________________ महोपाध्यायश्रीयशोधिनषगणिविरचिता [मटमः सर्गः धृतानि तान्युपश्रुत्या, सद्वैद्यवचनानि च / कानिचित् स्थापयामासुस्तथा भङ्गयन्तरेण च // 956 // सद्वैद्यवचनेभ्योऽन्यैरतिपाण्डित्यमानिभिः / एकान्तवैपरीत्येन, संहिता रचिता ध्रुवम् // 957 // लोकाः पृथक् पृथग् भिन्नरुचयस्ते च रोगिणः / केषाञ्चित् केचिदेवेष्टाः, कूटवैयेषु तेष्वतः // 958 // प्रसिद्धा वैद्यशालास्ताः, सर्वाः शिष्यप्रतीच्छकैः / महावैद्याश्च तेऽभूवन् , सर्वे पाठितसंहिताः // 959 // ततो मौलमहावैद्योऽनाढतो बहुभिर्जनैः / कुर्वते तत्कियां ये च, ते भवन्त्येव नोरु नः // 960 // यथा जीवति सद्वैध तस्मिन् रोगाः क्षयं ययुः / तस्यां सुवैद्यशालायां, क्रियाविधिकृतां नृणाम् // 961 / / तथा मृतेऽपि तस्मिन् सा, जाता रोगविनाशिनी / शाला सकललोकानां, सविनेया ससंहिता // 962 // ये पुनः कूटवैद्यानां, रोगिणः शरणं गताः / अनाथा रोगजालेन, पीडिता एव ते मृताः // 963 // जीवत्सु तेषु तच्छाला, यथाऽनर्थकरी नृणाम् / मृतेष्वपि तथैवाभूत् , सशिष्या च ससंहिता // 964 // यश्च तास्वपि केषाञ्चिद् , वैद्यशालासु दृश्यते / रोगाणां तानवाद् दैवात् सर्वमोक्षेण वा गुणः // 965 // सोऽपि सद्वैद्यशास्त्राब्धिगृहीतवचसा गुणः / एकान्तविपरीतानां, संहितासु च सोऽपि न // 966 // किमन्यत् सा महावैद्यशालैका रोगनाशिनी / तत्संहितानुसारात् तु शेषा अपि तथाविधाः // 967 // महावैद्यो हि जानीते, दोषं तच्छमनं तथा / कूटवैद्या न जानन्ति, स्वयं तत्त्वविरोधतः // 968 // गुणो घुणाक्षरन्यायाद् , यश्च तेभ्योऽपि जायते / सद्वैद्य एव तत्रापि, तत्त्वनीत्या चिकित्सकः // 969 // तदियं ते समासेन, मया वैद्यकथोदिता / पुण्डरीकोपनीयैनां, व्यक्तं भावं वदामि ते // 970 // संसारो नगरं ज्ञेयो, भावरोगिजनाकुलः / तत्रैकश्च महावैद्यः, सर्वज्ञो जगदीश्वरः / / 971 // उत्पन्नकेवलालोकः, शुद्धसिद्धान्तसंहितः / रोगजातप्रविध्वंसी, सर्वलोकोपकारकृत् // 972 // तथापि गुरुकर्माणस्तमधन्याः श्रयन्ति न / किन्तु धन्यतमाः क्षीणपापाः स्तोकाः श्रयन्ति तम् // 973 // स यदोपदिशत्युच्चै पर्षदि हर्षदम् / सदेवासुरमायां, विनेयेभ्यो जगद्गुरुः // 974 // देवासुरनरास्तत्र, प्रसङ्गेनागतास्तदा / शृण्वन्ति देशनां केचिद् मिथ्यात्वक्लिष्टमानसाः // 975 // श्रुत्वा मन्दधियस्तां ते, गम्भीरां विविधैर्नयैः / कल्पयन्त्यन्यथैवार्थ, स्वीयभावानुसारतः // 976 // ततो जिनमहावैद्यादुपश्रुत्य बहिर्गताः / कूटवैद्यसमानास्ते स्वशास्त्राणि प्रकुर्वते // 977 // तीर्थ्याः केचन सांख्याद्यास्तत्र ये तावदास्तिकाः / ग्रन्येषु जैनवाक्यानि, तैद्धानि कियन्त्यपि // 978 // अर्हद्वाक्यान्यथात्वेन, स्वयं शेषं च कल्पितम् / कूटवैचैरिवाशेषं, निजपाण्डित्यदर्पतः // 979 // तच्छास्त्राण्यपि राजन्ते, ततोऽर्हद्वचनश्रिया / कण्टकानां वनानीव, मध्यस्थैराम्रपादपैः // 980 // बार्हस्पत्यादयो ये तु, नास्तिकाः पापबुद्धयः / विकल्पितं विपर्यस्तं, सर्व तैर्जिनशासनात् // 981 // कुतर्कवादमौखर्याज्जने तेऽपि तथाविधे / गताः प्रसिद्धिं चौराणां, प्रागल्भ्यं हि महत्तरम् // 982 // तीर्णा (aa) यथाऽऽशयं ते च, नानारुचिभृतां नृणाम् / केषाञ्चित् केचिदेवेह, प्रतिभान्ति न चापरे // 983 / / कणभक्षाक्षपादाद्याः, शास्त्रकर्माणि यान्यथ / शिष्येभ्योऽदर्शयंस्तेभ्यो, वैद्यशालेयमुत्थिता // 984 // इत्थं च जिनसद्वैद्यशालायां कर्मरोगिणः / धन्याश्चिकित्सां कुर्वाणा, भवन्त्येव हि नीरुजः // 985 // .