________________ मयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। 291 - - तस्याः फले व्यभिचारात् , अशाश्वता नां - कृत्रिमप्रतिमानां पूजायाम् , प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः कः ? अप्रतिष्ठितं न पूजयेदिति निषेधनं च किम् ? प्रतिष्ठा-तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन तत्र विधि-निषेधार्थान्वयस्यायोग्यत्वादिति भावः // 105 // . . कथमेतन्निरस्तम् ? इत्याह- . ............. ..... . पूजादिविधयो ज्ञानविध्यङ्गित्वं यदाश्रिताः। .... . शाश्वताऽशाश्वतार्चासु, विभेदेन व्यवस्थिताः // 106 // नयामृत-पूजादीति / पूजादिविधयः-प्रतिष्ठितां प्रतिमा पूजयेदित्यादिवाक्यलक्षणाः, ज्ञानविधेः-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदित्यागमवाक्यात्मकस्य, अङ्गित्वं-प्रधानत्वम् ; आश्रिताः, शाश्वता:ऽशाश्वतार्चासु, विभेदेन-भिन्नरूपेण व्यवस्थिताः / तथा च प्रतिष्ठाया न पूजासहकारित्वम्, किन्तु स्वकर्तव्यताबोधकविध्यङ्गता। यत्र विधिविषयनिर्वाहकत्वेन प्रयोजकत्वम्, ता. "इदं प्रथमतो" इत्यस्य स्थाने " इदं प्राथम्ये तेन प्रथमतों" इति पाठो भवितुमर्हति, इदमादिपदं प्राथम्यरूपार्थे वर्तते, तेन मादी-इत्यस्य प्रथमत इत्यर्थः / शाश्वतप्रतिमा सर्वदेव व्यवस्थितैव, तत्र प्रतिष्ठा प्रथमतो नास्त्येव, अत-. स्तत्र प्रतिष्ठामन्तरेण शाश्वतप्रतिमार्चनतः फलं भवतीति तत्रैव शाश्वतप्रतिमार्चन एव, तस्याः प्रतिष्ठायाः, फले प्रतिमाऽर्चनजन्यफले, व्यभिचारात् व्यतिरेकव्यभिचारात् , प्रतिष्ठाया अभावेऽपि प्रतिमापूजनजन्यफलस्य भावात् / अशाश्वता पूजायामित्यस्य विवरणम्- अशाश्वता नां-कृत्रिमप्रतिमानां पूजायामिति / को विधिरित्यस्य विवरण-प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः क इति / किं निषेधनमित्यस्य विवरणम्- अप्रतिष्ठितं न पूजयेदिति निषेधनं च किमिति / विधि-निषेधयोरभावे हेतुमुपदर्शयति-प्रतिष्ठेति-शाश्वतप्रतिमायां प्रतिष्ठाय अमावेऽपि तत्पूजनत इष्टफलस्य भावेन व्यतिरेकव्यभिचारात् प्रतिष्ठाया इष्ट प्रति न कारणत्वम्, एवं शाश्वतप्रतिमायां प्रतिष्ठाभावस्य सत्त्वेऽपि न भवत्यनिष्टफलमित्यन्वयव्यभिचारात् प्रतिष्ठाभावस्य नानिष्टफलं प्रति कारणत्वमित्येवं प्रतिष्ठाप्रतिष्ठाऽभावयोर्व्यभिचारादिष्टानिष्टसाधनत्वयोरभावेन प्रतिष्ठितां प्रतिमां पूजयेदित्यत्र प्रतिष्ठितप्रतिमापूजने विध्यर्थेष्टसाधनत्वान्वयस्यायोग्यत्वात् , अप्रतिष्ठितं न पूजयेदित्यत्र अप्रतिष्ठितप्रतिमापूजने निषेधविध्यर्थानिष्टसाधनत्वान्वयस्यायोग्यत्वादित्येवमत्र भावार्थ .इत्यर्थः / “प्रतिष्ठा तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन" इत्यस्य स्थाने "प्रतिष्ठातदभावयोरिष्टानिष्टसाधनत्वयोर्व्यभिचारादभावेन" इति पाठः समीचीनः, एतत्पाठानुसारेणैवानन्तरमुपवर्णितोऽर्थइति // 105 // . . ....... :षडुत्तरशततमपद्यमवतारयति-कथमिति- केन प्रकारेणेत्यर्थः, एतत् आध्यात्मिकाभासानां मतम्, निरस्तं खण्डितम् , इत्याह एवं प्रश्ने सत्युत्तरं कथयति। विवृणोति-पूजादीतीति / पूजादिविधयः किंस्वरूपा इत्यपेक्षायामाह-.. प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा इति / मानविध्यवित्वमिति समस्तं व्यासार्थोपदर्शनेन विवृणोति-. मानविधेरिति / किंस्वरूपस्य ज्ञानविधेरित्यपेक्षायामाह-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदि. त्यागमवाक्यात्मकस्येति / अङ्गित्वमित्यस्य विवरण- प्रधानत्वमिति / आश्रिताः आश्रित्य प्रवृत्ताः / अतो.. मानविधिः प्रधान पूजाविधिस्तु तदङ्गमिति प्रधाने न भवति विकल्पः किन्तु तदक्ष एवेति यथा प्रधानविध्युपपत्तिस्तथा तदनविधिर्विकल्पनीय इत्याशयेनाह-शाश्वताऽशाश्वता स्विति-शाश्वतप्रतिमाऽशाश्वतप्रतिमास्वित्यर्थः / विभेदेने-.. त्यस्य विवरण-भिन्नरूपेणेति / तथा च ज्ञानविध्यशानां पूजादिविधीनां भिन्नरूपेण व्यवस्थितौ सत्यां च / प्रतिष्ठाया. न पूजासहकारित्वं प्रतिमापूजाफले प्रतिष्ठाया न कारणत्वम् / एवं सति प्रतिष्ठा निरर्थिकैव स्यादिति पृच्छतिकिन्विति / उत्तरयति-स्वकर्तव्यतेति- " स्वकर्तव्यताबोधकविध्यङ्गता। यत्र विधि" इत्यस्य स्थाने "स्वकर्तव्यताबोधकविध्यङ्गतापनविधि" इति पाठः समीचीनः, तस्यायमर्थः- स्वस्याः- प्रतिष्ठायाः, कर्तव्यताबोधको यो विधिः-प्रतिष्ठितां प्रतिमा भगवदभिन्नत्वेनाध्यारोपयेदिति, तस्याङ्गतापनो विधिः- प्रतिष्ठितां प्रतिमां पूजयेदिति, तद्विषयः. -