________________ 256 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। [प्रमाण० परि० सू० 8, 9, 10.] इति, अत्र हि प्रधानोपसर्जनभावो विशेष्य-विशेषणभावेन न तु कल्पिततया, न चैवमस्य प्रमाणात्मत्वानुषङ्गः, धर्म-धर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् , तयोरन्यतर एव हि नैगमेन प्रधानतयाऽनुभूयते, प्राधान्येन द्रव्य-पर्यायद्वयात्मकं चार्थमनुभवद् विज्ञानं प्रमाणं नेयम् , नान्यत् , इत्यस्यार्थस्य तद्न्थ एव व्यक्तत्वात् , नवा नये विशेषणं कल्पितमेवेति प्राचीनमतेऽपि नियमः, ' "सावजजोगविरओ" [ ] इत्यत्र सङ्ग्रहनयस्वीकृतात्मसामान्यसामायिकविधिनियमनाय प्रवृत्तानां पर्यायशुद्धिमतां व्यवहारादिनयानां यावदेवम्भूतमुत्तरोत्तरपर्यायकदम्बकविशेषणोपरागेणैव प्रवृत्तिदर्शनात् , न च तत्र पर्यायनयानां सङ्ग्रहस्वीकृतविधिविशेषपर्यवसानार्थ पर्यायविशेषणमुद्रया प्रवृत्तावपि 'सविशेषण०' इत्यादिन्यायाच्छुद्धपर्यायविधावेव तात्पर्यात् , स्वविषये अन्यनयार्थविशेषणस्य सर्जनभावेन विवक्षणम् / धर्म-धर्मिणोः प्रधानोपसर्जनभावन विवक्षणरूपतृतीयनगमभेदस्य निदर्शनमाह-क्षणमकं सुखी विषयासकजीव इति धर्म-धर्मिणोरितीति-क्षगमेकं सुखी विषयासक्तजीव इति वाक्यस्य विषयासक्तजीवस्य क्षणमात्रं सुखमित्यत्र पर्यवसानम् , तत्र सुखरूपधर्मस्य विशेष्यत्वेन प्राधान्येन विवक्षणं विषयासक्तजीवरूपधर्मिणो विशेषणखेनोपसर्जनतया विवक्षणमिति / अत्राकल्पितत्वेन प्राधान्यं कल्पित्वेनोपसर्जनत्वमित्येवं प्रधानोपसर्जनभावो न, किन्तु विशेष्यत्वेन प्राधान्यं विशेषणत्वेनोपसर्जनत्वमित्येवं प्रधानोपसर्जनभाव इत्याह- अत्र हीति / “न तु कल्पिततया" इत्यस्य स्थाने "न तु कल्पिताकल्पिततया" इस पाठो युक्तः / ननु धर्मिणो द्रव्यस्य सामान्यात्मनो धर्मस्य पर्यायात्मनो विशेषस्य च प्राहित्वात् सामान्य-विशेषोभयग्राहिण एकस्य नैगमनयस्य प्रमाणात्मकत्वं प्रसज्यत इत्याशङ्कय प्रतिक्षिपतिन चेति / एवं धर्म-धर्म्युभयग्राहिये / अस्य नैगमनयस्य / प्राधान्येन सामान्यविशेषोभयग्राहित्वे सत्येव सामान्यविशेषोभयात्मकवस्तुग्राहित्वाज्ज्ञानस्य प्रामाण्यमिष्टम् , नैगमस्य वेकस्य प्राधान्येन न निरुकोभयग्राहित्वमिति न प्रमाणास्मकत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति-धर्म-धर्मिणोरिति / अत्र नैगमे / तयोः धर्म-धर्मिणोः / प्राधान्येन तयोग्रहणं नैगमेन मा भूत, प्रधानोपसर्जनभावेन