटादेः शाब्दबोधो घटादिपदादभ्युपगन्तव्य इत्येवं शाब्दबोधः शब्दानुभवरूपः सन्नर्थस्य शब्दात्मकत्वे साक्षी भवत्येवेत्यर्थः, दशरथपदत्वेनेत्यस्य स्थाने दशरथपदवत्त्वेनेति पाठो युक्तः। अत्र पराशङ्कामुत्थाप्यापहस्तयति-न चेति / अनवगसचिसोऽपीति-चक्षुषा नीलादिरूपसाक्षात्कारे ज्ञानस्य भानं ज्ञानलक्षणालौकिकप्रत्यासत्यैवेति शानस्य ज्ञाने सत्येव चक्षुषा नीलादिशाने तद्भानं भवितुमर्हति, यश्च प्रमाताऽनवगतचित्तोऽज्ञातज्ञान:-नीलादिवीक्षणाव्यवहितपूर्वसमये ज्ञानज्ञानशून्यः सोऽपि, रूपं चक्षुषा वीक्षमाणः पश्यन् सन्। अभिलापासंसृष्टमेव नीलं विषयीकरोति अभिलापासंसृष्टनीलादिविषयकदर्शनवानेव सः, इति एतस्मात् कारणानीलादेरशब्दात्मकत्वसिद्धिरिति न चेत्यर्थः / अत्र हेतुमुपदर्शयति-शब्दासंसृष्टार्थानुभवस्येति-अस्य 'अनभ्युपगमेन' इत्यनेन सम्बन्धः, ज्ञानवादिना ज्ञानाभावकाले इव बाह्यावस्येव शब्दवादिना शब्दाभावकाले शब्दासंसृष्टार्थानुभवस्यानभ्युपगमेन शब्दातिरिक्तग्राह्यासिद्धरित्यन्वयः, “बाह्यार्थस्यैवानभ्युपगमेन" इत्यस्य स्थाने "बाह्यार्थस्येवाभ्युपगमेन" इति पाठः सम्यक्, . ज्ञानाद्वैतवादिना यथा ज्ञानामावकाले बाह्यार्थो नाभ्युपगम्यते बाह्यार्थस्य ज्ञानाकारव्यतिरिक्तस्याभावेन ज्ञानाभावकाले तदभावस्य न्यायप्राप्तत्वात् तथा शब्दाद्वैतवादिना शब्दामावकाले शब्दासंसृष्टार्थानुभवो नाभ्युपगम्यते, सर्वस्यार्थस्य शब्दात्मकतया शब्दतत्त्वव्यतिरिक्तस्यार्थ. स्याभावेन शब्दाभावकाले तदनुभवाभावस्यापि न्यायप्राप्तत्वात्, एवं च नीलादिशब्दासंसृष्टस्य नीलाद्यर्थस्याभावेन ज्ञानेन तद्विषयीकरणस्याप्यसम्मवेन ततो नीलादेरशब्दात्मकत्वसिदयसम्भवादित्यर्थः। ननु यदि झान-शब्दव्यतिरिको बाह्यार्थो नास्ति तर्हि बाह्यत्वप्रतिनियतदेशवृत्तित्वादिकं धर्म्यभावात् कथं भासेतेत्याकालायामाह-बाह्यत्वेति / तत्तदाकारैः घट. पटादिप्रतिनियतबाह्याकारः। उत्कार्थे ब्रह्मवादिवचनसंवादमाह-तदुक्कमिति। यथेत्यादिपद्यद्वयं स्पष्टार्थम् / वा अथवा, सत्त्वं द्विविध- व्यावहारिकसत्त्वं पारमार्थिकसत्त्वं च, तत्र पारमार्थिकसत्त्वं शब्दब्रह्मणः, तस्य त्रिकालाबाध्यत्वात्, व्यावहारिकसत्त्वं शब्दब्रह्मातिरिक्तस्याशेषस्यैव जगतः, तस्य व्यवहारकाले बाधाभावेऽप्युत्तरकाले शब्दब्रह्मसाक्षात्कारेण बाध्यमानत्वात् , प्रातीतिकसत्त्वस्याप्यतिरिक्तस्य शुकिरजतादौ कस्यचिदभ्युपगमस्तन्मते- ब्रह्मशानातिरिकज्ञानाबाध्यत्वं व्यावहारिकसत्त्वम् , ब्रह्मज्ञानातिरिक्तज्ञानबाध्यत्वे सति प्रतीयमानत्वं प्रातीतिकसत्त्वमिति व्यावहारिक-प्रातीतिकसत्त्वयोविवेकः, तयोर्न मेद इति पक्षे तु बाध्यत्वे सति प्रतीयमानत्वमेव व्यावहारिकसत्त्वमित्याशयेनाह-ग्रामा-रामादि. प्रपञ्च इति / कथं प्रामारामादिप्रपञ्चो व्यवहारसत्य उपेयत इत्यपेक्षायामाह-ताहग्बलक्षण्यानुभवादिति- सर्वथाsसत्यत्वे यद् प्रामारामादीनां वेलक्षण्यमनुभूयते तन स्यात्, निरुपाख्यस्य- सकलधर्मविनिर्मुक्तस्य किश्चिधर्मविशिष्टतया प्रतीयमानत्वस्यैवासम्भवेन परस्परवलक्षण्यानुभवस्य सम्भावयितुमप्यशक्यत्वादित्याशयः। तदा तदानीम् / अविद्या