________________ नयामृतवरहिणी-तरत्रिणीतरणिया मातो. नयोपदेशः। . 265 भावेन घटाकारतायास्तज्ज्ञानेऽवश्यं स्वीकर्तव्यत्वात् तादृशभावमपेक्ष्य घटोपयुक्तेभ्यश्च भावघटत्वोको बाधकाभावात् , अग्न्युपयुक्तस्य भावाग्नित्वे बाधकमुक्तमेव तदन्यत्रापि समानमिति चेत् ? सत्यमुक्तम्परमयुक्तम्-नानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको भस्माच्छन्नाग्निना व्यभिचारात्, ज्ञानाद्वैतनयमतमेतदिति चेत् ? किं ततः ? सर्वनयमये भगवत्प्रवचने [ ] यथाधिकारं यथेष्टतयाश्रवणे दोषाभावादिति किमतिप्रसक्तानुप्रसत्या // 86 / / / तदेवं भिन्ने वस्तुनि निक्षेपचतुष्टयमवतारितम् , अथैकस्मिन्नैव तदवतारयन्नाह एकद्रव्येऽप्यात्मनामा-ऽकृति-कारण-कार्यता / पुरस्कृत्य महाभाष्ये, दिष्टाः पक्षान्तरेण ते // 87 // नयामृत-एकद्रव्येऽपीति-एकस्मिन्नपि द्रव्ये, आत्मनो-विवक्षितपदार्थस्य, नाम-अभिघायकं पदम्, आकृतिः-संस्थानम् , कारणता-तत्पर्यायजननशक्तिः, कार्यता-तद्रुषेणाभिव्यक्तिः, एताः पुरस्कृत्य-मेलयित्वा, पक्षान्तरेण-भिन्नपक्षाभिप्रायेण, ते-नामादयश्चत्वारोऽपि निक्षेपाः, महाभाष्ये दिष्टाः-प्रतिपादिताः, तथा च तगाथा"अहवा वत्थुभिहाणं नामं ठवणा य जो तयागारो। कारणया से दव्वं कज्जावनं तयं भावो॥" [विशेषावश्यकभाष्ये गा० 60 ] इति, ताशभावं घटाकारत्वलक्षणभावम् / “घटोपयुकेभ्यश्च" इत्यस्य स्थाने "घटोपयुक्ते" इति पाठो युक्तः / यथाऽग्न्युपयुकस्य पुरुषस्य भावाग्नित्वेऽग्निना यथा दहनकार्यमुपजायते तथाऽन्युपयुक्तपुरुषेणापि दहनकार्य स्यादित्यापत्तिलक्षणबाधकाद् यथाऽग्न्युपयुक्तस्य न भावाग्नित्वं तथा घटोपयुक्तस्य जलाहरणादिकार्यकारित्वप्रसङ्गलक्षणबाधकान्न भावघटत्वमित्याशङ्कत-अग्न्युपयुक्तस्येति / तत् तत्कार्यकारित्वलक्षणबाधकम् / अन्यत्रापि घटपरिज्ञानोपयुकस्य भाव. घटत्वेऽपि / समाधत्ते-सत्यमुक्तमिति- नोक्तं भवता तदिति न किन्तु उक्कमेवेत्यर्थः / परं किन्तु / अयुक्तत्वे हेतुमाहनहीति- यत्र यत्रानलत्वं तत्र दहनाद्यर्थक्रियासाधकत्वमिति नियमो नास्तीत्यर्थः / तत्र हेतुमाह-भस्मेति-भस्माच्छा. दितोऽप्यग्निरग्निर्भवत्येव न च स दहनाद्यर्थक्रियासाधक इत्येवं व्यभिचारादित्यर्थः / बाह्यघटस्य ज्ञानात्मकत्वं न सम्भवतीति न बाह्यपदार्थाभ्युपगन्तृमते भावघटरूपता घटोपयोगस्य, किन्तु सर्वस्य वस्तुनो ज्ञानाकारत्वाग्ज्ञानरूपत्वमेवेत्यभ्युपगन्तृयोगाचारमत एव घटोपयोगस्य भावघटत्वमिति तथाऽभ्युपगमे योगाचारमतप्रवेशः स्यादित्याशङ्कते-बाना. देतेति / समाधत्ते-किं तत इति-मवत्वेतस्य ज्ञानाद्वैतनयमतत्वं तस्मात् किं नः सर्वनयमयभगवत्प्रवचनाश्रितानां छिन्नमित्यर्थः / " यथेष्टतयाश्रवणे" इत्यस्य स्थाने " यथेष्टनयाश्रयणे" इति पाठः सम्यक् // 86 // सप्ताशीतितमपद्यमवतारयति-तदेवमिति / अवतारितं योजितम् / एकस्मिन्नेवत्यनन्तरं वस्तुनीति दृश्यम् / तत् निक्षेपचतुष्टयम् / विकृणोति-एकद्रव्येऽपीतीति / विवक्षितपदार्थस्य यथा घटस्य नामनिक्षेपादिचतुष्टय. विवक्षायां नामादिनिक्षेपचतुष्टयास्पदतया विवक्षितस्य घटपदार्थस्य, यदभिधायकं घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानु. पुर्पावच्छिन्नं घटेति पदं तद् घटस्य नामनिक्षेपः, तस्य यत् कम्बुग्रीवाद्यवयवसन्निवेशविशेषविशिष्टपृथुबुध्नाद्याकारलक्षणं संस्थानं तद् घटस्य स्थापनानिक्षेपः, घटस्य या कारणतोत्तरोत्तरप्रतिक्षणभाविपर्यायजननशक्तिः सैव घटस्य द्रव्यनिक्षेपः, घटस्य घटरूपेण याऽभिव्यक्तिस्तद्रूपा कार्यतैव तस्य भावनिक्षेप इत्यर्थः / एताः आत्मनामाऽऽकृति- कारण-कार्यताः / पुरस्कृत्येत्यस्य विवरणं-मेलयित्वेति / पक्षान्तरेणेत्यस्य विवरण-भिन्नपक्षाभिप्रायेणेति / ते इत्यस्य विवरणं नामादयश्चत्वारोऽपि निक्षेपा इति। दिष्टा इत्यस्य विवरणं-प्रतिपादिता इति / तद्गाथा महाभाष्यगाथा / अहवा. इति-"अथवा वस्त्वभिधानं नाम स्थापना च यस्तदाकारः / कारणता तस्य द्रव्यं कार्यापमं तकत् भावः // "