तयोर्ग्रहणादपि किं न नैगमस्य प्रमाणत्वं प्रसज्यत इत्याकाङ्खायामाहप्राधान्येनेति / नान्यदिति-प्राधान्येन द्रव्य पर्यायद्वयात्मकााग्राहकं ज्ञानं न प्रमाणमित्यर्थः / न चायमर्थो मयैव परिभावितः, किन्तु श्रीमद्भिर्देवसूरिभिरेव प्रकटितोऽयं विवेक इत्याह- इत्यस्यार्थस्येति- उक्तस्वरूपस्य प्रमाण-तदन्यविवेकरूपार्थस्येत्यर्थः / तह्रन्थ एव देवसूरिनिर्मितरत्नाकराख्यग्रन्थ एव / ननु नये विशेषणं कल्पितमेवेति नियमादकल्पितस्य विशेष्यत्वा प्राधान्यं कल्पितस्य विशेषणत्वादुपसर्जनत्वमिति प्रधानोपसर्जनभावस्य विशेष्य-विशेषणभावरूपत्वेऽपि विशेषणस्य कल्पितत्वमायातमेवेत्याशङ्क प्रतिक्षिपति-नवेति- प्राचीनमतेऽपि नये विशेषणं कल्पितमेवेति नियमो नेत्यन्वयः / निषेधे हेतुमाहसावजेति- " सावद्ययोगविरतः" इति संस्कृतम् / इत्यत्र इत्यस्यां गाथायाम् , सङ्ग्रहेति- सङ्ग्रहनयेन स्वीकृतो य आत्म. सामान्यं सामायिकमिति विधिस्तस्य नियमनाय नियमनार्थ प्रवृत्तानां पर्यायशुद्धमतां- शुद्धशुद्धतरशुद्धतमपर्यायावगाहिनां व्यवहारादिनयाना- व्यवहारर्जुसूत्रसाम्प्रतादिनयानामेवम्भूतनयपर्यन्तमुत्तरोत्तरपर्यायकदम्बकरूपं यत् सङ्ग्रहनयविषयीभूतात्मसामान्यरूपविशेष्ये विशेषणं तदुपरागेणैव प्रवृत्तिदर्शनादित्यर्थः, तथा च सङ्ग्रहनयविषयात्मसामान्यस्य तत्तत्पर्यायविशेष. विशिष्टात्मसामान्यरूपतोपपादकानां व्यवहारादिनयानां विषयास्तत्तत्पर्याया विशेषणीभवन्तोऽप्यकल्पिता एव, अन्यथा तेषां कल्पितत्वे तद्विशिष्टात्मसामान्यस्वरूपपर्यवसितस्य सङ्ग्रहनयविषयस्यापि कल्पितत्वं स्यादित्याशयः / 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः / तत्र " सावज्जजोगविरओ" इत्यादिगाथायाम् / पर्यायनयानामित्यस्य प्रवृत्तावपीयनेनान्वयः। सङ्कहेति- सङ्ग्रहनयेन स्वीकृतो य आत्मसामान्यलक्षणसामायिकस्य विधिस्तस्य विशेषे व्यवहारनयादिविषयीभूततत्तत्पर्याय विशिष्टात्मसामान्यसामायिकविधिस्वरूपे पर्यवसानार्थम् , पर्यायविशेषणमुद्रया प्रवृत्तावपि-पर्यायस्य विशेषणविधयाऽवगाहने प्रवृत्तावपि, *सविशेषणौ विधि-निषेधौ विशेष्यबाधे विशेषणमुपसकामतः इति न्यायाच्छुदपर्यायविधावेव तात्पर्यात्, एवकारेण पर्यायविशिष्टसामान्यविधौ पर्यायस्य व्यवच्छेदः, तथा च स्वविषये सङ्ग्रहनयविषये आत्मसामान्ये, मन्यनयार्थ. विशेषणस्य व्यवहारादिनयविषयीभूततत्तत्पर्यायरूपविशेषणस्य, कल्पितत्वमेव एवकारेणाकल्पितत्वव्यवच्छेदः / प्रतिक्षेप