________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / रहिता एघ्या अतीताश्चान्तगुणास्तस्य सिद्धाः, ततस्तदपेक्षयापि द्रव्यकल्पना स्यात् , इष्टापत्तिश्च कर्तृम. शक्येमेत्याह-एकस्य एककाले-पुरुषादिकाले भवा न युज्यन्ते अनेके, ततो भावेन सह साक्षात्सम्बन्धाभावात् तेषु सर्वेषु द्रव्यत्वस्वीकारोऽनिष्ट इत्यर्थः // 1 // इत्थं चोदकेनोक्के गुरुराह- . "दुहओऽणन्तरभवियं जह चिट्ठइ आउअं तु जं बद्धं / हुन्जियरेसु वि जइ तं दव्वभवा हुज्ज ता ते वि // 2 // " [आवश्यके गा० 1535] व्याख्या-दुहओ त्ति-वर्तमानभवे वर्तमानस्योभयत एध्येऽतीते च, अनन्तरभविकं-पुरस्कृतषश्चात्कृत. भवसम्धधीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव-तुशब्दस्यावधारणार्थत्वान्न शेषं कर्म, यहीतरेष्वपिप्रभूतेष्वनागतेषु च भवेषु, तदायुष्कर्म बन्धोदयद्वारकप्रत्यासत्तिकारि भवेत्, तदा तेऽपि-तस्मिन् भवे वर्तमानस्य द्रव्यभवा भवेयुः, तदायुष्कर्मसम्बन्धात्, न चैतदस्ति तस्मादसच्चोदकमतमिति गाथार्थः // 2 // अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमाह" संज्झासु दोसु सूरो अदिस्समाणो वि पप्पसमई। जह ओभासइ खित्तं तहेव एवं पि णायव्वं॥३॥" [आवश्यके गा० 1538] पत्तिश्च अनन्तातीतानागतभवापेक्षया द्रव्यत्वकल्पनाप्रसङ्ग इष्टापत्तिरेव / भावार्थमाह- तत इति / "ततो" इत्यस्य स्थाने "तद्गतेन" इति पाठो युज्यते, व्यवहितातीतानागतभवगतेन भावेन सह द्रव्यत्वेनाभिमतैतद्भवीयस्य साक्षात्सम्बन्धस्याभावाद् व्यवधायकस्य भवस्य साक्षात्सम्बन्धविघटकस्य सद्भावादित्यर्थः / इत्यर्थः एवं "दुहओ" इत्यादिगाथार्थ इत्यर्थः / दुहओत्ति-उभयत आनन्तरभविकं यथा तिष्ठति आयुष्कं तु यद् बद्धम् / भवेदितरेष्वपि यदि तद् भव्यभवा भवेयुस्तदा तेऽपि // " इति संस्कृतम् / विवृणोति-दुहओ त्तीति / उभयत इत्यस्य विवरणम्- एष्येऽतीते चेति / आनन्तरभविकमित्यस्य फलितार्थकथनम्- पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युक्तं भवतीति। " आउअंतु" इत्यस्य "आयुष्कं तु" इति स्यातू आयुष्कमेवेति कथमित्यत आह-तुशब्दस्येति / अवधारणार्थकेन तुशब्देन कस्य व्यवच्छेद इत्यपेक्षायामाह-न शेषं कर्मेति-निरुक्तायुष्कर्मभिन्नं कर्म न तिष्ठतीत्यर्थः। यदीत्यस्य भवेदित्यनेन सम्बन्धः। .. इतरेष्वपीत्यस्य विवरणं- भूतेष्वनागतेषु च भवेष्विति / "प्रभूतेष्व" इत्यस्य स्थाने “भूतेष्व" इति पाठो युक्तः, अथवा "प्रभूतेष्वतीतेष्व" इति पाठः शोभनः / तत् अनेकभवकालसम्बन्धि / आयुष्कर्म बन्धेतिअतीतभवे तस्य कर्मणो बन्धो वर्तमानभवे तस्योदयः, तद्द्वारिका या अतीतभवेन सह वर्तमानभवस्य प्रत्यासत्तिःसम्बन्धस्तत्कारि आयुष्कर्म यदि भवेदित्यर्थः, तदा तेऽपि व्यवहितभवा अपि / तस्मिन् भवे वर्तमानस्य वर्तमानभवे वर्तमानस्य पदार्थस्य भावरूपस्य / वर्तमानभवगतेन भावेन सह व्यवहितभवगतानामपि बन्धोदयद्वाराऽऽयुष्कर्मलक्षणप्रत्यासत्तिकारिबलात् सम्बन्धस्य सद्भावादित्याह- तदायुष्कर्मसम्बन्धादिति। न चैतदस्ति आयुष्कर्म व्यवहितातीतभवे बध्यते वर्तमानभवे उदयमासादयतीत्येव नास्ति, किन्त्वव्यवहितातीतभवे आयुष्कर्म बध्यते तदन्तरमेव वर्तमानभवे उदयमाप्नोतीत्यतो वर्तमानभवगतभावस्य व्यवहितभवगतपदार्थेन सह सम्बन्धस्य बन्धोदयद्वारकायुष्कर्मसम्बन्धकृतस्याभावान्न व्यवहितानन्तभवगताः पदार्थाः वर्तमानभवगतभावापेक्षया द्रव्यतापत्तिभाजनानीत्युपसंहरति-तस्मादिति / अस्यैव द्वितीय गाथाप्रतिपादितस्यैव / संज्झासु० त्ति- " सन्ध्ययोर्द्वयोः सूर्योऽदृश्यमानोऽपि प्राप्यसमतीतम् / यथाऽवभासयति क्षेत्रं तथैवैतदपि ज्ञातव्यम् // " इति संस्कृतम्। विवृणोति-सन्ध्या चेति। "प्रत्यूष-प्रदोषा प्रतिबद्धयोः" इत्यस्य स्थाने "प्रत्यूष-प्रदोषप्रतिबद्धयोः" इति पाठो युक्तः, तथा च द्वयोः सन्ध्ययोरित्यनेन प्रत्यूष-प्रदोषसन्ध्ययोरित्युकं भवति / प्राप्यं खक्रियाजन्यसंयोगशालि, अस्य क्षेत्रमित्यनेनान्वयः, समतीतं स्वक्रियाजन्यविभागशालि, येन क्षेत्रेण संयुक्तो भवति, यस्मात् क्षेत्रादनन्तरमेवापकान्तो भवति, तदुभयक्षेत्रमित्यर्थः। “यथाऽपभाषयति" इत्यस्य स्थाने " यथाऽवभासयति" इति पाठो युक्तः / उक्तमेवार्थ स्पष्टयति- यथेति / प्रत्यूषसन्ध्यायां प्रातः