________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [प्रथमः सर्गः इत्यादिभावरोगरातॊऽसौ शमवतां कृपापात्रम् / हास्यः संरागशमिनामन्येषां क्रीडनावासः // 21 // प्रतिभवनमटन् भिक्षां तल्लिप्साविह्वलः स तुच्छमतिः / खियति कूटविकल्पायन्नात्तं च रौद्रं च // 22 // तथाहियदि तां भिक्षां लप्स्ये यास्यामि तदा तथाऽहमेकान्ते / न यथा द्रक्ष्यन्त्यन्ये भुक्त्वा शिष्टां निधास्ये च // 23 // म्रियमाणेनाऽपि मया देया नैषा च याचमानेभ्यः / ये लास्यन्ति बलात् तैः प्रहरन् बहु यो मारप्स्ये // 24 // एवमलीकं ध्यायति न पुनरवाप्नोति किमपि निष्पुण्यः / कथमपि कदन्नलेशप्राप्तौ तु जगत् तृणं वेत्ति // 25 // कर्माऽजीर्णकरत्वात् कदन्नतुल्यं धनादिकं लब्ध्वा / तुच्छविभवोऽपि ननु को नात्मानं मन्यते शकम् ? // 26 // रम्भीयति निजललनां मानी निजमन्दिरं विमानीयन् / स्वर्गीयति स्वनगरं त्रिदशीयति परिजनं च स्वम् // 27 // महतो लब्ध्वा विभवं मलिनः प्रायेण माति नो हृदये / स्थगयति जगजलधरो जलराशेरात्तजलभारः // 28 // तदसौ कदन्नलेशप्राप्या तष्टः शृणोति विज्ञप्तिम / नोग्रमदसन्निपातः पश्यति न परं च मोहान्धः / / औद्धत्यकीलकहतो न ग्रीवां नामयत्युपहतानाम् / गारवमरुद्विकाराद् न भाषते स्तब्धजिह्व इव // 30.. महताऽनुगम्यमानो जनेन दृढबद्धमुष्टिरस्तमतिः / न च पश्यति न च जल्पति धनगर्वहतो मृतकतुल्यः // 31 // अयमीढग्गतपुण्यो रङ्को ज्ञानादिरत्नविकलत्वात् / शोच्यो भवति मुनीनामिन्द्रोपेन्द्रादिरपि लोकः // 32 // लब्ध्वा कदनलेशं शक्रादपि शङ्कते स भुञ्जानः / भयमेति निःस्पृहादपि पात्रात् क्षुद्रत्वमिह हेतुः // 33 // उक्तं च कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् / सुरपतिमपि श्वा पार्श्वस्थं विलोक्य नु शङ्कते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् // 1 // कार्यान्तरमपि कुर्वन् वपुषा तद्रक्षणोद्यतो मनसा / अवधीरयति स धर्म न वेत्ति लोकद्रयविरुद्धम् // 34 // द्रमकस्य ततस्तस्य च तेन कदन्नेन पूरितेऽप्युदरे / वृद्धिमुपैति बुभुक्षा न तु तृप्तिर्भवति भस्मकिनः // 35 // ग्रीष्मे यथा दवार्चिस्तप्तस्य तृषार्दितस्य पथिकस्य / तृप्तिः स्वप्ने नाम्बुधिपानाद् विषयैस्तथैवाऽस्य // 36 // विषयकदन्नमनादौ संसारेऽनन्तशोऽमुना भुक्तम् / न च हुकृतं कदापि क्षुत्क्षामेणेक्षितं शून्यम् // 37 // लौल्येन भुक्तमेतत् कुरुते कर्मागुसञ्चयाजीर्णम् / तदुदयजीणं तस्य च नरकादिविसूचिकां धत्ते // 38 // तञ्चार मन्यतेऽसौ तथापि खलु भोजनं विपर्यासात् / स्वादं न वेत्ति तु महाकल्याणचरित्रभोज्यस्य // 39 // पर्यटितोऽसावस्मिन्ननन्तशोऽदृष्टमूलपर्यन्ते / न च निर्विष्णः कथमपि कदन्नविषयैकलुब्धमतिः // 40 // अथ तत्र पुरे राजा सुस्थितनामा त्रिलोकविद् भगवान् / सत्वानामुपकारी कुरुते राज्यं सुखप्राज्यम् // 41 // मन्दिरमस्य प्राप्तः शासनमयमनभिदृष्टपूर्वश्रि | प्रावेशयत् कृपालुः स्वकर्मविवरश्च तं द्वाःस्थः // 42 // रागादयोऽपि सन्ति द्वाःस्थाः प्रतिबन्धकास्तु ते तत्र / शासनबाह्यो लिङ्गी प्रवेशितस्तैर्यतोऽभिहितः // 43 // यस्तु स्वकर्मविवरो द्वाःस्थस्तत्र क्षयोपशमनामा / ग्रन्थि भित्त्वा तत्र प्रवेशकस्तत्त्वतः स स्यात् // 44 // तेन प्रवेशितोऽसौ ददर्श शुचिमन्दिरं महाराजः / ज्ञानादिऋद्धिकलितं चरित्रचन्द्रोदयोल्लसितम् // 45 // 1. सरागदमिनाम // 2. यति ललनां स्त्रं शकीयन् निजगृहं विमानीयन् //