________________ 262 नयासनतरजिमी-तक्षिणीतरविभ्यां समलको नयोपदेशः / "भूतस्य भाविनोबा भावस्य हि कारणं तु यल्लोके / तद् द्रन्य वसः सचेतताचेतनं कथितम् / / " एतदर्थों यथा-भूतस्य-अतीतस्य, भाविनो वैऽग्रतो भावस्य, कारणं-निमित्तं बल्लोके तद् बन्नमिति, द्रवति गच्छति तांखान् पर्यार्यान् क्षरति बेति द्रव्यम् , तत्त्वजैः-सर्वज्ञैस्तीर्थकद्धिरिति यावत्, सचेतनम्अनुपयुक्तपुरुषाच्यम् , अचेतनं-शरीरादि तथाभूतमन्यद् का, कथितं-प्रतिपादितम् , इहायं सम्प्रदाय:द्रव्यघटस्तावद् द्विधाऽऽगमतो नोआगमतश्च, आगम:-पदार्थपरिज्ञानं, नोआगमस्तद्विपर्ययः, तत्रागमतो द्रव्यघटो धटशन्दाध्येताऽनुपयुक्तः " अनुपयोगो द्रव्यम्" [ ] इति वचनात्, अनुदुद्धपदवृत्तिमहाहितसंस्कारवानागमद्रव्यपदवाच्य इत्येतनिष्कर्षः, नोआगमत त्रिविधो द्रव्यपदो शशरीर भव्यशरीर-तद्व्यतिरिक्तभेदात्, तत्र घटपदार्थज्ञस्य शरीरमात्मरहितं सिद्धशिलातलगतमप्यतीन स्थापनानिक्षेपात्मकं लेप्यादिकर्म च। अल्पकालमित्यस्येश्वरमित्यर्थ इति / चशब्दात् 'अल्पकालं च' इत्यत्र चशब्दात् / यावद्रव्यमावि आकृतिमद्व्यं यावदवतिष्ठते तावत्कालं स्थाप्यमाना तदाकृतिरप्यवतिष्ठते। .. मृद द्रव्यमितीति मूलधारणम् , घटकारणीभूता मृदेव द्रव्यघट इत्यर्थ इति तदर्थप्रपञ्चनम् / तल्लक्षणं द्रव्यनिक्षेपलक्षणम् , इदम् अनन्तरमेवाभिधीयमानम् / एतदर्थो यथेति- द्रव्यनिक्षेपलक्षणप्रतिपादकस्य "भूतस्य" इत्यादिपद्यस्यार्थो यथेत्यर्थः / भूतस्येत्यस्य अतीतस्येत्यर्थकथनम् / भाविन इत्यस्य विवरणम्-एष्यत इति / कारणमित्यस्य निमित्तमिति व्याख्यानम् / तत् भूतस्य भाविनो वा निमित्तम् / भूतभाविकार्य: निमित्तस्य द्रव्यत्वं कथमित्यपेक्षायां द्रव्यादनिरुक्तित एव तल्लभ्यत इत्याशयेन तन्निरुक्तिमुपदर्शयति-द्रवतीति / तस्वरित्यस्य विवरण- सर्वज्ञैरिति / बौद्धादिभिः सर्वशतया सुगतादिरप्यनुमतो, न च सुगतादिभिर्भूतभाविकार्यनिमित्तं द्रव्यमिति कथितमित्यत आह-तीर्थकृद्भिरिति यावदिति- तीर्थङ्करा एष वस्तुतः सर्वज्ञा नान्ये सुगतादयस्तदुचरितवाक्यस्याबाधितार्थत्वाद्यभावेन तदागमस्य तीर्थस्वाभावात् , " सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागत" इति कोशस्तु नामनिक्षेपालम्बनेनैव प्रवृत्तः, न च सुगतादिर्भावसर्वज्ञो नामसर्वज्ञत्वस्यैव तत्र भावादिति / सचेतनमित्यस्य विवरणम्अनुपयुक्तपुरुषाख्यमिति-अनुपयुक्तः पुरुष उपयुक्तपुरुषपर्यायमभिगच्छतीति उत्तरपर्यायनिभित्तत्वाद् द्रव्यम्, अचेतनमित्यस्य विवरणं-शरीरादीति-ज्ञस्यात्मनो यच्छरीरादिकं तदपि तन्निमित्तत्वाद् व्यमिति, शरीरादीत्यत्रादिपदाद् भव्यशरीरादेरुपग्रहः / तथाभूतं भूतस्य भाविनो वा पर्याययस्य निमित्तम् / अत्यद्धा ज्ञशरीरादिभित्रं मृदाद्यपि / कथितमित्यस्य विवरणं-प्रतिपादितमिति / अनुपयुक्तपुरुषो यथा स्वपर्यायनिमित्तत्वाद् द्रव्यं तथोपयुक्तपुरुषोऽपि स्वपर्यायनिमित्तत्वाद् द्रव्यं भवेत्येवेति किमित्यनुपयुक्तपुरुषाख्यमित्युक्तम् , ज्ञशरीरादीति किमित्युक्तम् ? सामान्यतः शरीरादेरपि तथात्वसम्भवादिति नाशङ्कनीयम्, घटस्यैव निमितत्वाद् यथा मृद् द्रव्यघटः, तथा घटेऽनुपयुक्तः पुरुषोऽप्यागमतो द्रव्यघटः, एवं नोआगमतो ज्ञशरीरादिरपि द्रव्यघट इत्याशयेनेत्थमभिधानात् , अमुमेवार्थ स्पष्टीकर्तुमाह-इहायं सम्प्रदाय इति / इह द्रव्यनिक्षेपविचारे / अयं द्रव्यघटस्तावद् द्विधेत्यादिनाऽनन्तरमेवाभिधीयमानः। सम्प्रदायः सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायः- प्राचां वचनसन्दर्भः प्रवाहत आगतो न त्वेकेनैव केनचित् स्वयमुत्प्रेक्षितः / सद्विपर्यय:- पदार्थपरिज्ञानाभावः / अनुदबुद्धेति- अनुदुद उद्बोधकासमवहितः, यत्सहकृतेन संस्कारेण स्मरणमुपजायते स संस्कारस्योद्वोधको भवति, पदस्य- घटादिशब्दस्य घटादिरूपार्थे वृत्तेः- शक्ति-लक्षणान्यतरसम्बन्धस्य ग्रहेणाहितो- जनितः संस्कारः पद्वृत्तिग्रहाहितसंस्कारः, अनुबुद्धश्चासौ पदवृत्तिप्रहाहितसंस्कारश्चानुबुद्धपदवृत्तिपहाहितसंस्कारः, सोऽस्यास्तीत्यनुद्बुद्धपदवृत्तिग्रहाहितसंस्कारवान्, आगमद्रव्यपदवाच्य इत्येवमनुपयोगो द्रव्यमिति बचनस्य पर्यवसितोऽर्थ इत्यर्थः, अत्र ' न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत् तदर्थप्रतिपत्तिकरः' इति वचनातू, अनुदुद्धपदवृत्तिमाहितसंस्कार इत्येतावन्मात्रेणैवानुबुद्धः पदवृत्तिमहाहितः संस्कारो यस्य सोऽनुबुद्धपदवत्तिमहाहितसंस्कार इति बहुव्रीहिसमासतोसदुद्धपदवृत्तिमहाहितसंस्कारक्तः प्रतीतिसम्भवादबद्ध पदचिमाहितसंस्कारवानिति कथमुपपद्यत इति चाशनीयम् ,