________________ महोपाध्यायश्रीयशोविजयगणिविरोचता [ सप्तमः सर्गः लक्षयन्ति स्वरूपं च ते सर्वभववर्तिनाम् / दयां च कुर्वते कर्मभोजनात् सन्निपन्नके // 228 // अत एव सुसाधूनामाक्रोशादिपरा अपि / न रुषां विषयाः किन्तु कृपाया भवजन्तवः // 229 / / सन्निपातात् तथोन्मादात् कर्मणां ये प्रपीडिताः / आक्रोशादिपरायत्ताः कुर्वते तेषु किं रुषा ? // 230 // कोपो न युज्यते तेषु क्षारक्षेप इव क्षते / कथमेषामयं दोषो न स्यादिति कृपोचिता // 23 // कर्मवेष्टितजन्तूनां चेष्टितानि विवेकिनाम् / शाणत्वं यान्ति वैराग्यशस्त्रोत्तेजनहेतवे // 232 / / लब्ध्वापि नृभवं जन्तूनुन्मत्तान् सन्निपन्नकान् / दृष्ट्वा जिनमतज्ञः को रज्येत भवचारके // 233 / / ततोऽयं करुणाढयेन गुरुणा सन्निपन्नकः / स्वस्थीकृतः सुवैयेन छात्राभो वचनौषधैः / / 234 // यञ्चोक्तं छात्रसंसर्गादुन्मादोऽपि ममोदितः / नाशितोऽनेन गुरुणा तदेवमवबुध्यताम् // 235 / / गुरुणा सन्निपाताभे मिथ्यात्वेऽस्यानभिग्रहे / हते तदाभिग्रहिकमभूत्तीथिकसङ्गतः // 236 // निरस्तं गुरुणा यत्नात् तदप्युन्मादसन्निभम् / ततश्चट्टमठाकारः संसारोऽस्य प्रदर्शितः / / 237 // ततो भवमठे दृष्टा जीवाश्चट्टा इवामुना / उन्मत्ताः सन्निपातार्ता दुःखभाजः प्रलापिनः // 238 // ततः सञ्जातमीरेष प्राच्यां स्वस्येदृशी दशाम् / गुरुणोक्तां समाकर्ण्य तदुक्तां कुरुते क्रियाम् / / 239 // तत्कर्मभोजनाजीणं जस्यत्येष नोदितः / अयं वैराग्यहेतुर्मे मुनिना मित्र ! भाषितः // 240 // न केवलं मुनिरसौ तेनाजीर्णेन बाधितः / आवामपि तथाभूतौ युक्ता दीक्षाऽऽवयोरपि / / 241 // नाजीगणमहं वाक्यमकलङ्कस्य तत्तदा / मदन्वितो गतः सोऽथ साधोः षष्ठस्य सन्निधौ // 242 // पृष्टं तस्यापि वन्दित्वा तेन वैराग्यकारणम् / स प्राह मम वैराग्ये हेतुरेकं कथानकम् // 243|| गुरुणोक्तमिदं भद्र ! तत्ते सङ्कीर्तयाम्यहम् / वसन्ताख्ये पुरेऽभुवंश्चत्वारः केऽपि वाणिजाः // 244 // चारुयोग्यो हितज्ञश्च मूढश्चेत्यभिधानतः / परस्परं वयस्यास्ते रौद्रमुल्लध्य वारिधिम् // 245|| रत्नदीपं गता रत्नसमूहार्जनहेतवे / चकार रत्नवाणिज्यं तत्र चारुरनन्यधीः // 246 // रत्नद्वीपेऽपि नाप्यन्ते रत्नान्युद्यममन्तरा / पूर्णेऽपि हि तटाके कः पिबन्त्यम्बु विनाञ्जलिम् // 247 // इत्यावर्जयता लोकान् नानोपायकृताऽमुना / पूरितं मक्षु बोहित्थमर्जितै रत्नराशिभिः // 248 // रत्नानां गुणदोषज्ञः काननादौ न कौतुकी / ततोऽसौ सत्कियो ज्ञानी तत्र स्वार्थमसांधयत् / / 249|| योग्योऽपि कुरुते किञ्चिद् रत्नानां गुणदोषवित् / अर्जनं तस्य किं त्वस्ति कौतुकं काननादिषु // 250 // रत्नानामर्जनं तस्य राजवेष्टिसमं भवेत् / कौतुकेन वृथा यान्ति वासराः काननादिषु // 251 // मिलितानि बहोः कालात् तथाप्यस्य कियन्त्यपि / रत्नानि किं त्वनेनेह स्वल्पेन बहु हारितम् // 252 // हितज्ञस्तु स्वयं वेत्ति नैव रत्नपरीक्षणम् / परोपदेशतस्तानि लक्षयत्येष केवलम् // 253 // विहारा-ऽऽराम-चित्रादिविलोकनकुतूहलात् / करोति रत्नवाणिज्यं नासौ तीव्रप्रमादभाग् // 254 // रत्नबुद्धयैव गृह्णाति काचशङ्ककपर्दकान् / रत्नद्वीपेऽपि सम्प्राप्तो धूर्तलोकैः स वञ्चितः / / 255 // मूढस्तु न स्वयं वेत्ति रत्नराशीन् परीक्षितुम् / उपदेशं परस्यापि श्रद्धत्ते नैव मोहतः / / 256 // अत्यन्तकौतुकी चासौ चित्रोद्यानादिदर्शने | गृह्णाति सत्यरत्नविट काचादीन् धूर्तहस्ततः // 257 // 1. ताहगप्यकलङ्कस्य वचस्तन मयाऽऽदृतम् मद // 2, 'त्ति रत्नानि न परीक्षितुम् / परों / /