________________ 172 महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः केनचित् क्रुद्धभूपेन द्वीपान्निष्काशितस्ततः / अगाधे विषमावर्ते क्षिप्तो भीमे महोदधौ // 288 // इदं वैराग्यकृज्जातं गुरूक्तं मे कथानकम् / भावार्थमेनमाकर्ण्य सोऽकलको मुदं दधौ // 289 // मदन्वितः प्रवृत्तोऽथ तं नत्वाऽन्यमुनि प्रति / मयोक्तं किमनेनोक्तं मुनिनेदमसङ्गतम् // 290 // अकलङ्कोऽवदन्नेदमबद्धं धनवाहन ! / भावार्थ कीर्तयाम्यस्य व्यक्तं शृणु तमादृतः // 291 // वसन्तपुरतुल्योऽत्र राशिरव्यावहारिकः / चतुर्विधा वाणिजकास्ततो जीवा विनिर्गताः // 292 // समुद्रोऽत्र पुनर्जन्म-जरा-मृति-पयोभृतः / पतन्मोहमहावत्तॊ दुःखैर्यादोभिराश्रितः // 293 // मूर्छन् कषायपातालकुम्भोत्थाश्रवमारुतैः / पापाविरतिगम्भीरो भवविस्तार एव हि // 294 / / रत्नद्वीपस्य तु स्थाने ज्ञेयो मानुष्यको भवः / कुतूहलं च विषयाभिलाषः काननादिषु // 295 // शङ्खा-क्ष-काचशकलस्थाने धर्माः परोदिताः / धूर्ताः कुतीर्थिका ज्ञेया बोहित्थं जीवलक्षणम् // 296 // स्वस्थानगमनं मोक्षावाप्तिः शुद्धनयस्थितः / मूढस्योपरि यः क्रुद्रो नृपोऽसौ कर्मनामकः / / 297|| क्षेपः समुद्रमध्येऽस्य दुरन्तभवमज्जनम् / चारो रत्नार्जनं यच्च सुपरीक्ष्याप्रमादतः // 298 // तद् भवत्येव चारित्रप्राप्तेः साधोर्महात्मनः / सम्यक्तत्त्वार्थबोधेनाविप्रलभ्यस्य तीथिकैः // 299 // अव्याक्षिप्तस्य विषयेष्वनित्यत्वादिभावनात् / क्षान्त्यादिभावरत्नानामविलम्बेन सङ्ग्रहात् // 300 // योग्यस्योक्तं बुधस्यापि कौतुकं यच्च बाधकम् / तच्छाद्धे युज्यते सर्वं भावरत्नविदो हि ते // 301 // सद्गुणग्रहवाणिज्यं कुर्वन्ति कियदप्यमी / गमयन्ति परं कालं व्यर्थ विषयकौतुकात् // 302 // तथापि बहुकालेन मीलयन्ति कियन्त्यपि / गुणरत्नानि न पुनः साधुयोग्यं गुणोच्चयम् // 303 // ज्ञानादिभावरत्नौधैः पूर्णश्चारुर्मुनीश्वरः / मोक्षे यियासुः स्वस्थाने वदत्येवेति तान् प्रति // 304 // भो भद्राः ! किं मनुष्यत्वे स्वाधीने सद्गुणार्जने / परिपूर्णगुणा यूयं न सम्पन्ना यथा वयम् // 305 // आत्मप्रतारणं नूनं विषयव्यसनं हि नः / जीवितं धर्मसन्तप्तपतत्त्रिगलचञ्चलम् // 306 // सन्ध्याभ्ररागसदृशं तारुण्यं स्वजनाश्रयः / स्नेहो विद्युद्विलसितं योषितो दोषभूमयः // 307 // ज्ञानं दीपः सुमार्गस्य दुर्गतिध्वंसि दर्शनम् / चित्तोत्सवानां चारित्रमर्पकं शोधकं तपः // 308 // संयमोऽनागतानां च कर्मणां विनिवारकः / त्याज्यो हेतुर्भवस्येति मोक्षस्यादेय एव च // 309 // युष्माकं विषयात्यागे मानुष्यं ननु निष्फलम् / भगवदर्शनप्राप्तिरप्यकिञ्चित्करी हहा // 310 // त्यक्त्वाऽस्मत्सन्निधौ भोगपकं गृह्णीत तद् व्रतम् / अस्मत्सन्निध्यभावे तु स्वार्थभ्रष्टा भविष्यथ // 311 // इदमाकर्ण्य वचनं मुनीनां देशसंयताः / लज्जमानाः प्रपद्यन्ते संयमं पारमेश्वरम् // 312 // पूरयन्त्यात्मबोहित्थं गुणरत्नैरनारतम् / सेयं चारुगिरा योग्यकार्यसिद्धिगतिः स्फुटा // 313 / / हितज्ञं प्रति यत् साधोः स्वाभिप्रायनिवेदनम् / भद्रकानामभिमुखीकरणं तन्महात्मनाम् // 314 // साधुभिर्भद्रका धर्मदेशनाऽऽमन्त्रणे कृते / वदन्ति वयमप्युच्चैर्धम स्नानादि कुर्महे // 315 // 1. म् / तच्छ्रुत्वा लब्धभावार्थः / सो // 2. तुकं दुषणादि यत् / तच्छ्राद्धेष्वखिलं युक्तं भाव // 3. यच दुषणम् / त / 301 श्लोकस्य द्वे अपि पाठान्तरे ग्रन्थकृतवोल्लिखिते //