________________ 274 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः / अथ नाम-भावनिक्षेपसाङ्कर्यपरिहारायेन्द्रपदसङ्केतविशेषविषयत्वमेव नामेन्द्रत्वं निर्वक्तव्यम् , तच्च सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं स्थापना इत्यावृत्यामेवेति तन्नाम्ना तत्सङ्ग्रहा इत्याशङ्कायामह नामातिरिक्तो नामेन्द्रो, लक्ष्य इन्द्रपदस्य हि। तस्य मुखार्थसादृश्य, वैसादृश्ये च नाग्रहः // 95 // नयामृत-नामेति / इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये वैसाहश्ये वा निमित्त नाग्रहः कर्तव्यो, गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः, तथा च लाघवात् तश्च इन्द्रपदसङ्केतविषयत्वलक्षणं नामेन्द्रत्वं च। नाम-स्थापनासाधारणमेव नाम-स्थापनोभयवृत्त्येव, गोपालदारके इन्द्रपदसङ्केतकरणाद् यथा गोपालदारको नामेन्द्रस्तथेन्द्रप्रतिकृतौ इन्द्रपदसङ्केतकरणात् साऽपि नामेन्द्र इत्यर्थः // 14 // - पञ्चोत्तरनवतितमपद्यमवतारयति-अथेति / यदीन्द्रपदसङ्केतविषयत्वमेव नामेन्द्रत्वं तर्हि इन्द्रपदसङ्केतविषयत्वं यथा. गोपालदारके इन्द्रप्रतिकृतौ च वर्तते तथा भावेन्द्रेऽपि वर्तत इति भावेन्द्रोऽपि गीर्वाणपति मन्द्र एव स्यादिति सङ्ग्रहनये भावनिक्षेपस्याप्यतिरिक्तस्योच्छेदः स्यादतो नाम-भावनिक्षेपसार्यपरिहाराय भावनिक्षेपस्य नामनिक्षेपेऽन्तर्भावो सा भवत्वित्येतदर्थम् / इन्द्रपदसङ्केतविशेषविषयत्वमेवेत्येवकारेण सामान्यत इन्द्रपदसङ्केतविषयत्वस्य नामेन्द्र त्वरूपताव्यवच्छेदः / किमिन्द्रपदसङ्केतविशेषविषयत्वं यद् भावेन्द्रे न वर्तत इत्यपेक्षायामाह- तच्चेति- इन्द्रपदसङ्केतविशेषविषयत्वं पुनरित्यर्थः / सादृश्यतरेति- सादृश्यभिन्नो यः सम्बन्धस्तन्निमित्तिका येन्द्रपदस्य लक्षणा तद्विषयत्वम् , लक्षणा यदि सङ्केतविशेषरूपा तदेव तस्याः सविषयकत्वात् तद्विषयकत्वं लक्ष्यार्थे सम्भवति, तस्याश्च सादृश्येतरसम्बन्धनिमित्तिकत्वमप्युपपद्यतेतराम्, इन्द्रपदसङ्केतविशेषविषयत्वरूपताऽपि तद्विषयत्वस्य सङ्गच्छते, इन्द्रपदशक्यसम्बन्धरूपा तु परदर्शनसम्मतेन्द्र- : पदलक्षणा नात्र सम्मता, तस्याः सादृश्येतरसम्बन्धरूपायाः स्वस्य स्वनिमित्तकस्वाभावेन सादृश्यतरसम्बन्धनिमित्तकत्वाभावात् सविषयकवाभावेन तद्विषयत्वस्य लक्ष्यार्थेऽसम्भवात् , अत एव तद्विषयत्वस्येन्द्रपदसतविषयत्वरूपताऽपि न सम्भवतीति बोध्यम्, / “स्थापना इत्यावृत्त्यामेवेति तन्नाम्ना तत्सङ्गहा" इत्यस्य स्थाने " स्थापनाव्यावृत्तमेवेति नाम्ना तदसङ्ग्रहः” इति पाठो युक्तः, यद्यपीन्द्रपदस्य सङ्केतविशेष आधुनिको भावेन्द्रेऽभावेऽपीन्द्रप्रतिकृतौ सम्भवति, तथापि स भावेन्द्रलक्षणेन्द्रपदमुख्यार्थेन समं य इन्द्रप्रतिकृतौ सादृश्यलक्षणसम्बन्धस्तन्निमित्तक एव न तु सादृश्येतरसम्बन्धनिमित्तक इति सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वमिन्द्रस्थापनायां न वर्तत इतीन्द्रस्थापनाव्यावृत्तमेवेत्यतस्याद्धेतोमिनिक्षेपेण तदसङ्ग्रहः- स्थापनाया असङ्ग्रह इत्याशङ्कायां प्रतिविधानमाहेत्यर्थः / विवृणोति-नामेति / “इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां साहश्ये" इत्यस्य स्थाने “इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्रः," हिः- एवाथें, तस्य- नामेन्द्रपदार्थस्य, घटकलक्षणायां मुख्यार्थसादृश्ये- शक्यार्थसादृश्य" इति पाठो युक्तः, इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्र इति मूलस्यान्वयमात्रोपदर्शनम् , अर्थस्य स्पष्टत्वान्न कथनम् , मूले एवशब्दस्याभावात् तस्यान्वये कथं सन्निवेश इत्यपेक्षायामाह-हिः-एवाथै इति-हिशब्दो मूलस्थ एवशब्दस्यार्थे वर्तते, तस्य नामातिरिक इत्यनेनान्वयमभिसन्धायोकान्वयो दर्शित इत्याशयः, तस्येत्यस्य विवरणंनामेन्द्रपदार्थस्येति, घटकलक्षणायामिति पूरणं, तथा च नामेन्द्रपदार्थ इन्द्रपदलक्षणाविषयस्तस्य घटकीभूता या "लक्षणा तस्यामित्यर्थः, मुख्यार्थसादृश्ये इत्यस्य विवरणं-शक्यार्थसादृश्ये इति, एवं च नामेन्द्रपदार्थघटकलक्षणायां 'निमित्ते मुख्यार्थसादृश्ये मुख्यार्थवैदृश्ये वा आग्रहो न कर्तव्य इत्यर्थः, कर्तव्य इति पूरणालभ्यते, तथा च इन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रत्वं न तु सादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वैसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वा "नामिन्द्रस्वमित्यर्थः / कुतो मुख्यार्थसादृश्ये वैसादृश्ये वा निमित्ते आग्रहो न विधेय इत्याकालायामाह-गोण्यतिरिकेति "गौण्यतिरिकलक्षणाया असहापत्तेः" इत्यस्य स्थाने "गौण्यतिरिक्तलक्षणाया गौणीलक्षणाया वा असङ्ग्रहापित्तः।। इति- पाठः समीचीनः, यदि नामेन्द्रपदार्थघटकलक्षणायां मुख्यार्थसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं च सति मुख्यार्थसादृश्यसम्बन्धनिमित्तकेन्दूपदलक्षणाविषयत्वं नामेन्द्रस्वं स्यात् तदानी गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः,