________________ 266 नयामृततरङ्गिणी-तरशिणीतरणिभ्यां समलहतो न्योपदेशः / वीजस्स वि संपत्ती जायइ चरमम्मि चेव परिअट्टे / अञ्चन्तसुन्दरा जं एसा वि तओ ण सेसेसु // 2 // 5-8 णय एंअम्मि अणन्तो जुज्जइणेयस्स णाम कालु त्ति / ओसप्पिणी अणन्ता हुन्ति जओ एगपरिअट्टे " // 3 // [बीजादिविशिकायाम्-८, 6, 7] तस्माद् योग्यता प्रतिकार्य यथासम्प्रदायं द्रव्यव्यवहारहेतुर्विशिष्याश्रयणीया, न तु द्रव्यमेव, (एवमत्रापि.) द्रव्यकार्यादिव्यपदेशहेतुरायुःसम्बन्धघटितैव; तत्तत्पदसमभिव्याहारेण द्रव्यपदस्य नानार्थताद्योतनात् , अन्यथा द्रव्यस्तवादावगतः, तदिदमुक्त-" इयरो पुण जोगात्ते चित्ते णयभेयओ मुणेअवो" [ ] 'इतरो द्वितीयो द्रव्यपदार्थः, नयभेदश्च प्रस्थकादिन्यायसिद्धः' इत्यादिविपश्चितमस्माभिर्धर्मपरीक्षायामिति विस्तरार्थिनैतत्तत्त्वं तत एवावगन्तव्यम् / / रक्तादिको-रक्तादिपर्यायपरिणामः, भावो-भावघटः, तल्लक्षणं चेदम् __" भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः / ___ सर्वरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् " // 1 // [ भवनं भावः, स हि वक्तुरिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्त न्द्रादिवदिति, अत्रागमतो भावघटो घटपरिज्ञानोपयुक्तः, नोआगमतो भावघटश्च रक्ततादिपरिणामसमूह इति विवेकः / अथ घटोपयोगमात्रात् कथं भावघट इति चेत् ? न-घट-ज्ञानयोरतिरिक्तसम्बन्धा. भव्यत्वक्षिप्ता एकान्तस्वभावबाधया // 1 // बीजस्यापि सम्पत्तिर्जायते चरम एव परावर्ते / अत्यन्तसुन्दरा यदेषाऽपि / ततो न शेषेषु // 2 ॥न चैतस्मिन्ननन्तो युज्यते ज्ञेयस्य नाम काल इति। उत्सर्पिण्योऽनन्ता भवन्ति यत एकपरिवर्ते // 3 // " इति संस्कृतम् / उपसंहरति-तस्मादिति- योग्यता विशिष्याऽऽश्रयणीयेति सम्बन्धः, एकस्य कारणस्यैकस्मिन् कायें द्रव्यव्यवहारहेतुर्या योग्यता सैव नान्यस्य कारणस्य नान्यस्मिन् कार्ये तथा, नवा तस्यैवान्यकायें तथा; किन्तु प्रतिकार्य विभिन्नैव सा तथा, साऽपि यथा सम्प्रदाय सम्प्रदायमनतिक्रम्यैवाश्रयणीयेत्यर्थः / न तु द्रव्यमेवेतिद्रव्यमेवाविशेषितस्वरूपं द्रव्यव्यवहारहेतुर्नाश्रयणीयमित्यर्थः / आयःसम्बन्धघटितवेत्यनन्तरं योग्यताऽऽश्रयणीयेत्यनुकर्षः / एवं सति नानार्थता द्रव्यपदस्यैष्टैव, किन्तु तद्द्योतनं तत्तत्पदसमभिव्यावहारेण भवतीत्याह- तत्तत्पदेति / अन्यथा द्रव्यव्यवहारहेतुतया प्रतिकार्य विशिष्य योग्यताया अनाश्रयणे / तत्र संवादं दर्शयति-तदिदमुक्तमिति / इयरो० इति- " इतरः पुनर्योगात्ते चित्ते नयभेदतो ज्ञातव्यः" इति संस्कृतम् / तदिदमुक्तमर्थ दृढीकर्तुमस्मन्निर्मितधर्मपरीक्षाग्रन्थोऽवलोकनीयो विस्तरार्थिनेत्युपदिशति- इत्यादि विपश्चितमिति // भावो रक्ततादिक इति भावनिक्षेपप्रतिपादकं वचनं विवृणोति-रकादिक इति- अस्य स्थाने मूलपद्यपाठानुसारात् 'रकतादिक' इति पाठो युक्तः, अस्यार्थकथनम्-रकादिपर्यायपरिणाम इति / भाव इत्यस्य विवरण-भावघट इति / तल्लक्षणं च भावनिक्षेपलक्षणं तु / इदम् अनन्तरमेवाभिधीयमानम् / " भावो विवक्षित" इति पद्यार्थ संक्षेपेण दर्शयति-भवनमिति / स भावः / हि यतः। अत्रेत्यस्य 'इति विवेकः' इत्यनेन सम्बन्धः। अत्र भावनिक्षेपपिचारे घटपरिज्ञानोपयुक्तः पुरुषश्चेतनः, घटश्वाचेतन इति कथं चेतनस्याचेतनभावरूपत्वमित्याशङ्कते-अथेति / समाधत्ते-नेति / घट-ज्ञानयोर्विषयविषयिभावलक्षणसम्बन्धो यद्यतिरिक्त उपयते तदा तस्यापि प्रतियोग्यनुयोगिभ्या घट-ज्ञानाभ्यामसम्बद्धस्य सम्बन्धत्वं न सम्भवतीति तस्याप्यतिरिक्तः सम्बन्धोऽभ्युपेयः, एवं तस्याप्यतिरिक्त इत्यनवस्थानान्न तयोरतिरितः सम्बन्धः, एवं सति घटज्ञानं पटज्ञानमिति व्यवहारो निर्निमित्तो मा प्रसासोदित्येकाकारतैव विषय-विषयिणोस्तनियामिका इति वाच्यम् , तथा चाचेतनस्य घटस्य घटोपयोगस्य च चेतनस्य घटाकारत्वलक्षणभावघटत्वमविशिष्टमिति घटाकारत्वलक्षणभावघटत्वाश्रयणेन घटपरिज्ञानोपयुक्ने भावघटत्वाभिधाने बाधकाभावादित्याह-घट-मानयोरिति / तज्ज्ञाने घटज्ञाने /