________________ नयामततरङ्गिणी-तरङ्गिणीसरणियां सबलातो गयोपदेशः। नाव्यापिता नामादीनामिति तु परिभाषाव्याख्याने शोभते, न त्वेकरूपे व्याप्तिमहमूलके व्यवहार इति भावनीयं सुधीभिः // 93 // ___ तदेवं प्रायिकव्याप्त्या नामादिचतुष्टयं सर्वत्रेच्छन्ति सर्वेऽपि द्रव्यार्थिकनया इति व्यवस्थापितम् , अत्र यैः स्थापनानिक्षेपः सङ्ग्रहनये नेष्यते तन्मवमुपन्यस्य तत्र भाष्योक्तदूषणमेवानूद्य तत्रैव युक्त्यन्त. रपरिस्कारं कर्तुकाम आह सङ्घहे स्थापना नेष्टा, तस्या नाम्नैव सङ्ग्रहात् / किं नेन्द्रचित्रं नामेन्द्र इन्द्रनामकपिण्डवत् // 94 // मयामृत-सत्रह इति / सङ्ग्रहे-सङ्ग्रहनये, स्थापना नेष्टा-स्थापनानिक्षेपो नाभिमतः, तस्या:स्थापनायाः, नाम्नैव-नामनिक्षेपेणैव संग्रहात्, सङ्ग्रहप्रवणो मयं व्यापके ब्यापक(व्याप्यं) संगृह्णात्येव, पद-प्रतिकृतिभ्यामनयोर्भेदः स्यात्, अत इन्द्रचित्रं किं इन्द्रनामकपिण्डवानामेन्द्रो म भवति ? काका भवत्येवेत्यर्थः, तथा च नामेन्द्रत्वं द्विविधम् , इन्द्र इति पदत्वमेकम् 1, अपरं चेन्द्रपदसङ्केतविषयत्वम् 2, आद्यं नाम्नि, द्वितीयं च पदार्थे, तच्च नाम-स्थापनासाधारणमेवेति न दोष इति भावः // 94 // तद् द्रव्यजीव इत्यर्थः। इति एवमभ्युपगमे सति / नाव्यापितेति- नामादीनामव्यापिता नेत्यन्वयः। नामादीनां -द्रव्य-भावानाम् / इति त एवंस्वरूप कस्यचिदाचार्यस्य व्याख्यानं पुनः। परिभाषाव्याख्याने जैनसिद्धान्ते केनचिदाचार्येण जीवशब्दार्थानुपयुक्त जीवशब्दार्थज्ञपुरुषे जीवशब्दार्थज्ञस्य जीवरहिते शरीरे द्रव्यजीवशब्दः परिभाषितःसङ्केतित इत्येवं परिभाषाया व्याख्याने अधिकृते सति उक्तव्याख्यानं शोभते इत्यर्थः / तहि कुत्र न शोभते ? इत्यपेक्षायामाह-न विति। एकरूपे जैनसिद्धान्ते तन्त्रान्तरे च समानस्वरूपे, व्याप्तिग्रहमूलके यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयमित्येवं व्यातिज्ञानप्रभवे, व्यवहारे सर्व पदार्थां नामादिनिक्षेपचतुष्टयवन्त इत्याकारकव्यवहारे, 'न तु शोभते ' इत्यस्यात्रान्वयः / उक्तार्थस्य गम्भीरत्वमावेदयितुमुक्तम्- इति भावनीयं सुधीभिरिति // 93 // चतुर्नवतितमपद्यमवतारयितुमाह- तदेवमिति / प्रायिकव्याप्त्येति - या बहुस्थलेष्वात्मानं लभते क्वचिदेव तु न प्रवर्तते सा प्रायिकव्याप्तिस्तयेत्यर्थः / अत्र नयनिक्षेपयोजनविचारे / यैरित्यत्र यत्पदं तन्मतमिति तत्पदापेक्षम् / सहाहनये स्थापनानिक्षेपो नेष्ट इति यैरनिर्धारितनामकैराचारिष्यते अभ्युपगम्यते तन्मतं तेषामाचार्याणां मतम्, उपन्यस्य उद्भाव्य, तत्र तस्मिन्नाचार्यमते, भाष्योक्तदूषणमेवानूद्य यदेव भाष्ये दूषणमुपदर्शितं तदेव दूषणमुपदर्य / तत्रैव ... भाष्योक्तदूषण एव, युक्त्यन्तरपरिष्कारं युक्त्यन्तरविवेचनाम् / , विवृणोति-सङ्कह इतीति / कथं सङ्ग्रहनये नामनिक्षेपेणेव स्थापनानिक्षेपस्य सङ्ग्रह इत्यपेक्षायामाह-सहप्रवणो हीति / हि यतः, अयं सङ्ग्रहनयः, सहप्रवण: अनेकस्यैकरूपेण सङ्ग्रहणस्वभावः, अत एव व्यापके सामान्यादिस्वभावे, व्याप्यं विशेषादिस्वरूपम्, सङ्ग्रहात्येव अन्तर्भावयत्येव / पद-प्रतिकृतिभ्यां तत्तद्वर्णाव्यवहितोत्तरतत्तवर्णात्मकं पदं प्रतिकृतिराकृतिस्ताभ्याम् / अनयोः नामस्थापनयोः। अतः एतस्मात् कारणात्, यतो नाम-स्थापनयोर्विशेषरूपेणैव भेदो न सामान्यरूपेणापीत्येतस्मात् कारणा. दिति यावत् / काकेति- यथा “मश्नामि कौरवशतं समरे न कोपात्, दुश्शासनस्य अधिरं न पिनाम्युरस्तः। सञ्चूर्णयामि गदया न सुयोधनोरू ? सन्धि करोतु भवतां नृपतिः पणेन // 1 // " [वेणीसंहारे ] इति भीमसेनोको न मनामीत्यादौ काका- स्वरविशेषेण नमा निषेधो न प्रतिपाद्यते किन्तु विधेयमेव तथा प्रकृतेऽपीयाशयः। तथा आकृतेरपि नाम्ना सङ्ग्रहेण स्वाभिमतत्वे च / आद्यम् इन्द्र इति पदवलक्षणं नामेन्द्रत्वम् , नानि इकारोत्तरनकारोतर'दकारोत्तररेफोत्तराऽकाररूपे इन्द्र इति नाम्नि वर्तते, न तस्याकृतौ सम्भव इत्याशयः / द्वितीयं च इन्द्रपदसङ्केतविषमस्वरूपं नामेन्द्रत्वं च, पदार्थे यस्मिन् गोपालदारकादौ 'अयमिन्द्रशब्दाद् बोद्धव्यः' इत्येवं सङ्केतः क्रियते तत्र, वर्तते इत्यर्थः /