________________ नवामृततरमिणी-साक्षिणीतरनिया समलतो मयोपदेशः। कालीनतभावानुवृत्त्या धृतधटन्यायेम ज्ञशरीरध्वघटः, येन शरीरेण न तावदिदानी घटपदार्थं जानाति किन्वनेनेव कालान्तरेण ज्ञास्यति स भव्यशरीरद्रव्यघटः, तद्व्यतिरिक्तद्रव्यघटो मृद्रुपः कण्ठत एवोक्तः, अयं च द्रव्यपदार्थो द्विधा प्रयुज्यते, अप्राधान्येन योग्यतया च, अप्राधान्येन यथाऽजारमईको द्रव्याचार्य इति, योग्यतया यथा मृत्पिण्डो द्रव्यघटः सुश्रावको द्रव्यसाधुः साधुश्च द्रव्यदेव इत्यादि, योग्यता च यद्यप्यैकमधिक-बद्धायुष्काऽभिमुखनामगोत्रभेदेन त्रिविधैव अनुयोगद्वारसूत्रे नयभेदेन व्याख्याता, कायोत्सर्गनियुको दबकायनिरूपणप्रस्तावे"जंतु पुररकडभावं दषियं पच्छाकडं च भाषाओ / होइ दबदवियं जह भविउंदव्वदेवाई // 1 // " [आवश्यकभाष्ये गा० 233 ] इत्यत्रापि चातीतानागतानन्तभवेष्वपि द्रव्यपदव्यपदेशप्रसङ्गात् स्वयमुट्टतय पुरष्कृतपश्चात्कृतभवद्वय एवायुःकर्मसव्यस्पर्शनोद्भावनेन निरस्तः, तथाहि"दुहओऽणन्तररहिया जइ एवं तो भवा अणन्तगुणा। एगस्स एगकाले भवा ण जुजन्तिऽणेगा(उ)॥" [ आवश्यके गा० 1536] व्याख्या-" दुहओ "त्ति-वर्तमानभवे स्थितस्योभयत एष्यकाले अतीतकाले, अणन्तररहिअ त्तिअनन्तरौ एष्यातीतो, अनन्तरौ च तो रहितौ च वर्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहिती सावपि, जइ त्ति- यदि तस्योच्यते, तोत्ति- एवं सति, भवा:- तद्भव द्वयव्यतिरिक्ता वर्तमानभवभावेतर" असुब्वत " इति भाष्यप्रयोगदर्शनादुक्तानुशासनस्य प्रायिकत्वादिति बोध्यम् / तत्र नोआगमतस्त्रिविधेषु द्रव्यघटेषु मध्ये। भव्यशरीरद्रव्यघटमुपदर्शयति-येन शरीरेणेति / अनेनैव तेन शरीरेणैव / तद्वयतिरिक्तेति- ज्ञशरीर-भव्यशरीरव्यतिरिकेत्यर्थः। अप्रधाने योग्येऽपि च द्रव्यपदं प्रयुज्यत इत्यप्राधान्य-योग्यत्वाभ्यां द्रव्यपदार्थस्य द्वैविध्यमुपदर्शयति-अयं चेति / अप्रधानस्वरूपद्रव्यपदार्थमुदाहरति--अप्राधान्येन यथेति / अङ्गारमर्दको द्रव्याचार्य इत्यत्र द्रव्यपदमप्रधानार्थकम् , * तथा चोक्तवाक्यात् अङ्गारमर्दकोऽप्रधानाचार्य इति प्रतीयते / योग्यतया द्रव्यपदार्थमुदाहरति-योग्यतया यथेति / मृत्पिण्डो द्रव्यघट इत्यत्र द्रव्यपदं योग्यार्थे प्रयुक्तम् , तथा चोकवाक्यान्मृत्पिण्डो घटयोग्यः- घटात्मकपर्यायरूपेण कदाचित् परिणस्यते मृत्पिण्ड इत्येवं प्रतीयते / सुश्रावक इति सूत्रविहितश्रावकाचारपरिपालनपरायणः सुश्रावकः, सच साधुपर्यायं कालान्तरे आसादयिष्यतीति द्रव्यसाधु:- साध्वात्मकपर्यायरूपेण भवितुं योग्य इत्यर्थः / साधुश्च द्रव्यदेवः य इदानीं सूत्रविहितसाधुसमाचारी सम्यगातिष्ठति साधुः, स कालं कृत्वा देवो भविष्यतीति कृत्वा द्रव्यदेव इत्युच्यते, यः साधुरन्तरभव एव न देवरूपेणोत्पत्स्यते किन्तु भवद्वयादिव्यवधानेन देवो भविष्यति सोऽपि द्रव्यदेव इत्युच्यते, तत्रानुयोगद्वारसूत्रोपवर्णितत्रिविधयोग्यताऽसम्भवतः कथं द्रव्यदेवतेति शङ्कया भवद्वयादि. व्यवधानेनापि तद्भवनस्वभावे तद्योग्यता सम्भवतीति तथाविधस्यापि द्रव्यसाधुतोपपद्यते इत्यभिप्रायकसमाधानेन च बुधजनानन्दकरं विचारं प्रस्तौति-योग्यता चेति-योग्यता च त्रिविधैव व्याख्यातेति सम्बन्धः / यद्यपीति-तथापी. यमित्याधुत्तरप्रन्थस्थिततथापीत्युक्तिसापेक्षयं यद्यपीत्युक्तिः / जंतु० त्ति- " यत् तु पुरस्कृतभावं द्रव्यं पश्चात्कृतं च भांवतः / तद् भवति द्रव्यद्रव्यं यथा भवितुं द्रव्यदेवादि // इति संस्कृतम् / "प्रसङ्गात्" इत्यस्य स्थाने "प्रसङ्गः" इति पाठी युक्तः, अस्य 'निरस्तः' इत्यनेनान्वयः। निरसनप्रकारमेव भावयति-तथाहीत्यादिना / दुहओ० "उभयतोऽनन्तररहितौ यद्येवं ततो भवा अनन्तगुणाः / एकस्यैककाले भवा म युज्यन्तेऽनेके तु॥" इति संस्कृतम् / * उकगाथाविवरणमुपदर्शयति-दुहओत्तीति / उभयत इत्यस्य फलितकथनम्-एण्यकाले अतीतकाल इति-भवि ष्यत्काले भूतकाले च / केन रहिताविति न ज्ञायत इत्यत आह-धर्तमानति- प्रकरणाद् वर्तमानभवभावेन रहिताविति 'गम्यते. "वर्तमानमवभावतररहिता" इत्यस्य स्थाने "वर्तमानभवभावेन रहिता" इति पाठः सम्यम्। इष्टा