________________ 270 नयामृततरक्षिणी-सरशिणीतरणिभ्यां समलतो नयोपदेशः / तत्पाठात् यो धूमवान् सोऽग्निमानितीव व्यायुपस्थितेरावश्यकत्वादिति भावः / / 88-89 // एतच्च प्रायिकव्याप्त्यभिधानं तत्त्वार्थटीकाकृन्मतेन, तथा च ते आहुः-" यद्येकस्मिन्न सम्भवति नैतावता भवत्यव्यापिता" [ तत्त्वार्थ० अ० सू० ] इति, एतदेव च सम्प्रदायशुद्धमिति / अत्र मतद्वयमुपन्यस्य दूषयति आदिष्टजीव-द्रव्याभ्यां, द्रव्यन्यासस्य सम्भवम् / अप्रज्ञाप्ये जिनप्रज्ञानानश्च ब्रुवते परे // 90 // तच्चिन्त्यमुपयोगो यन्नाम द्रव्यार्थिकस्य न / नरादेव्यजीवत्वे, सिद्धे स्याद् भावजीवता // 91 // आदिष्टद्रव्यहेतुत्वाद्, द्रव्यद्रव्यप्रतिश्रुतौ / भावद्रव्यं न किञ्चिद् स्याद्, गुणेऽपि द्रव्यताऽर्पणात् // 92 // नयामृत-आदिष्टेयादित्रयेण-परे-आचार्याः, अप्रज्ञाप्ये-वस्तुनि, जिनप्रज्ञारूपनामनिक्षेपस्य सम्भवं ब्रुवते, यत्र न शृङ्गमाहिकया सङ्केतः कर्तुं शक्यस्तत्र केवलिप्रज्ञैव नाम तयैव तत्कार्यकरणात्, न च नाम शब्दरूपमेवेति, मौनिकृतलिप्यादौ व्यभिचारात्, मनुष्यादिजीव एव भाविदेवाविजीवव्याप्तिर्यत्र न व्यभिचारावकाश इत्याशयः / उत्तरार्द्ध व्याख्यातुमवतारयति-नन्विति / तत्र सामान्यतो व्याप्तौ। अयं तत्तयभिचारस्थानभेदनिवेशलक्षणः, तदेव सामान्यतो व्याप्तेहिकं प्रमाणमेव / उक्तव्याप्तौ प्रमाणभूतमनुयोगद्वारसूत्रमुल्लिखति-यत्थ य० इति-" यत्र च यं जानीयान्निक्षेपं निक्षिपैन्निरवशेषम् / यत्रापि च न जानीयाचतुष्टयं निक्षिपेत् तत्र // " इति संस्कृतम् / तत्पाठात् उक्तानुयोगद्वारसूत्रपाठात् // 88 / 89 // ___ नवतितमपद्यमवतारयति-एतश्चेति / ते तत्त्वार्थटोकाकाराः / तत्पाठमुल्लिखति-योकस्मिन्निति / एतदेव तत्त्वार्थटीकाकृन्मतमेव / अत्र एतद्विचारे / मतद्वयमपन्यस्यति-आदिष्टेत्यादिपद्यत्रयेणैकं मतम्, अन्ये त्विस्यायेकपधेन द्वितीयं मतं चोपन्यासपुरस्सरं दूषणास्पदं विदधातीत्यर्थः / विवृणोति-आदिष्टेत्यादित्रयेणेति-प्रथममतं न्यस्य निरा. करोतीति दृश्यम् / तत्र नवतितमपद्यव्याख्यानं प्रथममधिकरोति-परे आचार्या इति। अत्र परे के ? इत्याकाहानिवृत्तये आचार्या इति, अस्य 'ब्रवते' इत्यनेन सम्बन्धः / अप्रज्ञाप्यं किमित्याकाटोपशान्तये वस्तुनीति / जिनप्रज्ञानाम्न इत्यस्य विवरणं-जिनप्रशारूपनामनिक्षेपस्येति / जिनप्रज्ञायाः कथं नामत्वमित्यपेक्षायां नामकार्यकारित्वात् तस्या नामत्वमित्याह-यन्त्रेति-यस्मिन् प्रज्ञाप्ये वस्तुनीत्यर्थः / शृङ्गग्राहिकयेति-यथा कश्चिद् गोपो निजस्य गोविशेषस्य गवां समूहे स्थितस्य स्वसम्बन्धित्वावगतये शुझं हस्तेन गृहीत्वेयं गौर्मदीयेत्येवं सङ्केतं प्राहयति तथा यत्र वस्तुनि यस्य पदस्य सडेतः करणीयस्तद्वस्त्वसाधारणरूपेणोपादाय तत्र पदविशेषस्य सङ्केतकरणं शृङ्गप्राहिकान्यायस्तेनेत्यर्थः / तत्र शृङ्गमाहिकान्यायन सहेतकरणायोग्ये वस्तुनि / केवलिप्रसव केवलिनः सर्वज्ञस्य यत् तद् वस्तुविज्ञानं तदेव, एवकारेण तदन्यस्य तत्र नामत्वव्यवच्छेदः / नाम नामनिक्षेपः / तयैव केवलिप्रज्ञयेव / तत्कार्यकरणात् नामनिक्षेपकार्यस्य करणादुत्पादनात् / ननु नाम शब्दस्वरूपं प्रज्ञा तु शब्दानात्मिकेति कथं तस्या नामत्वमित्याशङ्कां प्रतिक्षिपति-न चेति / निषेधे हेतुमाह-मौनिकृते. ति-मौनव्रतधारिपुरुषकृतं यदक्षरविशेषसङ्केतितरेखाविशेषात्मकं लिप्यादि शब्दानात्मकेऽपि तत्र शाब्दबोधविशेषजनकत्वेन नामत्वस्य भावेन शब्दात्मकत्वस्य तत्राभावेन व्यभिचारान्नाम शब्दरूपमेवेति नियमासम्भवादित्यर्थः / निक्षेपेषु नाम्नः प्राथमिकत्वात् व्यापकत्वशङ्कापनोदकमेव प्रथमं व्याख्येयमित्याशयेनोत्तरार्द्धगतस्यापि तस्य पूर्व व्याख्यानमिति बोध्यम् / न्यनिक्षेपाभ्यापकत्वाशज्ञापनोदकमाविष्ठेत्यादिकं पर्यवसितभावार्थकथनेन विवृणोति-मनुष्यादिजीव एवेति-स्पष्टम् //