________________ 276 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलती नयोपदेशः / परिणामित्वभिन्नश्चेन्नामनिक्षेपलक्षकः / सम्बन्ध इष्टः साम्यादिभिन्नः किन तथेष्यते // 98 // नयामृत-परिणामित्वेति / अथ द्रव्ये नाम्नो भिन्नत्वस्य सार्वजनीनत्वान्नामनिक्षेपलक्षकःनामनिक्षेपपदार्थताघटकलक्षणाविशेषणीभूतः सम्बन्धः परिणामित्वभिन्न एवैष्टव्यः, तदा स्थापनाया अपि नामभिन्नत्वस्य सार्वजनीनत्वात् साम्यादिभिन्नसम्बन्धोऽपि तथा- नामनिक्षेपलक्षकत्वेन कि नेष्यते तुल्ययोग-क्षेमत्वात्, तथा च गौरवस्य प्रामाणिकत्वात् परिणामित्व सादृश्यादीतरसम्बन्धनिमित्तका लक्षणाविषयत्वमेव नामत्वमिति नाम्ना स्थापनासङ्ग्रहः सङ्ग्रहनये दुष्कर इति सिद्धम् , नो चेत् ? भावातिरिक्तमप्राधान्ययोग्यतातात्पर्य मुद्रया सर्वे द्रव्यमेवेति यदृच्छया नामापि द्रव्यतयैव सङ्ग्राह्यमित्यपि वक्तुं शक्यतेति पर्यालोचनीयम् / स्यादेतत्- षण्णां प्रदेशस्वीकर्तनँगमात् पश्चानां तत्स्वीकारेणेवानापि चतुर्निक्षेपस्वीकर्तुस्ततस्तत्रयस्वीकारेणेव सधहस्य विशेषो पुछ इति, मैवम्-देश( प्रदेश )वत् स्थापनाया " नामेन्द्र " इति पाठो युक्त::, पद्यै तथैवाभिधानात् , तस्य विवरण- गोपालदारके इति / कुतो दुर्वचमित्यपेक्षाया. मोह-तस्येति-मामेन्द्रस्येत्यर्थः / यदि वाचकतासम्बन्धेन पदेव मावसम्बद्धं तदेव मामनिक्षेपविषयो भवेत् तहि नामेन्द्र लक्षणस्य नामनिक्षेपविषयत्वेनाभिमतस्यापि भावे वाचकत्वसम्बन्धेनावृत्ते मनिक्षेपविषयत्वं न स्यादत उक्तनियामकं न सम्भवदुक्तिकमित्यर्थः // 9 // अष्टनवतितमपद्यं विवृणोति-परिणामित्वेतीति / यद्यर्थे वर्तमानस्य चेदित्यस्याथेत्यनेनोल्लेखः / द्रव्ये द्रव्यनिक्षेपविषये। नाम्नः नामनिक्षेपविषयात् / भिन्नत्वस्य भेदस्य / सार्वजनीनत्वात् लौकिकपरीक्षकाशेषजनसिद्धत्वात् / नामनिक्षेपलक्षक इत्यस्य विवरण- नामनिक्षेपपदार्थताघटकलक्षणाविशेषणीभूत इति- नामनिक्षेपपदार्थता किञ्चिच्छक्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वरूपा, तद्धटकीभूता या लक्षणा तस्यां विशेषणीभूत इत्यर्थः। परिणामित्व. भिन्न एवेति- मूले परिणामित्वभिन्न इत्येतावन्मात्रस्योपादानात् परिणामित्वभिन्नसम्बन्धोऽपि निरुक्तलक्षणाया विशे. षणमस्तु परिणामित्वसम्बन्धोऽपि तथाऽस्तु ततो नाम्नि द्रव्यस्यान्तर्भावः स्वादेवेस्यतः परिणामित्वसम्बन्धव्यवच्छेदायैवकारस्य टीकायामुपादानम् / परस्य तथा वस्तुत इष्ठ इति कथङ्कारं तथाविधपरवचनाभावे निणेतुं शक्यः, द्रव्यस्य नाम्न्यनन्तवितस्तथेच्छाविषयत्वेन सम्भावयितुं शक्य इत्याशयेम इष्ठ इत्यस्य एष्टम्य इति विवरणम् / यद्यर्धकचेत्पदोपादानस्वारस्यादल्लिन्धस्य तदेवस्य टीकायामुपादानम् / तथेत्यस्य विवरण- नामनिक्षेपलक्षकत्वेनेति / तथा च नामनिक्षेपपदार्थताघटकलक्षणाविशेषणीभूतसम्बन्धे द्रव्यस्य नामान्तरविवारणाय परिणामित्वभिन्नत्वस्येव स्थापनाया नामान्तर पवारणाय सादृश्यभिनत्वस्यापि विशेषणस्वमावश्यकमिति व्यवस्थितौ च / गौरबस्य प्रामाणिकत्वादिति- सादृश्यभिन्नत्वस्थापि सम्बन्धविशेषणतया प्रवेशे यत् तदनिवेशापेक्षया गौरवं तस्य प्रामाणिकत्वादिसर्थः / मामत्वं नामनिक्षेपविषयत्वम् / स्थापनाया नामभिन्नत्वस्य सर्वजनसिद्धत्वेऽपि कदाग्रहमात्रेण सङ्ग्रहनये नाम्नि स्थापनाऽन्तर्भाव इष्ट इत्युपेयते तदा भावा. तिरिकयोम-स्थापनयोर्द्रव्यगताप्राधान्ययोग्यताशालित्वेन तात्पर्यविषयत्वतो द्रव्यत्वमेवेति केनचिदाचार्येण खेच्छया मानोऽपि द्रष्यतयैव सम्रहीतुं शक्यत्वेन समहनये माम-स्थापनयोर्द्रव्येऽन्तर्भाव इति समहनये अव्यभावाभ्यां द्वावेव निक्षेपाविष्टावित्यपि मतं रमणीय स्यादित्याह-नोचेदिति / इति यहच्छया एवंस्वरूपस्वेच्छामात्रेण / मामाऽपि नामनिक्षेपोऽपि, अपिना स्थापनामिक्षेपस्य परिप्रहः। व्यतयैव द्रव्यमिक्षेपतयैव / पर्या लोचनीयमित्युक्त्या एवं पर्या लोचने समहमये किं द्रव्यभावभेदेन द्विविधो निक्षेप इष्टः किं वा नाम-द्रव्य-भावभेदेन त्रिविध इति विनिगन्तुमशक्यत्वेमाध्यवस्थष प्रसज्येत, एतद्भयाचत्वारोऽपि निक्षेपाः साहेऽपि द्रध्याथिकेऽभिमता इति स्वीकार एव ज्यायामिस्यावेदितम् / शहते-स्यादेतदिति / षण्णां धर्मा-ऽधर्माऽऽकाश-जीव पुदल-तद्देशानाम् / पञ्चाना धर्माःऽधी-55काशजीव-पुदलानाम्, समहनय देशिव्यतिरिक्तदेशस्याभावान्न तत्प्रदेशस्वीकारः, तत्स्वीकारेणेव प्रदेशस्वीकारेण यथा