________________ ग्लो० 956-1015 ] वैराग्यरतिः। 227 आस्तिकेषु च तीर्थेषु, कर्मरोगस्य तानवम् / यद् दृश्यते यश्च सर्वमोक्षो वा श्रूयते कचिद् // 986 // सोऽपि स्वशास्त्रबद्धानां, सर्वज्ञवचसां गुणः / अपुनर्बन्धकस्य स्यात् , तद्रुच्या कर्मतानवम् // 987 / / अनुष्ठानं हि तस्योक्तं, चित्रं दर्शनभेदतः / त्यक्तविप्रतिपन्नाशं, पर्यवस्यत् फलोदये // 988 // तस्य सर्वैकवाक्यत्वादहिंसाधेव सम्मतम् / तत्त्वं निरञ्जनो देवो, गुरुर्ग्रन्थविवर्जितः // 989 / / इत्थं सदोघसंज्ञानात् , सत्यार्थपदरोचके / सूक्ष्मबोधं विनाऽपि स्यात् , कर्मरोगस्य तानवम् // 990 // अतिशुद्धिवशाद् भावसम्यक्त्वादिक्रमेण तु / जायेत सर्वमोक्षोऽपि, जिनवाक्यानुसारिणाम् // 991 // यद्वा जातिस्मरादीनां, वचो जैन हृदि स्थितम् / तेषामास्तिकतीर्थ्यानां, कर्मरोगं क्षयं नयेत् // 992 // दोषत्रयं शरीरस्थं, यथा वैद्यश्चिकित्सति / रागद्वेषमहामोहांस्तथा सर्वज्ञ एव हि // 993 // चिकित्सा कर्मरोगाणां, जिनवैद्यं विना न तत् / आस्तिकेष्वपि तीर्थेषु, सा हि सर्वज्ञपूर्विका // 994 // एकान्तविपरीता ये, नास्तिका जिनशासनात् / एकान्तेनैव पापास्ते, भवभ्रमणहेतवः // 995 // अर्थकामैकगृद्धानां, तथाऽपि प्रतिभान्ति ते / क्लिष्टाशयानां जन्तूनां, नास्तिकाः साम्प्रतक्षिणः / / 996 // तदेवं निर्गतान्यार्यतीर्थानि जिनशासनात् / शेषाणि व्यापकं चैकं, विज्ञेयं जिनशासनम् // 997 // इत्थं च वर्तते रामद्वेषमोहविरोधि यत् / सत्यं भूतदया ब्रह्म, शौचमिन्द्रियनिग्रहः / / 998 // औदार्य सुन्दरं वीर्यमाकिञ्चन्यमलोभता / गुरुभक्तिस्तपो ज्ञानं, ध्यानमन्यच्च तादृशम् / / 999 / / आस्तिकेष्वपि तीर्थेषु, तत् स्वरूपेण सुन्दरम् / किन्तु नो राजते तेषु, यथा याचितभूषणम् // 1000 // तद्धि स्वकल्पितैः शेषैः, सर्वज्ञवचनातिगैः / यागहोमादिभिः साई, मीलितं न विराजते // 1001 // एकग्रन्थप्रबन्धस्य, कूटवाक्यार्थमुद्रया / सर्वांशशुद्धबोधस्याहेतुत्वात् तन्न सुन्दरम् // 1002 / / हंसेनेव जलात् क्षीरमपुनर्बन्धकेन तत् / विवेकेन गृहीतं तु, स्यात् स्वरूपेण सुन्दरम् // 1003 // इत्थं स्वरूपशुद्धत्वं, तत्रान्यपदमिश्रणात् / निहन्यते न सिद्धान्ते, यथा मिथ्यात्विसंग्रहात् // 1004. / अत एवान्यशास्त्रस्य, सत्यार्थपददूषणे / तन्मूलपूर्वजलधेर्भवत्याशातना ध्रुवा // 1005 // . तदेवं सर्वतीर्थेषु, भावात् सर्वगुणात्मकम् / जैनतीर्थं स्थितं ज्ञेयं, न लिङ्गं धर्मकारणम् // 1006 / / अतो यदुक्तमार्येण, मोक्षं किं तीथिका अपि / साधयेयुनिबलाच्चारु तत्रेदमुत्तरम् // 1007 / / शुद्धानुष्ठानविकलं, ध्यानं हास्यं विवेकिनाम् / शुद्धं पुनरनुष्ठानं, न स्यात् सिद्धान्तमन्तरा // 1008 // सर्वोपाधिविशुद्धात्मा, तीथिकोऽपि कथञ्चन / यश्च स्यात् स तु भावेन, वर्तते जिनशासने // 1009 // जैनेन्द्रमेव तेनैकं, शासनं भवनाशनम् / भवच्छिदो भवन्त्येव, तत्रस्थास्तीर्थिका अपि // 1010 // आरोग्यकारि दोषच्छिद् , यथा लोके सुभेषजम् / प्रयुक्तं कूटभिषजाऽप्याप्तवैद्यस्य सम्मतम् // 1011 // तथा घुणाक्षरन्यायाद्, वचनं गुणकारि यत् / परशास्त्रस्थमपि तज्जिनवैद्यस्य सम्मतम् // 1012 // कुसम्प्रदायापतिताद् , यत्नात् तन्न गुणावहम् / अतो घुणाक्षरन्यायात् , तादृग् योग्यतयेष्यते // 1013 // साऽवच्छिनत्ति तस्येष्टहेतुतां चानुमोद्यताम् / गुणकृद् भावजैनानामतस्तत् सम्मतं सताम् // 1014 // क्रियते यत् पुनः कर्म, चित्तमालिन्यकारकम् / यतिश्रावकरूपेण, तजिनाज्ञाबहिश्चरम् / / 1015||