________________ - 290 ___ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। हार्यारोपविषयपूजनत्वादिनैव फलहेतुता, क्तप्रत्ययस्य चौत्सर्गिकेन कृत्प्रत्ययेनैवार्थवत्तेति चिन्तामणिकारादप्यतिसूक्ष्ममतिनिपुणं च वयमीक्षामहे // 103 // उक्तमेव वक्ष्यमाणफलान्वयेनाह तत्कारणेच्छाजनकज्ञानगोचरबोधकाः / विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् // 104 // नयामृत-तत्कारणेति / तस्य-आहार्यारोपस्य, कारणं या इच्छा, तजनक-यत् प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानम् , तद्गोचरीभूतप्रतिष्ठाया बोधकाः- इष्टसाधनत्वबोधनादिद्वारा सदुत्पत्तिहेतव इति यावत्, विधयोऽपि-विधिवाक्यान्यपि, उपयुज्यन्ते- फलवन्तो भवन्ति, तैः प्रतिष्ठोत्पादने प्रतिष्ठितप्रतिमायामारोपविधिना भगवदभेदाध्यारोपोपपत्तौ पूजाफलप्रयोजक. रूपसिद्धेः, तेनेदं- वक्ष्यमाणं दुर्मतम् , आध्यात्मिकामासाना, हतं-निराकृतम् // 104 // . .. ...किं तद् ? इत्याहका प्रतिष्ठाद्यनपेक्षायां, शाश्वतप्रतिमार्चने / अशाश्वता_पूजायां, को विधिः किं निषेधनम् ? // 105 // नयामृत-प्रतिष्ठेति / शाश्वतप्रतिमार्चने, प्रतिष्ठाया आदाविदं प्रथमतोऽनपेक्षायां, तत्रैव स्पर्शाभावविशिष्टप्रतिष्ठाध्वंसत्वेन तादृशध्वंसविशिष्टप्रतिमापूजनत्वेन वा फलं प्रति हेतुत्वस्य चिन्तामणिकारानुमतस्य व्यव. च्छेदः / ननु कप्रत्ययस्य प्रयुक्ताहार्यारोपविषयै लक्षणापक्षे तस्य शक्यार्थवत्ता. न स्यादत आई-कप्रत्ययस्येति / औत्सर्गिकेन कृत्प्रत्ययविधायकसामान्यशास्त्रोपस्थापितेन / “कृत्प्रत्ययेनैवा" इत्यस्य स्थाने “कृत्प्रत्ययार्थेनैवा" इति पाठो युक्तः, धात्वर्थस्वरूपमात्रेऽपि कृत्प्रत्ययविधानमस्तीति प्रकृते प्रतिष्ठालक्षणधात्वर्थस्वरूपेणैव शक्यार्थवत्त्वमपि कप्रत्ययस्य भविष्यति, कृत्प्रत्ययार्थेनवेत्येवकारेण ध्वंसप्रतियोगित्वलक्षणातीतत्वरूपविशेषशास्त्रस्मारितार्थनार्थवत्त्वस्य व्यव. च्छेदः, एतेन वर्तमानप्रतिष्ठात्मकपूजाया अपि फलवत्त्वमुपपद्यतेतरामित्यावेदितं भवतीति / इति एवंस्वरूपम् . चिन्ता. मणिकारादपि गङ्गेशोपाध्यायादपि, अतिसूक्ष्म विशिष्टशेमुषीशालिबुधैकगम्यम्, अतिनिपुणम् एतादृशार्थस्यावश्यमेव कार्यकारित्वमित्यत्यन्तकार्यनिर्वाहकम् , वयं श्रीयशोविजयोपाध्यायाः, ईक्षामहे विचारयामः // 103 // चतुरुत्तरशततमपद्यमवतारयति-उक्कमेवेति- अनन्तरपद्याभिहितमेवेत्यर्थः। वक्ष्यमाणफलान्वयेन वक्ष्यमाणं यद् दुर्मतखण्डनलक्षणं फलं - तत्सम्बन्धेन / विवृणोति-तत्कारणेतीति / अनेकस माससङ्घटितमूर्तेर्वाक्यस्यावान्तर समासस्फुटीकरणद्वाराऽर्थमुपदर्शयति-तस्येत्यादिना / तस्येत्यस्य विवरणम्- आहार्यारोपस्येति / तजनकम् इच्छाजनकम् / यदित्यस्य ज्ञानमित्यनेनान्वयः। तज्ज्ञानं किंजनितमित्यपक्षायामाह-प्रतिष्ठितामिति / तद्बोचरीभूतेति- तादृशज्ञानविषयीभूतेत्यर्थः / बोधका इति विधय इत्यनेनान्वितम् / कथं बोधका इत्यपेक्षायामाहइष्टसाधनत्वबोधवादिद्वारेति। तदुत्पत्तिहेतवः प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदज्ञानं मदिष्टसाधनमिति ज्ञानजनकाः। विधयोऽपीयस्य विवरण-विधिवाक्यानीति- प्रतिष्टिता प्रतिमां भगवदभेदनाध्यारोपयेदित्यादीनीत्यर्थः / उपयुज्यन्ते इत्यस्य विवरण-फलवन्तो भवन्तीति / कथं फलवन्तो भवन्तीत्यपेक्षायामाह-तैरिति- विधिवाक्यरित्यर्थः / प्रतिष्ठोत्पादने इति सति सप्तमी, अन्यत् स्पष्टम् / इदमित्यस्य विवरणं- वक्ष्यमाणमिति / केषां दुर्मतमित्यपेक्षायामाह-आध्यात्मिकामासानामिति / हतमित्यस्य विवरणं-निराकृतमिति // 1.4 // पञ्चोत्तरशततमपद्यमवतारयति-कि तदिति- आध्यात्मिकामासानां मतं किंस्वरूपमित्यर्थः / विवृणोति-प्रतिष्ठेतीति /