________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः। 257 कल्पितत्वमेवेति वाच्यम् , एवं सति सर्वविशेषणानामेकधर्माकाङ्क्षाविधुरत्वेन वाक्यभेदप्रसङ्गात् , न च नयवाक्यानां प्रत्येकं निराकासत्वेऽप्यवयवानां न्याय इव स्याद्वादे वाक्यैकवाक्यत्वं सर्वत्रैवोपपादयिध्याम इत्यपि साम्प्रतम् , एकैकस्य शतभेदत्वेन सर्वत्रैकरीतेरभावाद् विशिष्टवैशिष्ट्यबोधस्य दुरपलापस्वात् , एवमपि नैगमे प्राच्यभेदातिशायकविशेषणस्याकल्पितत्वध्रौव्याचेति किमतिपल्लवितेन // 84 / / तदेवं मतान्तरेण द्रव्यार्थिके नामादिनिक्षेपत्रयमेवेति समर्थितम् , अथ भाष्यकारमतेनैव "णामाइतियं दबट्ठिअस्स भावो अ पजवणयस्स" [विशेषावश्यकभाष्यगाथा-७५] इति मङ्गलवादीयभाष्यप्रतीकस्य "भावं चिय सद्दणया सेसा इच्छंति सव्वणिरकेवे" [विशेषावश्यकभाष्यगाथा ] इत्यप्रेतनवचनेन सहाविरोधं समर्थयन्नाहं घटोपयोगरूपो वा, भावो द्रव्यार्थिकेऽमतः। तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् // 85 // नयामृत०-घटोपयोग इति / वेति पक्षान्तरे, घटोपयोगरूपो भावो द्रव्यार्थिकेऽमत:-अनिष्टः, हेतुमुपदर्शयति- एवं सतीति- पर्यायनयानां शुद्धपर्यायविधावेव तात्पर्याभ्युपगमे सतीत्यर्थः / सर्वविशेषणानामितियदि व्यवहारादिनयप्रभववाक्यैर्व्यवहारादिनयविषयतत्तत्पर्यायात्मविशेषणविशिष्टात्मकसामान्यविषयकशाब्दबोधो भवेद्, भवेत् तदा विशेष्यस्यात्मसामान्यस्यैकत्वात् तन्निष्ठाविशेष्यताद्वारा सर्वपर्यायस्वरूपविशेषणनिष्ठविषयत्वानां परस्परनिरूप्य-निरूपक- . भावलक्षणाकासासद्भावात् साक्षात् परम्परया वा परस्परनिरूप्य-निरूपकभावापन्नविषयताकैकबोधजनकत्वलक्षणमेकवाक्यत्वं नयवाक्यानाम्, यदा तु सङ्ग्रहप्रभववाक्यजबोधस्य न व्यवहारादिनयतस्तत्तत्पर्याय कदम्बारुषितसामान्यविषयकबोधस्वरूपे पर्यवसानं किन्तु व्यवहारादिनयप्रभववाक्यैरशुद्धतत्तत्पर्यायविषयकबोधानामेवाविर्भावस्तदा निरुक्ताकाङ्खाभावात् साक्षात् परम्परया वा निरूप्य-निरूपकभावानापन्नविभिन्न विषयताकबोधजनकत्वलक्षणवाक्यभेदस्यैव प्रसङ्गादित्यर्थः / 'न च' इत्यस्य * साम्प्रतम्' इत्यनेनान्वयः। अवयवानां प्रतिज्ञा-हेतूदाहरणोपनय-निगमनस्वरूपाणां पञ्चानामवयवानाम् , न्याय इवेति- नीयते- प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्याय इति व्युत्पत्त्या निरुक्तपञ्चावयवसमुदाय एव न्यायस्तत्र यथाऽवय. वानां वाक्यैकवाक्यत्वं तथेत्यर्थः / स्याद्वादे सप्तनयवाक्यसमूहलक्षणस्याद्वादे, वाक्यैकवाक्यत्वं नयवाक्यानां निरुक्तवाक्यैकवाक्यत्वम् / निषेधे हेतुमाह-एकैकस्येति-प्रत्येक व्यवहारादिनयानां शतविधत्वेन तैः सम्भूयैकविधबोधस्योत्पादयितुमशक्यत्वेन प्रत्येकं, सर्वत्र सर्वनयवाक्ये, एकरीतेः बोधनियमनविधाया एकस्या अभावादित्यर्थः / विशिष्टवैशिष्ट्यबोधस्य दुरपलापत्वादिति-अनुभूयमानस्य समस्तनयवाक्येनकस्य विशिष्टवैशिष्ट्यबोधस्य पर्यायनयानां शद्धपर्यायविधायकत्वाभ्युपगममात्रेणापलपितुमशक्यादित्यर्थः / एवमपि स्वविषये अन्यनयार्थविशेषणस्य कल्पितत्वाभ्युपगमेऽपि / नैगम इति- नैगमनये सर्वनयात् प्रथमप्रवृत्तौ तस्य यः प्राच्यभेदः प्राथमिको भेदस्तस्योत्तरोत्तरनैगमभेदादतिशायक वैलक्षण्यप्रयोजकं यद् विशेषणं यद्विशिष्टसामान्यादिविषयकत्वेनान्यविशेषणविशिष्टसामान्यादिविषयकादुत्तरोत्तरनगमप्रभेदात् स व्यावृत्तो भवति, अन्यथा सर्वस्य नैगमजातीयस्य सामान्यविषयकस्य विशेषविषयकस्य वा सामान्यविषयकनगमत्वेन विशेषविषयकनगमत्वेन वा समानखरूपत्वेऽवान्तरवलक्षण्यं न स्यादिति तस्य विशेषणस्य सविषयेऽन्यनयार्थविशेषणत्वाभावेनाकल्पितस्यावश्यकत्वेन तत्र प्रधानोपसर्जनभावस्याकल्पितत्व-कल्पितत्वाभ्यामुपपादयितुमशक्यत्वेन विशेष्यविशेषणभावत एवोपपत्तेरित्यर्थः // 84 // पश्चाशीतितमपद्यमवतारयन्नाह- तदेवमिति / तत् तस्मात् , एवम् अनन्तरोपवर्णितप्रकारेण, अन्यत् स्पष्टम् / विवृणोति-घटोपयोगेतीति। "घटोपयोग इति" अस्य स्थाने "घटोपयोगेति" इति पाठो मूलप्रतीकानुकूलः / पक्षान्तरार्थक इत्यावेदनायाह-वेति पक्षान्तरे इति। अमत इति मूलस्य विवरणम्-अनिष्ट इति /