________________ प्रको० .17-574 ] बैराग्यरतिः / ततश्चारित्रधर्मेण प्रोक्तं कः प्रेषणोचितः / सद्बोधः प्राह सर्वेषामुपकारी सदागमः // 546 / / संस्तवात् सोऽस्य बहुशो दिदृक्षुर्नो भविष्यति / 'स कर्मपरिणामाख्यस्ततोऽस्मान् ज्ञापयिष्यति // 547 // ततो वयं भविष्यामः शत्रून श्रुत्वेति मन्त्रिणः / वाचं चारित्रभूपो मां प्रत्यमुञ्चत् सदागमम् // 548 // जगौ च मन्त्रिणं राजा सम्यग्दर्शननामकः / अनेन सार्धमेषोऽपि किं न प्रेष्यो महत्तमः // 549 / / सद्बोधः प्राह भात्युच्चैयुक्तोऽनेन सदागमः / प्रस्तावाभावतः किन्तु नाधुनैष प्रहीयते // 550 // भूपः प्राह कदा मन्त्रिन् ! प्रस्तावोऽस्य भविष्यति / मन्त्री प्राह यदा सोच्चैर्गन्ता रागं सदागमे // 551 // तदैव प्रेषणीयोऽयं तस्य पार्श्वे महत्तमः / भूयः सदागमासङ्गाद् योग्यता सा भविष्यति // 552 // यथा रत्ने शतक्षारपुटशोध्ये फलावहः / उत्तरेण श्रमः प्राच्यस्तथा ज्ञेयः सदागमे // 553 // प्राप्नोति जीवः संसारी भूयो भूयः सदागमात् / वीर्यं यदास्यावसरस्तदा सम्यक्त्वयोजने // 554|| प्रपन्ने मन्त्रिवचने ततस्तेन महीभुजा / सदागमः सन्निधानं क्रमान्मम समागतः // 555 // ज्ञानसंवरणो नाम महामोहनियुक्तकः / लीनः स्थितस्ततो दृष्ट्वा महामोहसमागमम् // 556 // अकलकोऽथ सम्प्राप्तो ध्यानारूढस्य सन्निधौ। मया सह निषण्णश्च तं प्रणम्य महामुनिम् // 55 // धर्मलाभाशिषं दत्त्वा पूर्णध्यानः स देशनां / अकलङ्काय दत्ते स्म मोहमत्तेभकेसरी // 558 // तस्य पार्थे मया दृष्टः स महात्मा सदागमः / ज्ञापितश्चाकलङ्केन वयस्यायं सदागमः // 559 // एते हि मुनयोऽस्याज्ञां लयन्ति न कर्हि चित् / सूरिरेषोऽस्य जानीते महिमानमुदारधीः // 560 // सर्वेषां जायते ज्ञावमस्मादेव सदागमात् / त्वमप्येनं प्रपद्यस्व कोविदाचार्यसेवया // 561 // मया तदनुरोधेन प्रतिपन्नः सदागमः / मुदितेन ततः किञ्चित् विरलीभूतकर्मणा // 562 // तद्गुणान् कोविदाचार्यो मम कांश्चिद्बोधयत् / भद्रकत्वं ततः किञ्चिजातं श्रद्धानवर्जितम् // 563 / / साधुदाननमस्कारपाठाहद्वन्दनादिकम् / अकलङ्कानुरोधेन मया किञ्चित् तदा कृतम् // 564 // अकलङ्कस्तु सम्पृच्छय मातापित्रादिकं जनम् / जग्राह कोविदाचार्यसन्निधौ संयम तदा // 565 / / विजहार च तेनैव सार्द्धमन्यत्र शुद्धधीः / नष्टाज्ञानः शिवाकाङ्की कष्टानुष्ठानकारकः // 566 // इतश्चाह महामोहं सदागमभयातुरम् / ज्ञानसंवरणं मत्वा रागकेसरिमन्त्रिराट् // 567|| उयन्तं यदबलात कालं वयं चिन्तोन्झिताः स्थिताः / ज्ञानसंवरणो भीतः स समेतात सदागमात // 56 // असौ संसारिजीवस्य तत्रोपेक्ष्यः स्थितोऽन्तिके / नखच्छेद्यं हि न प्राज्ञः कुठारच्छेद्यतां नयेत् // 569 // इदं मन्त्रिवचः श्रुत्वा महामोहसभाऽखिला / क्षुब्धा योधा महाक्रोधाः सर्वे वक्तुं समुद्यताः // 570 // हन्तव्यः स महापापो मया गत्वा सदागमः / इति प्रत्येकमुक्वा ते स्थिता नृपमुखेक्षिणः // 571 // महामोहोऽवदद् वत्सा ! यूयं कर्तुमिदं क्षमाः / हतो युष्माभिरेवासौ ततः सर्वैर्मया हतः // 572 / / अतोऽहं यामि तं हन्तुं यूयमत्रैव तिष्ठत / प्रतिजागरणं कार्य युष्माभिर्मेऽन्तरान्तरा // 573 / / परिग्रहं नयाम्येकं स्वाङ्गभूतमिमं सह / रागकेसरिपुत्रस्य सागरस्य वयस्यकम् // 574 / / 1. तस्मै कर्मपरिणामस्ततो // 2. सर्वेऽभाषन्त सत्वराः // 571 // ह //