________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो गयोपदेशः / 265 - सन्ध्या च सन्ध्या च सन्ध्ये, तयोः सन्ध्ययोः प्रत्यूष-प्रदोषाप्रतिबद्धयोः, सूर्य आदित्योऽदृश्यमानोऽपि प्राप्यं समतीतं च क्षेत्रं यथाऽवभासयति-यथा प्रत्यूषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैवैतदपि प्रक्रान्तं ज्ञातव्यम् , इदमुक्तं भवति-वर्तमानभवस्थितः पुरस्कृतभवं पश्चात्कृतभवं चायुष्कर्मसद्व्यतया स्पृशति प्रकाशेनादित्यवदिति गाथार्थः // 3 // तथापीयं भवद्वयनियतायुष्कर्मघटिता( तया) योग्यता(तया) तथानियमोक्तिर्न तु सर्वत्रानेन नियमेनैव व्यामोहो विधेयः, तीर्थकरनामकर्मघटितया योग्यतया नानाभवव्यवधानेनापि मरीचे व्यतीर्थकरत्वप्रतिपादनात् , " जे अ अईआ सिद्धा" [ शक्रस्तवे ] इत्यादिना सुदूरव्यवहितानामपि द्रव्यतीर्थकृतां वन्यत्वप्रतिपादनस्य नानाभवसम्बन्धघटितयोग्यतयैवोपपत्तेश्च, इत्थमेव पुष्पादिना भगवत्पूजादावुत्कर्षतोऽपार्द्धपुद्गलपरावर्तव्यवधानेन भावस्तवरूपफलोपधायकतया द्रव्यस्तवत्वम्, अपुनर्बन्धकाधुचिताचारे चोत्कर्षतः पुद्गलपरावर्तव्यवधानेन भावाज्ञारूपफलोपधायकतया द्रव्याज्ञात्वमुपदेशपदादावुकं सङ्गच्छते, तत्र समुचितशक्तिरूपाया योग्यतायास्तावत्कालनियताया एव सिद्धः, न च फले पुद्गलपरा. वर्तव्यवधानमपुनर्बन्धकक्रियाया असिद्धम् , आशातनाबहुलस्योत्कृष्टान्तरस्यापार्द्धपुद्गलपरावर्तमानस्यैव प्रसिद्धत्वादिति वाच्यम् , बीजादीनां सान्तरेतरत्वभेदस्य तेषामुत्कृष्टान्तरस्यैकपुद्गलपरावर्तमानतायाश्च विशिकायामाचायः प्रतिपादनात् / तदुक्तं" बीजाइआ य एए तहा तहा सन्तरेतरा णेया। तहमवत्तखित्ता एगन्तसहावबाहाए // 1 // सन्ध्यायाम् / भरतं चेत्यनन्तरमवभासयतीत्यस्यानुकर्षेण सम्बन्धः। प्रदोषसन्ध्यायां सायं सन्ध्यायाम् , तु पुनः, अपरविदेहं चेत्यनन्तरमपि अवभासयतीत्यस्यानुकर्षेण सम्बन्धः / एतदित्यस्य विवरणं-प्रक्रान्तमिति / संक्षेपेण निरुतगाथार्थमनुगमय्य दर्शयति- इदमुकं भवतीति। इदं वर्तमानभवस्थित इत्यादिनानन्तरमेवाभिधीयमानम्, उक्तम् एतद्गाथयोचरितम् , अन्यत् स्पष्टम् / यद्यपीत्युक्तिव्यपेक्षेयं तथापीत्युक्तिः / इयमित्यस्य नियमोक्तिरित्यनेन * सम्बन्धः / न वित्यस्य विधेय इत्यनेन सम्बन्धः / कथं भवद्वयनियतायुष्कर्मघटितया योग्यतयैव सर्वत्र वर्तमानभव गतभावस्याव्यवहितभवगतमेव द्रव्यमिति नियमो नेत्याकालायां तत्र हेतुमुपदर्शयति-तीर्थडरेति / नानाभवसम्बन्धघटितयोग्यतयाऽपि द्रव्यत्वे हेत्वन्तरमप्युपदर्शयति-जे अ० इति- जे अ अईआ सिद्धा, जे अ भविस्संति अणागयकाले संपइ वट्टभाणा सव्वे तिविहेण वंदामि // इति संपूर्णः पाठः, “ये चातीताः सिद्धा ये च भविष्यन्त्यनागतकाले सम्प्रति वर्तमानाः सर्वान् त्रिविधेन वन्दे // " इति संस्कृतम् / वन्द्यत्वप्रतिपादनस्येत्यस्योपपत्तेरित्यनेन सम्बन्धः। इत्थमेवे. त्यस्य सङ्गच्छते इत्यनेनान्वयः। इत्थमेव नानाभवसम्बन्धघटितयाऽपि द्रव्यत्वमित्यभ्युपगमप्रकारेणैव / अपाईपुद्गल. परावर्तादिसमयविज्ञानं समयसमुद्रात् कर्तव्यम् / द्रव्यस्तवत्वमित्यस्योपदेशपदादावुक्तमित्यनेन सम्बन्धः। अपुनबन्धकेति- न पुनरपि कर्मबन्धो मोहनीयकर्मोत्कृष्टबन्धनं यस्य सोऽपुनर्बन्धकः, तल्लक्षणं यथा- “पावं न तिव्वभावा, कुणइ ण बहु मन्नइ भवं घोरं / उचिअठिइं च सेवइ, सव्वत्थ वि अपुणबंधो ति // " यद्वा- "भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः / वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः॥” इति, तत्र अपुनर्बन्धकक्रियायाम् , तावत्कालनियतायाः पुद्गलपरावर्तव्यवधानकालनियतायाः / न चेत्यस्य वाच्यमित्यनेनान्वयः। अपुनर्बन्धकक्रियायाः फले पुदलपरावर्तव्यवधानस्यासिद्धवे हेतमुपदर्शयति- आशातनाबहुलस्यति / निषेधे हेतुमाह-बीजादीनामिति / सान्तरेतरत्वमेदस्य बीजादीनि . सान्तराणि निरन्तराणि चेत्येवं भेदस्य, अस्य विशिकायामाचार्यैः प्रतिपादनादित्यनेन सम्बन्धः / तेषां बीजादीनाम् / उकार्य प्रतिपादकं विशिकागतं गाथात्रितयमुल्लिखति-बीजा इआ य० इति- बीजादिकाश्चैते तथा तथा सान्तरेतरा ज्ञेयाः। तथा