________________ प्रलो० 56-114 ] वैराग्यरतिः। करामलकवद् वेत्ति पदार्थान् जगतामयम् / परेषामर्थकथने व्यसनं चास्य जृम्भते // 85 // अन्येऽप्यभिनिबोधाद्याश्चत्वारः पुरुषा इह / तादृशाः सन्ति न परं समर्थाः परबोधने // 86 // ततः सुललिता प्राह मुग्धा किं राजदारकः / असौ सदागमस्येष्टः ? प्रत्युवाच प्रवर्तिनी // 87H / भद्रे ! परोपकारैकप्रवगः प्रकृतेरयम् / इन्दुः कुवलयोल्लासे किं कारणमपेक्षते ? // 88 / पापिष्ठात्वस्य वचने न वर्तन्ते द्विषन्त्यमुम् / हसन्ति केऽपि दौःशील्यादुपेक्षन्ते च केचन // 89 // . तदुक्ताकरणाशक्तिं भाषन्ते केचिदात्मनः / प्रतारकोऽयमित्येनं शङ्कन्ते केऽपि भीरवः // 90 // आदावेव न बुध्यन्ते तद्वचः केऽपि बालिशाः / श्रद्दधत्येव नो केचित् केचित्तु शिथिलादराः // 91 // अयोग्यत्वादतस्तेषां गाढोद्विग्नः सदागमः / नोपकाराय चूकानां तिग्मांशुरिव जायते // 92 // अयं तु भव्यपुरुषः सुमतिश्चेति पात्रताम् / ज्ञात्वा स्वज्ञानसङ्क्रान्तेरत्र तुष्टः सदागमः / / 93 // पुनः सुललिता प्राहं का नु शक्तिः सदागमे ? / न बोधयति पापिष्ठान् यदि लोकान् प्रसह्य सः // 94 // जगावथ महाभद्रा सुरेन्द्रैरपि दुर्जयः / यः कर्मपरिणामोऽयं तं हुंकारेण नाशयन् // 95 // पादौ प्रदाप्य तन्मौलावनन्तान् मोचयत्ययम् / प्रवर्तते परं तस्य कुपात्रेष्ववधीरणा // 96 // उपेक्षिताश्च तेनैव कदर्थ्यन्तेऽत्र कर्मणा / ये त्वत्र भक्तिमन्तोऽपि कुर्वते विकलक्रियाम् // 97 // . कुर्वते भक्तिभात्रं वा नाम वा लान्ति केवलम् / सन्मार्गे पक्षपातं वा दधत्यस्य प्रमोदतः // 98 // एतन्नामाऽप्यजानानाः प्रकृत्या भद्रकाश्च ये / सदन्धास्तेऽप्यभिप्रेताः सदागममहात्मनः // 99 // तत्कर्मपरिणामस्तान् न बाद बाधितुं क्षमः / किन्तु दत्ते श्रियस्तास्ताः सदागमवशंवदः // 10 // भद्रे ! नैतस्य माहास्यं कोऽपि वर्णयितुं प्रभुः / कुठारो दोषवृक्षाणामसौ गुणवनाम्बुदः // 101 // अथाऽगृहीतसङ्केता मग्ना सन्देहवारिधौ / कैतावान् गुणसन्दोहः? स्तुतिः परिचयादियम् // 102 // आह प्रज्ञाविशालां सा नूनं मग्नाऽस्मि संशये / तत् त्वयाऽसौ मदुद्भूत्यै दर्शनीयः सदागमः // 103 // सा प्राह सुन्दरं ह्येतत् द्रष्टव्यः सेव्य एव सः / गते द्वे अपि तन्मूलं दृष्टश्चासौ महाशयः // 104 // शुष्कस्तदर्शनादेव तस्याः सन्देहकईमः / दिनानि यान्त्यथ तयोर्लीलया तस्य सेवया // 105 // अथाऽनेन महाभद्रा प्रोक्ता विहरताऽन्यदा / क्षीणजङ्घाऽवलाऽसि त्वं तत् तिष्ठाऽत्रैव धीमति ! // 106 // . कर्तव्यो नृपपुत्रोऽसावाबाल्यात् स्नेहनिर्भरः / त्वयि सञ्जातविश्रम्भः प्रयाति मम वश्यताम् / / 107 // प्रज्ञाविशालया हृद्यं तत् प्रपन्नं वचस्तया / आवर्ण्य जननीचित्तं लालितो राजबालकः // 108 // .. क्रमेण वर्धमानोऽसौ तस्यां स्नेहं परं दधौ / आचार्यः पुनरायातो नीतः पार्थे तयाऽथ सः // 109 // स तं सदागमं वीक्ष्य परं हर्षमुपागतः / वाचमाकर्ण्य पूतात्मा चिन्तयामास चेतसि // 110 // धन्येयं नगरी यस्यां वसत्येष सदागमः / स्याद् यद्ययमुपाध्यायः पठाम्यस्याऽन्तिके श्रुतम् // 111 // ..... अयं प्रज्ञाविशालाया भावस्तेन निवेदितः / आपृच्छ्य पितरौ साऽथ तं तच्छिष्यमचीकरत् // 112 // ततो दिने दिने याति सह प्रज्ञाविशालया / पार्श्व सदागमस्याथ जिज्ञासुः बुद्धिपेशलः // 113 // .. अन्यदा भव्यपुरुषः पुण्डरीकः सदागमम् / महाभद्रा मुदा प्रज्ञाविशाला च निषेवते // 114 // .. ...