________________ नयाततरङ्गिणी तरङ्गिणीतरणिभ्यां समाहतो न्योपदेशः / पर्यायहेतुत्वाद् द्रव्यजीवो, मृदादिद्रव्यमेव आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यमिति वक्तुं शक्यत्वादिति भावः // ___तद्-एतन्मतं, चिन्त्यम्, यद्-यस्माद्, द्रव्यार्थिकस्य नयस्य मते, उपयोगो नाम न भवति, शाब्दबोधनजनकाक्षरलिप्यादेरेव तेन नाम्नः स्वीकारादिति द्रव्यार्थिकविषयनिरूपणे केवलिज्ञानरूपं नामातिरिक्तं वाचादिष्टम् , ( अप्रज्ञाप्यवस्तुनि नाम न भवति ), जीवहेतुतया नरादेव्यजीवत्वे चाभ्युपगम्यमाने सिद्धे भावजीवत्वं स्यात् तत्रादिष्टे द्रव्यहेतुत्वाभावादिति संसारिजीवमात्रे भावजीवत्वाभिधायकसिद्धान्तव्याकोपः स्यात् // आदिष्टद्रव्यहेतुत्वाद्धेतोः द्रव्यद्रव्यस्य प्रतिश्रुतौ-स्वीकारे च भावद्रव्यं किमपि न स्यात्, यदेव भावंद्रव्यं स्वीक्रियतेऽन्त्यावयव्यादि, तत्रापि तद्गतगुणे द्रव्यतामर्पयित्वादिष्टद्रव्यहेतुतया द्रव्यद्रव्यव्यपदेशस्य कर्तुं शक्यत्वात् / किञ्च, स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्नकर्मतानिरूपितकारणताबोधन एव द्रव्यस्य साकाङ्क्षत्वान्मनुष्यो द्रव्यजीव इत्यादि दुर्वचम् , अन्यथा - प्रथमपद्योपदिष्टमतदूषणपरं द्वितीयपद्य विवृणोति-तदिति-अस्य विवरणम्-एतन्मतमिति / एतन्मतस्य चिन्त्यत्वे हेतुमाह-यदिति-तदर्थो यस्मादिति / नयस्य मते इति शेषः कृतः। द्रव्यार्थिकमते कुत उपयोगो नाम न भवतीत्याकाङ्क्षायामाह-शाब्दबोधेति-शाब्दबोधजनकं यदक्षरलिप्यादि तस्यैव नाम्नो नामरूपस्य तेन द्रव्यार्थिकनयेन स्वी. कारादभ्युपगमादित्येतस्मात् कारणाद् द्रव्यार्थिकनयविषयस्य नाम्नो निरूपणे प्रक्रान्ते केवलिज्ञान-कवलिसम्बन्धि ज्ञानरूपं नामातिरिक्तमपि वाचादिष्टं-वचनमात्रेणादिष्टं न तु युक्तयुपपन्नम् , कुत्र वाचादिष्टमित्याकाडानिवृत्तये-अप्राप्यवस्तुनीति, तमाम नामनिक्षेपो न भवतीत्यर्थः। जीवहेतुतया देवादिजीवकारणत्वेन नरादेनरादिपर्यायापन्नजीवस्य द्रव्यजीवत्वे स्वीक्रियमाणे पुनः सिद्धे सिद्धावस्थे जीवे, भावजीवत्वं स्यात् / कथं सिद्धजीवस्यापि भावजीवत्वमित्यपेक्षायामाह-तत्रेतिसिद्ध इत्यर्थः। "मादिष्ट द्रव्यहेतुत्वाभावादिति" अस्य स्थाने "आदिष्टद्रव्यहेतुत्वाभावादिति" इति पाठः समुचितः, आदिष्टद्रव्यस्य जीवत्वेनादिष्टस्य द्रव्यस्य जीवस्य हेतुत्वाभावात् , नहि सिद्धपर्यायस्योत्तरं कोऽपि जीवपर्यायो यत्कारणत्वं सिद्धस्य स्यादित्यर्थः / भवतु सिद्धमात्रस्यैव भावजीवत्वम् , संसारिजोवस्य तु द्रव्यजीवत्वमेव का नो हानिरित्यत आह-संसारिजीवमात्र इति "संसार्यसंसारिजीवमात्रे" इति पाठः सम्यग, उपयोगलक्षणो जीवः स संसारी * सिद्धश्चेत्यादिकस्य संसार्यसंसारिजीवमात्रे भावजीवत्वाभिधायकस्य सिद्धान्तस्य व्याकोपो व्याघातः स्यात् सिद्धमात्रस्य भावजीवत्वाभ्युपगम इत्यर्थः // तृतीयपद्यं विवृणोति-आदिष्टद्रव्यहेतुत्वादिति / प्रतिश्रुतावित्यस्य विवरणं स्वीकारे चेति / नन्ववयवानात्मकावयविखरूपस्य घटादेन द्रव्यं प्रति कारणत्वमिति तस्य भावद्रव्यत्वं भविष्यत्यत आह-यदेवेति / अन्त्यावयवित्वमवयवानात्मकावयवित्वम् / तत्रापि अन्त्यावयव्यादिद्रव्येऽपि / तद्वतगुणे अन्त्यावयव्यादिगतगुणे / द्रव्यतामर्पयित्वा गुष्प-गुणिमोरभेद इत्यभ्युपगन्तृनये गुणिनो द्रव्यत्वे तदभिन्नस्य गुणस्यापि द्रव्यत्वमित्येवं द्रव्यतामर्पयित्वा / आदिष्टद्रव्यहेतुतया 'आदिष्टद्रव्यं यदवयवादिगतगुणस्तस्य कारणत्वेन / मनुष्यजीवस्य देवात्मकजीवकारणत्वाद् द्रव्यजीवत्वं प्रकारान्तरेण दूषयतिकिति / स्वसमभिव्याहतेति-"कर्मता" इत्यस्य स्थाने " कार्यता" इति पाठः सम्यग, मनुष्यो द्रव्यजीव इत्यत्र स्वं द्रव्यपदं तत्समभिव्याहृतं जीवपदं तदर्थावच्छेदकं जीवत्वं न तु देवत्वमिति जीवत्वावच्छिन्न कार्यताया अप्र. सिद्धत्वाद् देवत्वावच्छिन्नकार्यताया ग्रहीतुमशक्यत्वान्मनुष्यो द्रव्यजीव इति क्तुमशक्यम् , मृत्पिण्डो द्रव्यघट इति च वक्तं सक्यते, तत्र स्वं द्रव्यपदं तत्समभिव्याहृतं घटपदं तदर्थतावच्छेदकं घटत्वं तदवच्छिन्नकार्यतानिरूपितकारणत्वस्य मृत्पिन्ले सत्वांदित्यर्थः। अन्यथा स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्नकार्यतानिरूपितकारणताबोधन एव द्रव्यपदस्य साकार स्वमिति नियमस्यानभ्युपगमे / मृस्पिड इति-यथा मृत्पिण्डो द्रव्यघट इति प्रयोगो भवति तथा मृत्पिण्डो द्रव्यपट इति प्रयोगस्यापि प्रमादित्यर्थः / ननु मृत्पिण्डो द्रव्यघट इत्यस्य घटकारणं मृत्पिण्ड इत्यर्थः, स च घटं प्रति मृत्पिण्डस्य कारणत्वात् सम्भवति, मृत्पिण्डो द्रव्यपट इत्यस्य तु पटकारणं मृत्पिण्ड इत्यर्थः स्यात्, न च स सम्भवति, पटं प्रति