________________ 258 नयामृततराणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः। तेन तत्र-मालवादे द्रव्यार्थिक, त्रयं-नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथाभावानभ्युपगमाभिप्रायेण जलाहरणादिपरिणतिरूपमावघटस्य द्रव्यार्थिकेनाप्यभ्युपगमादिति वयं जानीमहे, तथा च भाष्ये पूर्व शुद्धचरणरूपभावमङ्गामधिकारप्रवृत्ते गमादिना अलाहरणादिरूपभाषघटाभ्युपगमेऽपि घटोपयोगरूप. भावघटामभ्युपगमात् तनिषेधोक्तिः, अग्रे तु व्यवस्थाधिकारात् विशेषोक्तिरिति न विरोध इति भावर, "जानीमहे" इत्यनेम स्वोस्प्रेक्षया सामान्यतो झातेऽप्यर्थे विशेषविवेके बहुश्रुताः प्रमाणमित्यभिव्यज्यते // 85 // उक्त निक्षेपचतुष्टयम् , प्रसिद्धं घटमेवोदाहरणीकृत्य विवेचयन्नाह तत्र नामघटः क्लुप्तो, घटनाम्ना पटादिकः। . तच्चित्रं स्थापना द्रव्यं, मृद्भावो रक्ततादिकः // 86 // नयामृत-तत्रेति / तत्र -निक्षेपचतुष्टयमध्ये, घटनाम्ना क्लमः पटादिकोऽपि नामघट उच्यते, नाना घेट इति व्युत्पत्तः, तथा चैतल्लक्षणम्. "यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् / पर्यायानभिधेयं च नाम यादृच्छिकं च तथा // " तेन पक्षान्तरे घटोपयोगरूपभाषस्य द्रष्यार्थिकेऽनिष्टत्वेन / तत्रेति मूलस्य विवरणं-मङ्गलवादे द्रव्याथिके इति / प्रयमित्यस्य विवरणं- नामादिनिक्षेपत्रयमिति- नाम स्थापना-द्रव्यनिक्षेपत्रयम् , तत् किं घटोपयोगात्मकभावातिरिक्तो भावघटः पक्षान्तरेऽभ्युपगत एवेलपेक्षायामाह-न विति- सर्वथा भावानभ्युपगमाभिप्रायेण मङ्गल वादे द्रव्यार्थिके नामादिनिक्षेपत्रयं न पुनः प्रोक्तमित्यर्थः। तत्रैव हेतुमुपदर्शयति-जलाहरणादीति- जलाहरणादिकार्यकारिपृथुबुध्नोदराद्याकारलक्षणा या मृदादेः परिणतिस्तद्रुपस्य भावघटस्य द्रव्यार्थिकनयेनाप्यभ्युपगमादित्येवं वयं यशोविजयवाचका जानीमहे- अवगच्छाम इत्यर्थः। तथा च पक्षान्तरे द्रव्यार्थिके उपयोगस्वरूपस्यैव भावघटस्यानभ्युपगमो न तु जलाहरणादिकार्यकारिपृथुबुध्नोदराद्याकारस्वरूपभावघठस्येति विवेके च। तनिषेधोक्तिः द्रव्यार्थिके भावनिक्षेपनिषेधोक्तिः। अग्रे त अग्रेतनभाष्ये पुनः। व्यवस्थाधिकारात् द्रव्यार्थिको निक्षेपेषु मध्ये अमुं निक्षेप स्वीकरोति पर्यायार्थिकश्चामुं निक्षेपमुररीकरोतीत्येवं व्यवस्थितिप्रयोजनतः। विशेषोक्तिः पर्यायार्थिको भावनिक्षेपमेव स्वीकरोति द्रव्यार्थिकश्च निक्षेपचतुष्टयमप्युररीकरोतीति विशेषावेदिकोक्तिः। इति एतस्माद् विवेकात् / न विरोधः भाष्यस्थितपूर्वोत्तरवचनयोर्न विरोधः। 'जानीमहे इत्यनेन' इत्यस्य 'अभिव्यज्यते' इत्यनेनान्वयः / किमभिव्यज्यत इत्यपेक्षायामाह-स्वोत्प्रेक्षयेति- एतद्वन्थकर्तृ. यशोविजयवाचकगतान्यातिशायिकल्पनाविशेषात्मकसम्भावनयेत्यर्थः। विशेषविविके इतोऽपि विशिष्टावगतिफलकविशेष. विभजने / बहुश्रुताः वयमपि बहुश्रुता एव तथाप्यस्मदपेक्षयाऽपि ये बहुश्रुता अनल्पसिद्धान्तोहापोहसमस्त एव, विशेषविवेके प्रमाणमित्यर्थः // 85 // षडशीतितमपद्यमवतारयति-उकं निश्पचतुष्टयमिति-अस्य 'विवेचयन् ' इत्यनेन सम्बन्धः / विवृणोतितबेतीति / तत्रेलस्य विवरण-मिक्षेपबतुष्टयमध्य इति / घटनाम्ना क्लप्तः अयं घटशब्दादवगन्तव्य इत्येवमाधुनिकसङ्केतविषयीकृतः, पटादिकोऽपीत्यत्रापिरेवकारार्थे, तेन पटादिक एवेति तदर्थः, न तु समुच्चयार्थकत्वमस्य सम्भवति भावघटस्य घटशब्दपर्यायकलशकुटादिशब्दाभिधेयत्वेन नामघटत्वासम्भवात् / कथं पटादिको नामघट इत्यपेक्षायामाह-नाम्नेति- नाम्ना घटो मामघट इत्येवं नामघटस्य व्युत्पत्तनिर्वचनादित्यर्थः, पटादिकः केवलं नाम्नैव घटो जलाहरणादिलक्षणभावघटकार्यकारित्वाभावान्न वस्तुगत्या घट इत्यभिसन्धिः। तथा च निरुक्तव्युत्पत्त्याश्रयणेन पटादिकस्य नामघटवाच्यत्वव्यवस्थितौ च / एतल्लक्षणं नामनिक्षेपस्य लक्षणम् / नामनिक्षेपलक्षणप्रतिपादकस्य " यद् वस्तुनो. ऽभिधानं०" इत्यादिपद्यस्यार्थमुपदर्शयति-अयमिति-अनन्तरमेवाभिधीयमान इत्यर्थः। अभिधानमित्यस्यार्थकथनं