________________ 275 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। सादृश्येतरसम्बन्धनिमित्तकत्वमपहायेन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रवं वाच्यम् , तच्च न स्थापना. व्यावृत्तमिति नाम्ना स्थापनासङ्ग्रहो युक्त एवेति भावः // 95 // / इदं कैश्चिन्मतं तच्च, भाष्ये दूषितमुच्चकैः। / नाम्व द्रव्यनिक्षेपेऽप्येवं सङ्ग्रहसम्भवात् // 96 // नयामृत-इदमिति / इदं कैश्चिदाचार्यैर्मतम्-अङ्गीकृतम् , तच्चोच्चकैर्महता प्रबन्धेन भाष्य एवं दूषितम् , एवम्- उपचारविषयत्वस्यैव नामार्थत्वे, द्रव्यनिक्षेपेऽपि- द्रव्यनिक्षेपविषयेऽपि, नाम्नवनामपदार्थतयैव सहसम्भवात् // 96 // भावप्रवृत्तिताप्रयोजकसम्बन्धभेदान्नाम-द्रव्ययोभेदो भविष्यतीत्याशङ्कायामाह परिणामितया द्रव्यं, वाचकत्वेन नाम च। भावस्थमिति भेदश्चेन्नामेन्द्रे दुवेचं ह्यदः // 97 // नयामृत-परिणामितयेति / परिणामितया द्रव्यं भावे सम्बद्धम्, नाम च वाचकत्वेन वाच्य-वाचकभावेन सम्बद्धमित्येवं नाम-द्रव्ययोर्भेदश्चेत् , अदो नियामकं नाम्नेन्द्रे गोपालदारके दुर्व तस्य भावावाचकत्वात् // 97 // यदि च नामेन्द्रपदार्थघटकलक्षणायां मुख्यार्थवसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं सति मुख्यार्थवैसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं भवेत् , तदा गौणीलक्षणाया असङ्ग्रहापत्तेरित्यर्थः / तथा च उक्तदोषभयान्मुख्यार्थ. सादृश्ये मुख्यार्थवैसादृश्य वा निमित्ते आग्रहाभावे च। तच्च इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं च। न स्थापनाच्यावृत्तं स्थापनायां न वर्तते इति न, किन्तु स्थापनासाधारणम्, इति एतस्माद्धेतोः। नाना नामनिक्षेपेण, स्थापनासकहः स्थापनानिक्षेपस्य सङ्ग्रहणम् // 15 // . षण्णवतितमपद्यं विवृणोति- इदमितीति-इदमनन्तरमभिहितं 'साहनये स्थापनानिक्षेपस्य नामनिक्षेप एवान्तरर्भावः / इत्येवं स्वरूपम्। कैश्चित अनिर्दिष्टनामकैः. कैरित्यपेक्षायामाचार्यैरिति / मतमित्यस्य विवरणम्-अलीकतमिति / / तच निरुताचार्यमतं च। उच्चकैरित्यस्य विवरणं-महता प्रबन्धेनेति। भाष्य-एवेति-मूले भाष्ये इत्येतावन्मात्र स्योपादानेऽपि यदवकारस्याप्युपादानं तेनेदं ज्ञापितं भवति- अतिशयितप्रज्ञभाष्यकारेण महता प्रबन्धेन खण्डितोऽर्थों में केनापि व्यवस्थापयितुं शक्य इति तत्र नास्माकं दूषणान्तरोपदर्शनेन किमपि कृत्यमिति न तत्खण्डनेऽस्माभिलेखनी त इति / भाष्योक्तदूषणमेवोद्भावयति-एवमिति- अस्य विवरणम्- उपचारविषयत्वस्यैव नामार्थत्वे इति / ढव्यनिक्षेपेऽपीत्यस्य विवरण-द्रव्यनिक्षेपविषयेऽपीति / नाम्नैवेत्यस्य विवरण-नामपदार्थतयैवेति, तथा च.. साहनये नामनिक्षेप-भावनिक्षेपाभ्यां द्वैविध्यमेव निक्षेपस्याभिमतं न तु नामद्रव्यभावभेदेन निक्षेपस्य त्रैविध्यमित्येवमनी- करणीयं स्यात्, न च तथाऽजीकृतमिति युक्तिरिकं तदाचार्यमतमित्याशयः // 9 // सप्तनवतितमपद्यमवतारयति-भावेति- "भावप्रवृत्तिता" इत्यस्य स्थाने "भाववृत्तिता" इति पाठो युक्तः, भावे वाचकतासम्बन्धेन नाम वर्तत इति नानो भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धो वाचकतालक्षणः, द्रव्यं भावरूपेण परिणमते:इति परिणामितालक्षणसम्बन्धेन द्रव्यं भावे वर्तते इति द्रव्यस्य भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धः परिणामितालक्षणः, यद्यपि परिणामिता परिणामिनि वर्तते न तु परिणामे, तथापि परिणामितायाः संसर्गतानियामकः सम्बन्धो निरूपकतालक्षणोऽत्र विवक्षितः निरूपकतासम्बन्धेन च परिणामित्वं परिणामे वर्तत इत्येवं भाववृत्तिताप्रयोजकयोः सम्बन्धयोर्मेदानाम-द्रव्ययो-- मिनिक्षेपद्रव्यनिक्षेपविषययोर्भेदो भविष्यतीत्येवंस्वरूपाशङ्कायामुत्तरमाहेत्यर्थः / विवृणोति-परिणामितयेतीति / भावे सम्बद्धमिति भावस्थमिति मूलस्य विवरणम् / वाचकत्वेनेत्यस्य विवरणं-वाच्यवाचकभावेनेति / सम्बद्धमित्यत्र 'भावे' इत्यस्यानुकर्षण सम्बन्धः। भदः एतत् / किमित्यपेक्षायां नियामकमिति। "नानेन्द्रे" इत्यस्य स्थाने