________________ प्रलो० 486-541 ] वैराग्यरतिः / 211 कुलन्धरेण मक्नमञ्जर्या च समन्वितः / शेषैः श्रेष्ठजनैश्चाहं निष्क्रान्तः सूरिसन्निधौ // 515 // ततोऽभ्यस्ताः क्रिया गाढं प्रियोऽभून्मे सदागमः / अङ्गान्येकादश व्यक्तं पठितानि तदाज्ञया // 516 // इष्टोऽभून्मे भृशं सम्यग्दर्शनाख्यो महत्तमः / जातश्चारित्रधर्मे मे चित्ताबन्धो विशेषवान् // 517 // ज्ञातं विशिष्य तत्सैन्यं धृतो योगः कृतं तपः / प्रमत्ततानदीमुख्याः भग्नाः क्रीडालया द्विषाम् // 518 // संपाल्य चरणं भूरिकालं त्यक्त्वा समाधिभाग् / अन्तेऽनशनतो देहमाद्यौवेयकं गतः // 519 // तत्रोत्तमसुखं भुक्त्वा त्रयोविंशतिवारिधीन् / भार्याज्ञयैरवतकमागतो मनुजालये // 520 // जातः सिंहपुरे तत्र पुत्रो वीणा-महेन्द्रयोः / अहं गङ्गाधरो नाम क्षत्रियो वर्यविक्रमः // 521 // जाति स्मृत्वा व्रतं लात्वा सुघोषाचार्यसन्निधौ / अवेयके द्वितीयेऽहं गतः पूर्वविधानतः // 522 // कृता गमागमाः पञ्च भावमौनाद् दिशाऽनया / अवेयकेषु तत्राभूदेकैकाब्व्युत्तरा स्थितिः // 523 // ततश्च धातकीखण्डे भरते शङ्खसत्पुरे / पुत्रो भद्रामहागिर्योर्जातोऽहं सिंहनामकः // 524 // नृपवंशे महाभूतिः सुप्रतापः शुभाकृतिः / अभूवं यौवनं प्राप्तः कलानामेकमास्पदम् // 525 / / जगृहेऽथ मया दीक्षा धर्मबन्धुमहामुनेः / समीपे तेन सार्धं च विहृतोऽभ्यस्तसत्क्रियः // 526 // जातः स्वल्पेन कालेन द्वादशाङ्गाब्धिपारगः / सदागमस्थितिः काऽपि न स्थिता मदगोचरे / / 527|| ततोऽधिगतसूत्रार्थो धर्मबन्धुमुनीन्दुना / समक्षं सर्वसङ्घस्य स्थापितोऽहं पदे निजे // 528 // आचार्यपददाने मे देव-दानव-मानवैः / कृतो महोत्सवो विश्वमनोविस्मयकारणम् / / 529 / / धन्योऽसि कृतकृत्योऽसि प्रोद्धर्ता जगतामसि / ज्ञातः सदागमो येन संस्तुतो गुरुणेत्यहम् // 53 // मुनयो मानवा देवाः सर्वे मे नम्रतां गताः / गुणैरावर्जिताः सन्तः कुन्दपूर्णेन्दुनिर्मलैः // 531 // विनीताः पण्डिताः शिष्या बभूवुर्बहवो मम / पुरः स्फुरन्ति नो येषां वाचो वाचस्पतेरपि // 532 // विद्यार्थिनः श्रिताः शिष्याः मामागत्य गणान्तरात् / सौरभाकाङ्गिणः पद्मं भृङ्गा इव लतान्तरात् // 533 // मत्तादमाकर्ण्य सिंहनादमिवोद्धतम् / दुर्वादिमत्तमातङ्गैर्दूरादेव पलायितम् // 534 // स्वशास्त्रभासः प्रथितास्तेजोभानोर्ममोदये / छन्नाश्च परशास्त्रार्था ग्रहांशव इवाभवन् // 535 // मद्देशनासुधां भव्या ग्रामाऽऽ-कर-पुरादिषु / विततैः श्रोत्रचुलुकैः पायंपायं मुदं ययुः // 536 // मद्यशः पटहध्वानैः पूर्ण ब्रह्माण्डमण्डलम् / दिशः सर्वा अपि व्याप्ताः प्रसरद्भिर्गुणैर्मम // 537 // सत्यं सिंहोऽसि धाम्ना त्वं त्वया भूर्भूषिताऽखिला / इति मां नम्रमू‘नस्तीथिका अपि तुष्टुवुः // 538 // तादृशीं सूरिपदवीभूतिं प्रेक्ष्य ममाद्भुताम् / असूययेव रुष्टा मे पापिष्ठा भवितव्यता // 539 // चिन्तितं च तया पूर्व प्रस्तावो यो मयाऽऽस्थितः / साम्प्रतं सोऽस्ति तदिमं अवे मोहादिभूभुजाम् // 540 // ते हि मे मुखमीक्षन्ते याचका धनिनो यथा / तदद्य पूरयाम्याशां तेषामेषा प्रसेदुषी // 541 // 1. वराग्यरतिग्रन्थः एतच्छ्लोक 524 )पर्यन्त एवोपलभ्यते / प्रत्यन्तरं चास्य ग्रन्थस्य नान्यत्र समासाद्यते / अग्रेतनपत्राणि ग्रन्थस्यास्य विनष्टानि ज्ञेयानि / अतः प्रस्तुतानुसन्धानार्थ महोपाध्यायश्रीमद्यशोविजयगणिप्रथितवैराग्यकल्पलतातोऽग्रेतनो ग्रन्थसन्दर्भः (श्लोक 525 तः आग्रन्थपरिसमाप्ति) अत्रावतारितोऽस्माभिः //