________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। इतीयं प्रायिकी व्याप्तिरभियुक्तैर्निरूप्यते / यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता // 89 // नयामृत-अप्रज्ञाप्येति, इतीयमिति / एतेषां-नामादीनां चतुर्णा निक्षेपाणाम् , अप्रज्ञाप्ये वस्तुनि, अभिधाया-नाम्नोऽप्रयोगात् , जीव द्रव्ययोश्च जीवत्वेन द्रव्यत्वेन च भूत-भविष्यत्पर्यायभावेन तत्कारणत्वाभावाद् द्रव्यनिक्षेपस्यायोगात् , न चाव्यापित्वमाशङ्कनीयम् , कुतः ? तव्यभिचारस्थानभेदस्य निवेशात्, इति-हेतोः, इयं-यद् यद् वस्तु तत् तन्निक्षेपचतुष्टयषद् इत्याकारा व्याप्तिः प्रायिकी, अभियुक्तैः-पण्डितैर्निरूप्यते, व्याप्यतावच्छेदकेऽप्रज्ञाप्यजीवद्रव्यादिभेदनिवेशात्, ननु यदि सामान्यतो व्याप्तेहिकं प्रमाणं स्यात् तदा तत्रायं सङ्कोचः कर्तुं शोभते तदेव तु किमित्याशङ्कायामाह-व्याप्तिश्च, यत्तत्पदाभ्यामनुयोगद्वारसूत्रादेव निश्चिता। " जत्थ य ज जाणिज्जा निरकेवे णिरवसेसं। . जत्थ वि य न जाणिज्जा चउक्कयं णिरिकवं तत्थ // " [ अनुयोगद्वारे सू० 1 ] इति / तत् सर्वनिक्षेपाणां सर्वव्यापकत्वम् , अस्य व्यवस्थापयतीत्यनेनान्वयः। व्यभिचारशङ्काम् अप्रज्ञाप्यादिवस्तुनि नामादिनिक्षेपामावतो यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमाभावशङ्कायाम् / उन्नीय उद्भाव्य / विवृणोति-अप्रज्ञाप्येतीतिप्रथमपद्यप्रतीकधारणम्,इतीयमितीति-द्वितीयपद्यप्रतीकधारणम् / एतेषामित्यस्य विवरणम्-नामादीनां चतुर्णा निक्षेपाणामिति। अप्रज्ञाप्ये विशिष्य प्रतिपादकवचनाभावाद् वचनेन ज्ञापयितुमशक्ये / वस्तुनीत्युक्त्या यद्वक्तुमशक्यं तच्छशशृङ्गवदनुपाख्यत्वाद् वस्त्वेव न भवतीत्यभिमानस्य व्यवच्छेदः, दधि-दुग्ध-गुड-सिता-शर्करादीनामन्योऽन्यविलक्षणमाधुर्यस्य प्रमात्रानुभूयमानस्य वस्तुनोऽपि विशिष्य वचनेन प्रतिपादयितुमशक्यस्वात् , अभिधाया अयोगोऽप्रयोग एव, यन्नाम तत् प्रयुज्यत एव इत्याशयेन नाम्नोऽयोगादिति वक्तव्ये नाम्नोऽप्रयोगादित्युक्तम् / जीव-द्रव्ययोश्चेत्यादि व्याख्यानप्रन्थस्वारस्यान्मूले " अप्रज्ञाप्याभिधाद्रव्यजीवद्रव्याद्ययोगतः" इत्यस्य स्थाने " अप्रज्ञाप्याभिधाजीव. * द्रव्यद्रव्याद्ययोगतः" इति पाठो भवितुमर्हति / " भूतभविष्यत्पर्यायभावेन" इत्यस्य स्थाने " भूत-भविष्यत्पर्यायाभावन" इति पाठो युक्तः, जीवस्य जीवत्वेन भूतस्य भाविनो वा पर्यायस्याभावेन द्रव्यस्य द्रव्यत्वेन भूतस्य भाविनो बा पर्यायस्याभावेन चेत्यर्थः, नहि जीवस्य जीवलक्षणः पर्यायो भूतो भावी वा, नवा द्रव्यस्य द्रव्यलक्षणः पर्यायो भूतो भावी वेति / तत्कारणत्वाभावात् जीवात्मक-द्रव्यात्मकपर्यायकारणत्वाभावात् / द्रव्यनिक्षेपस्यायोगादिति-जीवो जीवस्य कारणं यदि भवेत् तदा जीवकारणीभूतो जीवो द्रव्यजीवो भवेत् , जीवश्चानादिनिधनत्वात् कार्यमेव न भवतीति न तं प्रति जीवस्य कारणत्वमिति जीवात्मकवस्तुनि द्रव्यजीव इत्येवंरूपस्य द्रव्यनिक्षेपस्याभावात् , एवं द्रव्यं प्रति द्रव्यं यदि कारणं स्यात् तदा द्रव्यकारणीभूतं द्रव्यं द्रव्यद्रव्यं भवेत् , द्रव्यं च ध्रौव्यखभावत्वात् कार्यमेव न भवतीति न तत् प्रति . द्रव्यस्य कारणत्वमिति द्रव्यात्मकवस्तुनि द्रव्यद्रव्यमित्येवंरूपस्य द्रव्यनिक्षेपस्याभावादित्यर्थः, एतच्चाव्यापित्वमित्यत्रान्वेति / अव्यापित्वं निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वम् , न चाशनीयमित्यन्वयः। पृच्छति-कुत इति-कुतोऽव्यापित्वं नाशङ्क मीयमित्यर्थः। उत्तरयति-तद्वयभिचारस्थानभेदस्य निवेशादिति-यत्र यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमे व्यभिचारस्थानमप्रज्ञापनीयादि तद्भेदस्य निवेशात् , अप्रज्ञापनीयादिभिन्नत्वे सति वस्तुत्वे यत्र तत्र निक्षेपचतुष्टय. वत्त्वमित्येव हि नियमः, तत्र न व्यभिचार इत्यर्थः // - इतीयमित्यत्रेतिशब्दो हेतुपर इत्याशयेनाह-इति हेतोरिति / इयमित्यस्य विवरणं-यद यद वस्तु तत् तद निक्षेपचतुष्टयवदित्याकारेति / व्याप्तिर्नियमः। प्रायिकी सम्भावितार्थवभावा / अभियुक्तरित्यस्य विवरणंपण्डितैरिति / कथं निरूप्यते ? इत्याकाङ्कानिवर्तकं यत्तद्भेदनिवेशत इति, तस्यैव हेतोः स्पष्टीकरणं-व्याप्यता. प्रज्ञाप्यजीवद्रव्यादिभेदनिवेशादिति-तथा च किचिद्विशेषप्रदानेन सहोचमानीता व्याप्तिः प्रकृते प्रायिकी मक