________________ 210 महोपाध्यायश्रीयशोविजयगणिविरचिता [ अष्टमः सर्गः तासां निवेदितं वीर्यं सद्बोधेन पृथक् पृथक् / आद्या माता यतिं कुर्याद् युगमात्रप्रलोकिनम् // 486 // प्रियं पथ्यं मितं तथ्यं द्वितीया भाषयेद् वचः / तृतीया कारयेत् सर्वदोषवर्जितभोजनम् // 487 // पात्राद्यादाननिक्षेपं सुदृष्टं सुप्रमार्जितम् / माता चतुर्थी मुनिभिः कारयन्ती विजम्भते // 488 // पञ्चमी त्याजयेन्नीत्या देहाऽऽहारमलादिकम् / अनाकुलं मुनेश्चित्तं षष्ठी माता तु रक्षति / / 489 / / सप्तमी कारयेन्मौनं धर्म्य वा भाषयेद् वचः / अष्टमी लीनतां कार्ये(ये) कारयेद् यतनां तथा // 490 // सम्पूज्याचदिने जैनपुराधिष्ठायिका इमाः / शुद्धा चित्तसमाधाने वेदिनिःस्पृहता कृता // 491 // आध्यात्मिकमहःसंज्ञं विस्तीर्ण तत्र निर्मितम् / कुण्डं धर्मेण धृत्यर्चिरुद्दीप्तं जातवेदसः // 492 / / ततो वृद्धकुलस्त्रीभिर्भावनाख्याभिरादरात् / स्नानाङ्गरागभूषादिवधूकर्म विनिर्मितम् / / 493 // ताभिरेव तथा शैषैः स्नपितोऽहं नरेश्वरैः / शमतीर्थोदकैलिप्तोऽवधानैश्चन्दनद्रवैः // 494 // भूषितः कोमलैर्दिव्यैः प्रत्याहारैस्तथाऽशुकैः / ततः प्रवृत्तो विपुलः पाणिग्रहमहोत्सवः // 495 // स्वयं चकार सद्बोधस्तत्र कार्य पुरोधसः / ऋच उच्चारयन् वेदगता अभ्युदयावहाः // 496 // . हूयन्ते कर्मसमिधः क्षिप्यन्ते हुतयोऽनयाः / वितीर्यन्ते तथा लाजाञ्जलयो भववासनाः / / 497 // सांवत्सरः शुभं लग्नं ददानोऽथ सदागमः / अकारयन्मम क्षान्तिदारिकायाः करग्रहम् // 498 // शुभाशयाद्याः सर्वेऽथ प्रमोदेन विजम्भिताः / भ्रान्तानि मण्डलान्युच्चैः प्रवृत्तोऽतिमहोत्सवः / / 499 // तस्मिन्नेव क्रमेणैवं लग्ने शेषा दयादिकाः / परिणीता मया कन्या अष्टौ स्पष्टौजसान्विताः // 500 // ताभिः सहोपविष्टोऽहं जीववीर्यवरासने / चारित्रधर्मराजाद्याः सर्वेऽपि मुदिता भृशम् // 501 // यदैव विद्या कन्या सा परिणीता तदैव मे / लीनो मोहः परं पार्श्वे दग्धरज्जुसमः स्थितः // 502 // यदा तु परिणीतास्ताः क्षान्त्यादिशुचिकन्यकाः / वैश्वानरादिसंहारस्वभावसमवस्थिताः // 503 // गतोऽसौ लीनतरतां तदाऽनीकसमन्वितः / पापोदयश्च संत्रस्तो दूराद् दूरतरं गतः / / 504 // शान्ताबाधस्ततः कान्तान्वितः स्वबलसंयुतः / स्वसंवेदनसिद्धं स्म वेनि सत्यं मुनेर्वचः // 505 // अन्या अपि धृतिश्रद्धामेधाविविदिषासुखाः / मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादिकाः // 506 // परिणीता मया कन्याः शुभाशयमहीभृतः / ताभिः प्रौढं सुखं मेऽभूत् स्त्रीभिर्विलसतः सह // 507|| समागता अथाह्लादमन्दिरे निर्मलाभिधाः / सूरयस्ते मया गत्वा सर्वा तत्र वन्दिताः // 508 // ततो विनयनम्रेण तेषामग्रे मयोदितम् / सम्पन्नो भवदादेशो नाथ ! दीक्षाऽथ दीयताम् // 509 // सूरिराह महाराज! जातैव तव भावतः / दीक्षा किमधुना देयं गृहस्थोऽपि यतिर्भवान् // 510 // यदेव जातमधुना वसतोऽपि गृहे तव / यतित्वेऽपि विधातव्यभिदमेव विशेषतः // 511 // तथापि व्यवहारोऽत्र लङ्घनीयो न धीमताम् / भावस्य दीयते हेतुर्द्रव्यलिङ्गं ततस्तव // 512 // महाप्रसाद इत्युक्त्वा मुदितेन ततो मया / विधायाष्ट दिनान्यहबिम्बपूजां मनोहराम् // 513 // बैन्धूनापृच्छय दत्त्वा च यथेष्ट दानमर्थिनाम् / जनतारणनामानं राज्ये संस्थाप्य नन्दनम् // 514 // 1. वृषलग्नं ज्योतिषिको ददानो // अथ सांवत्सरो रम्ये वृषलग्ने सदागमः // 2. सम्भाल्य बन्धून् //