________________ 288 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / प्रतिष्ठारूपायां पूजायामेवागतेस्तत्र ध्वंसस्यैव फलजनकव्यापारस्याश्रयणे वादृष्टमात्रस्यैव दत्तजलाखली. त्वप्रसङ्गात् , कथं चैवं प्रतिष्ठितेऽप्यप्रतिष्ठितत्वज्ञाने न पूजाफलम् ? प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणस्वस्य पूजाफलजनकतावच्छेदककोटौ निवेशेन प्रतिष्ठावत्त्वेन प्रमीयमाणत्वस्यैव निवेशौचित्यमिति न किश्चि देतत्, तस्माद् बन्दनपूजाफलप्रयोजकत्वं कथं प्रतिष्ठाया इति जिज्ञासायामाह प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः / आहार्यारोपतः सा च, द्रष्टुणामपि धर्मभूः // 103 // नयामृत-प्रतिष्ठितेति / सा-स्थापना, प्रतिष्ठितप्रत्यभिज्ञया समापनो यः परात्मा भगवान् तस्याहार्यारोपतः, द्रष्ट्रणामुपलक्षणाद् वन्दकानां पूजकानां च, धर्मभूः-धर्मकारणं भवति, अयं भाव:प्रतिमायां भगवदभेदारोपं विना न तावद् वन्दन-पूजनादिफलं हेतुसहस्रेणापि सम्पद्यते, स च काष्ठ तदपि गोशोपाध्यायोकमपि। तुच्छत्वे हेतुमाह-प्रतिष्ठारूपायामिति- प्रतिष्ठारूपा या पूजा सा फलप्रदाऽमिमता, अन्यथा अफलायां तस्यां कस्यचित् प्रवृत्तिरेव न स्यात् , एवं च प्रतिष्ठारूपायां पूजायां निरुक्तप्रतिष्ठाध्वंसस्य तादृशध्वंसविशिष्टप्रतिमापूजनस्य वाऽभावात् फलोत्पत्तिर्न स्यादित्यर्थः। ननु प्रतिष्ठारूपपूजातस्तदानीमेव फलं न भवति किन्तु कालान्तर इति फलोत्पत्त्यव्यवहितपूर्वक्षणे प्रतिष्ठा खरूपतो नास्त्येव किन्तु खजन्यव्यापारवत्त्वसम्बन्धेनैव, स्वजन्यव्यापारश्च प्रतिष्ठाध्वंस एवेति व्यापारविधया प्रतिष्ठाध्वंसस्य फलप्रदत्वं समस्त्येवत्यत आह-तत्रेति- प्रतिष्ठारूपपूजायामित्यर्थः / ध्वंसस्यैव प्रतिष्ठाध्वंसस्यैव / अदृष्टमात्रस्यैवेति-चिरध्वस्तकर्मणोऽदृष्टलक्षणव्यापारमन्तरेण फलजनकत्वं न सम्भवतीत्येतावन्मात्रयुक्त्यवान्यत्राप्यदृष्टं कल्प्यते, यदि च स्वध्वंसद्वारा प्रतिष्ठाकर्म फलजनकं तदा कर्मान्तरमपि स्वध्वंसद्वारैव स्वफलं जनयिष्यतीति किमित्यदृष्टं तव्यापारत्वेन कल्पनीयमित्येवमदृष्टमात्रस्यैवोच्छेदः स्यादित्यर्थः, वस्तुतो ध्वंसव्यापारत्वं कल्पयितुमशक्यम् , तथा सति कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वमिति प्रतिष्ठाजन्यफलं प्रति प्रतिष्ठाध्वंसस्य कारणत्वे कारणी. भूतध्वंसरूपाभावप्रतियोगित्वेन प्रतिष्ठायाः प्रतिबन्धकत्वं प्रसज्यत इति / किञ्च यत्र प्रतिष्ठितेऽपि प्रतिबिम्बे अप्रतिष्ठितत्वज्ञानं पूजकस्य तत्र तत्पूजकस्य तत्पूजाफलं न भवति, यदि तु प्रतिष्ठाध्वंसस्य फलजनकत्वं तदा , प्रतिष्ठाध्वंसस्याप्रतिष्ठितत्वज्ञानेऽपि सत्त्वात् तत्पूजाफलं स्यादित्याह-कथं चेति- अस्य न पूजाफलमित्यत्रान्वयः। एवं प्रतिष्ठाध्वंसस्य फलप्रदत्वे / ननु प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणप्रतिबिम्बपूजनं फलप्रदम् , यत्र प्रतिष्ठितेऽप्रतिष्ठितत्वज्ञानं तत्र प्रतिबिम्बे प्रतिष्ठा वत्त्वंन प्रमीयमाणत्वं नास्त्यतस्तत्पूजनतः फलं न भविष्यतीत्यत आह-प्रतिष्ठाध्वंसवत्वेनेति / यत्राप्रतिष्ठितेऽपि प्रतिबिम्बे प्रतिष्ठाध्वंसवत्त्वस्य भ्रमतत्र तादृशभ्रमतस्तत्पूजकस्य तत्पूजाफलं न भवतीत्यतो-ज्ञायमानत्वस्येत्यनुक्त्वा प्रमीयमाणत्वस्येत्युक्तम् / निवेशेनेति स्थाने निवेशापेक्षयेति पाठः सम्यक् , प्रतिष्ठाध्वंसवत्त्वापेक्षया प्रतिष्ठावत्त्वस्य लघुभूतत्वेन प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्वापेक्षया प्रतिष्ठावत्त्वेन प्रमीयमाणत्वं लघ्वतः पूजाफलजनकतावच्छेदककोटौ तनिवेशस्यौचित्यम् / इति एतस्मात् कारणात् / एतत् गङ्गेशोपाध्यायोक्तम् / न किञ्चित् तुच्छमित्यर्थः / उपसंहरति-तस्मादिति / विवृणोति-प्रतिष्ठितेतीति / सेत्यस्य विवरण-स्थापनेति / प्रतिष्ठितेत्यादिसमस्तवाक्यं विवृणोति-प्रतिष्ठितेति / निरुक्ताहार्यारोपतो द्रष्ट्णामिव वन्दकानां पूजकानां च प्रतिमा धर्मकारणं भवति, मूले तदप्रदर्शनेन न्यूनत्वं स्यादत आह-उपलक्षणाद वन्दकानां पूजकानां चेति-मूले द्रष्टुपदं वन्दक-पूजकयोरप्युलक्षणन्यायात् प्रतिपादकमतो न न्यूनत्वम् / धर्मभूः इत्यस्य विवरणम्-धर्मकारणमिति / सर्व हि वाक्यं क्रियया परिसमाप्यते, यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्ति-भवतीतिक्रियाऽध्याहियत इति शाब्दिकसम्प्रदायमवलम्ब्य भवतीति क्रियापदं योजितम् / शब्दशक्यार्थमुपदर्य भावार्थमुपदर्शयति-अयं भाव इति। स च प्रतिमायां भगवदभेदारोपः पुनः, अस्य सम्पादनीय इत्यनेनान्वयः। विरुद्धधर्मज्ञानस्य भेदव्यजकत्वमिति भगवतः प्रतिमा काष्ठमयी पाषाणमयी मृन्मयो वा भवतीति