________________ श्लो० 1-27] - वैराग्यरतिः। दध्यौ च नासावुपदेशयोग्यो हिताभिमानादहितेऽपि मूढः / करालमद्यापि न कालकण्ठो व्यालावलीनां वलयं जहाति // 13 // न चाश्रितोऽसौ मम हातुमर्हो विनैव वेलां गुणवर्जितोऽपि / अक्षुब्धगम्भीरमहाशयस्य तृणादिसङ्घात इवाम्बुराशेः // 14 // इदं विचिन्त्य स्तिमितस्वभावो रुष्टोऽपि तस्थौ स ममान्तरेव / ततश्च वैश्वानरतश्च भास्वन्मणिः फणीन्द्रो विषवानभूवम् // 15 // अवारितस्तेन तथैव वैश्वानरेण दाहप्रकृतिः कृतोऽहम् / अक्षालितः शैल इवाम्बुदेन जातो यथा दाहकरः श्रितेऽपि // 16 // प्रक्रीडतो बिभ्यति हन्त मत्तो बालाः कुलीना अपि रोषपूर्णात् / / भजन्ति मामेष महाप्रभावः पुण्योदयस्यापि परस्य बुद्धः // 17 // वितीर्णतेजो-मति-धैर्य-वीर्ये वैश्वानरेऽथ प्रथमानरागः / दत्तः कलाचार्यवरस्य भाग्याद् विनोद्यमं शिक्षितवान् कलौघम् // 18 // सहेतुकं वाप्यपहेतुकं वा समस्तबालैः कलहायमानः / वैश्वानरालिङ्गितमूर्तिरुच्चैः खेदाय तेषां च गुरोश्च जातः // 19 // प्रतिब्रुवाणो गुरुरप्यलम्भि मया तिरस्कारपदं किमन्ये ? / महीभृतः पुत्र इति प्रतीते तथापि मय्येष जहौ न रागम् // 20 // वैश्वानरस्यैव गुणोऽखिलोऽयमितीह रागो विधृतो मयोच्चैः / असावपि प्राणसमाय मह्यं रसायनं क्रूरमनो ददौ द्राक् // 21 // जगौ च मच्छक्तिभवं किलैतद् बलस्य वृद्धयै विततायुषश्च / गृहाण तत् त्वं परिभुव काले फलेग्रहिः स्नेहतरुर्ममास्तु // 22 // अत्रान्तरे कश्चिदवोचदिष्टं स्थानं त्वयाऽसौ गमितो ह्यनेन / वैश्वानरेणाऽस्य विचारितोऽर्थो भाव्येष गत्वा नरके ततायुः // 23 // गृहीतमेतन्मयकाऽस्य हस्तादङ्गीकृता तस्य च चारुशिक्षा / भक्ष्या त्वयैकैकगुटी किलाऽस्मात् संज्ञाप्यमानेऽवसरे मयेति // 24 // अथो नियुक्तो विदुरो मदीयं न्यवेदयद् दुर्ललितं नृपाय / सर्व कलाचार्यकुलीनबालकदर्थनायं स ततोऽतिदूनः // 25 // पप्रच्छ चाकार्य कलागुरुं मे कलाः कुमारः कीयतीरभाणि / स प्राह सर्वैव कलाऽस्य जाता वश्या गुणानां निधिरेष राजन् ! // 26 // अपि प्रकृत्याऽमलमस्य रूपं न भाति वैश्वानरसङ्गतस्तु / इन्दोः कलङ्कादिव पङ्करूपाद् महोत्पलस्येव च कण्टकौघात् // 27 // / 27||