________________ 190 महोपाध्यायश्रीयशोविजयगणिविरचिता [ सप्तमः सर्गः सद्बोधेनोदितं सम्यक् त्वया संलक्षितोऽवधिः / तद्विज्ञप्तेन स ततो राज्ञा मे प्रहितोऽन्तिके // 792 // तेनोक्तं देव ! विद्येयं प्राभृतीक्रियते यदि / तदा संसारीजीवस्य सन्तोषो जायते महान् // 793 // सद्बोधोऽवोचताद्यापि प्रस्तावोऽस्या न विद्यते / येन संसारिजीवस्त्वां सामान्येनैव भोत्स्यते // 794 // विशेषतश्च त्वद्रूपं यावत् तेन न बुध्यते / न तावद् युज्यते दातुं तस्मै कन्येयमुत्तमा // 795 / / अज्ञातकुलशीलोऽस्याः कुर्याचेत् स पराभवम् / तन्निमित्तं तदा शल्यं स्यादस्माकं दुरुद्धरम् // 796 // तद् गच्छ त्वं विना विद्यां चन्द्रः पूर्णकलामिब / भूयसाऽनेहसा रूपं तावकं स च भोत्स्यते // 797 // आदायाऽहं तदा विद्यामागमिष्यामि तेऽन्तिके / स लप्स्यते शरच्चन्द्रस्फुरज्ज्योत्स्नोत्सवं तदा // 798 // सदागमस्य सान्निध्यं मोहादीनां च तानवम् / भवजन्तोः शमलवास्वादो देवदिक्षुता // 799 / / हृद्विश्रोतसिका खेदविश्रामश्चत्यमी गुणाः / विद्यां विनाऽपि भवतो गच्छतस्तत्र भाविनः / / 800 // ततो महामन्त्रिवचो राज्ञश्चाज्ञां प्रमाणयन् / एक एवागतस्तूर्णं मत्पाश्च स महत्तमः / / 801 // इतश्चानन्द-नन्दिन्योः सूनुर्नाम्ना विरोचनः / जातोऽहं मानवावासे सम्प्राप्तश्चारु यौवनम् // 802 // . .. गतोऽहं कानने चित्तनन्दने तत्र संयतः / धर्मघोषो मया दृष्टस्तदाऽभूत् कर्मतानवम् // 803 // निषण्णस्तं महाभागं वन्दित्वा शुद्धभूतले / तेन मां भद्रकं ज्ञात्वा कृता सद्धर्मदेशना // 804 // अत्रान्तरे प्रादुरभूत् पुनर्मम सदागमः / रुचितं तद्वचः पृष्टो मुनिः किमुचितं मम // 805 / / मुनिराह त्वया चिन्त्या दोषाः संसारगोचराः / आराध्यः परमात्मा च सिद्धानन्तचतुष्टयः / / 806 // वन्द्यास्तदुपदिष्टाध्वगामिनो मुनयोऽनघाः / ज्ञेयानि नव तत्त्वानि पेयं जिनवचोऽमृतम् // 807 / / नेयं तदङ्गाङ्गिभावमनुष्ठेयं हितं निजम् / उपचेयं शुभोपायैः पुण्यं पुण्यानुबन्धि च // 808 // विधेयं निर्मलं स्वान्तं हेयं सङ्कल्पमण्डलम् / लेयं गुरुवचः सारं देयं चेतस्तदादरे // 809 // अवगेयं खलवचः स्थेयमक्षुब्धचेतसा / इत्थं ब्रुवाणे सूरीन्द्रे सम्प्राप्तोऽसौ महत्तमः // 810 // वीक्षितश्च सुदुर्भेदग्रन्थिभेदादसौ मया / श्रद्धानमात्मरुच्याऽभूद् मौनीन्द्रे वचने ततः // 811 // बुद्धो बन्धुधिया सम्यग्दर्शनाख्यो महत्तमः / उक्तो मुनीन्द्रो निर्देशं करिष्ये भवतामहम् // 812 // तं मुनीन्द्रं ततो नत्वा गतोऽहं भवने निजे / ततःप्रभृति जातोऽहं सुदृष्टिनिवर्जितः // 813 / / तदेव सत्यं निःशकं यजिनेन्द्रः प्रवेदितम् / एतावन्मात्रतुष्टोऽहं जातः कुग्रहवर्जितः // 814 // ज्ञानं सदागमेनापि तदा मे बहु 'देशितम् / सूक्ष्मो भावः परं दृष्टो न मया मन्दचक्षुषा // 815 // पटुवाचोऽपि गुरवः सूक्ष्मज्ञानस्य हेतवः / विशिष्टयोग्यताऽभावान्न तदानीं ममाऽभवन् // 816 // सूक्ष्मज्ञानोज्झितं जातं ततः श्रद्धानमेव मे / पन्योपमपृथक्त्वे तु क्षीणे श्राद्धत्वमागतम् // 817 // सामान्यतस्तदादेशान्नियमाः पालिता मया / श्रद्धया तत्प्रभावेण गतोऽहं विबुधालये // 818 // सौधर्मे तत्र शयनात् स्फुरत्कुसुमसौरभात् / प्रवरोल्लोचसन्तानाच्छन्नात् कोमलवाससा // 819 // समुत्थितः क्षणार्द्धन ज्योतिर्योतितदिक्पथः / स्फुरत्कोटोरकटक-हार-केयूर-कुण्डलः // 820 // 1. दर्शितम् //