________________ ग्लो० 498-955 ] वैराग्यरतिः। यतःछित्त्वा भित्त्वा च भूतानि, कृत्वा पापशतानि च / स्मरन् देवं विरूपाक्षं, सर्वपापैः प्रमुच्यते // 927 // .. विष्णुध्यानमुदाजहः, परे पापविशुद्धये / पवित्रं परमानन्ददायकं यदिदं स्मृतम् // 928 // अपवित्रः पवित्रो वा, सर्वावस्थागतोऽपि वा / यः स्मरेत् पुण्डरीकाक्षं, स बाह्याभ्यन्तरः शुचिः // 929 // ऋचमन्ये तु गायत्री, प्राहुः पापनिबर्हणीम् / मोक्षस्य साधनं प्राहुरन्ये वायुजयं बुधाः // 930 // हृदि स्थितं यद् ध्यानेन, पुण्डरीकं विज़म्भते / विकस्वरदलं रम्यं, मनोऽलिसुखदायकम् // 931 // पदे मनोऽलिः परमे, तद्वारेण निलीयते / लक्ष्यते तस्य यो नादस्तत् तत्त्वमपरे जगुः // 932 // रेचकं पूरकं चैव, कुम्भकं च तथा परे / अस्यैव पुण्डरीकस्य, प्राहुर्वायु विघाटकम् // 933 // विशुद्धं बिन्दुमेवाहुरन्ये तु स्फटिकोपमम् / ज्ञानहेतुं प्रसर्पन्तं, तिर्यगूर्ध्वमधस्तथा // 934 // नासाग्रे भूलतामध्ये, बिन्दुमेव तथाऽपरे / तुषारहारविमलं, ध्येयमाहुश्चलस्थिरम् // 935 // आग्नेये मण्डले स स्यान्मीलितो(ते) रक्तवर्णकः / माहेन्द्रे पीतकः कृष्णो, वायव्ये वारुणे सितः // 936 / / पीतः सुन्दरचित्तेन, रक्तस्तापेषु चिन्त्यते / कृष्णोऽभिचारके कार्ये, पुष्टिदो धवलो मतः // 937 // प्राहुः परे तु संशोध्यो, नाडीमार्गो मुमुक्षुणा / इडापिङ्गलयो यं, नाड्योः सञ्चारकर्म च // 938 // नाडीचक्रप्रचारश्च, विज्ञेयो दक्षिणेतरः / तद्द्वारैव च विज्ञेयं, बहिः कालबलादिकम् // 939|| ओंकारोच्चारणादेव, घण्टानादायतात् परे / पद्मासने निविष्टस्य, शान्तिप्राप्ति समभ्यधुः // 940 // अन्ये तु प्राहुरानाभेः, प्राणतन्तुं शनैः शनैः / मूर्धान्तस्तालुरन्ध्रेण, निर्गच्छन्तं विचिन्तयेत् // 941 // स्थितं हृदयराजीवे, मण्डले वा त्रयीतनोः / पुमांसमायं निष्पापं, प्राहुयेयतया परे // 942 // पुमांसं परमं ध्येयं, नित्यं हृद्योम्नि संस्थितम् / अपरे विलसत्कान्तिलताकीर्णं विदुर्बुधाः // 943 // आकाशमात्रमपरे, विश्वमन्ये चराचरम् / आत्मस्थं चिन्त्यमित्याहुरपरे ब्रह्मशाश्वतम् // 944 // -: इत्थं च भगवद्भिर्मे, ध्यानयोगो यथोदितः / सारस्तीर्थैरपि तथा, स एव प्रतिपादितः / / 945 // भवेयुस्तीथिका मुक्तेस्तत् किं सर्वेऽपि साधकाः / साध्ये मोक्षे तथैकस्मिन् , केयं ध्येयविभिन्नता // 946 // छित्त्वेदं वाकुठारेण, सन्देहं गहनं मम / मोक्षमार्ग वितिमिरं, विधातुं यूयमर्हथ // 947 // समन्तभद्रगुरवस्ततः प्राहुर्महाधियः / आर्य ! त्वमल्पगीतार्थस्तत्तात्पर्य न बुध्यसे // 948 // तीर्थ्याः सर्वेऽपि खल्वेते, कूटवैद्यसमा मताः / सद्वैद्यजिनशास्त्रार्थपल्लवग्रहगर्विताः // 949 // प्रोच्यन्ते भ्रान्तिनाशार्थमत्र वैद्यकथा यथा / एकस्मिन् नगरे भूरिरोगग्रस्तजनाकुले // 950 // एक एव महावैद्यो, दिव्यज्ञान्यस्ति कश्चन / संहितानां समस्तानां, स्रष्टा रोगौघनाशकः // 951 // नाधन्यत्वेन तल्लोकाः प्रपद्यन्ते तथापि तम् / ये केऽपि धन्यमूर्धन्याः, प्रपद्यन्ते त एव तम् // 952 / / स च दत्ते स्वशिष्येभ्यस्तद्व्याख्यानमनारतम् / अन्यधूर्तरुपश्रुत्या(त्य), तत्प्रसङ्गागतैर्धतम् // 953 / / ततस्तल्लवमात्रेण, तुष्टैस्तैवैयकं कृतम् / स्वपूजार्थमधन्यानां, प्रतिभातं च तन्नृणाम् // 954 // ततस्तैः पण्डितंमन्यैः, रचिताः स्वस्वसंहिताः / वांसि प्रथयामासुः, केचित् तासु नवान्यपि // 955 // वै-२९