________________ प्रलो० 173-217 ] वैराग्यरतिः। पश्चाक्षपशुसंस्थानं शल्यसम्पर्कपालितम् / अस्ति सार्वत्रिपञ्चाशत्कोटीलक्षकुलं पुरम् // 203 // . पश्चाक्षा गर्भजास्तत्र जल-स्थल-नभश्चराः / सम्मूर्छिमाश्च विद्यन्ते तत्राहं पीडितो भृशम् // 204 // . रटितोऽहं विना कार्य दर्दुराकारधारकः / मत्स्यरूपं दधद् भिन्नश्छिन्नः पक्कश्च धीवरैः // 205 // शश-शूकर-सारङ्गरूपो व्याधैः कदर्थितः / गोधा-ऽहि-नकुलाकारो मिथो भक्षणदुःखितः // 206 // काकोलकादिरूपेषु सोढं दुःखं मयाऽतुलम् / असंख्यजनसङ्कीर्णे तत्र पर्यटितश्विरम् // 207 // अथान्यदा मृगीनाथो यूथमध्ये स्थितः सुखम् / लुब्धकध्वनिनाऽऽक्षिप्तो बाणेन निहतो मृतः // 208 // जातोऽहं करियूथेशो विचरन् शल्लकीवने / श्रितः करेणुवृन्देन निर्मग्नः सुखसागरे // 209 // सन्त्रस्तं करियूथं च धूमं चाद्राक्षमुत्थितम् / अश्रौषं वेणुविस्फोटरवं च नवमन्यदा // 210 // सम्भ्रान्तोऽहं ततः पश्चाल्लग्नो भूभागमीक्षितुम् / उत्तानः पतितः कूपे सम्प्राप्तस्तीत्रवेदनाम् // 211 // यूथत्राणाऽसमर्थस्य ममेदं युक्तमागतम् / इति भावयता दुःखं सप्तरात्रं तितिक्षितम् // 212 // अनेन शुभभावेन तुष्टा मे भवितव्यता / पुरुषं सुन्दराकारमेकं प्रादर्शयत् पुरः // 213 // उवाच च महाभाग! नरः पुण्योदयो ह्ययम् / सहायोऽयं मया दत्तो भवतः परितुष्टया // 214 // जीर्णा च पूर्वदत्ता मे गुटिकाऽन्यां ददौ च सा / छन्नः पुण्योदयो भूत्यै भूयादित्याशिषं ददौ / / 215 // इति कथयति तस्मिन् धीविशालां बभाषे, वचनमविदितार्थ शङ्कमानोऽथ भव्यः / स्फुटमकथयदर्थ सापि सामान्यरूपं, प्रथमकृतविलम्बः श्रव्यशोभां निहन्ति // 216 // भवति हि भवजन्तुः सर्व एवैकनामा, भवविलसितभेदं याति. चावर्तमानः / तदखिलमुपपन्नद्रव्यपर्यायरूपं, कलयति सुमतिर्यस्तं वृणीते यशःश्रीः // 217 // // इति वैराग्यरतौ द्वितीयः सर्गः //