________________ प्रलो० 170-227] वैराग्यरतिः। 169 सन्निपातहतस्तेषां चट्टानां मध्यगो जडः / स्वौषधैः सन्निपातं मे कृपयाऽपनिनाय सः // 199 // ततो जातो मनाक् स्पष्टचेतनोऽहमथाहरत् / उन्मादं छात्रसंसर्गजनितं यत्नतः स मे // 20 // महाशयस्ततश्चायं स्वस्थचित्तं निरीक्ष्य माम् ! उन्मत्तान् सन्निपातार्तान् चट्टान् सर्वानदर्शयत् // 201 // दृष्टाश्च ते मया छात्राः क्रन्दन्तो व्याधिविह्वलाः / मुनीश्वरो बभाषे मां गाढं जातभयं ततः // 202 // भद्र ! भोजनदोपेण प्रागभूस्त्वमपीदृशः / मत्कृतोपायतो जातः साम्प्रतं स्वस्थमानसः // 203 // अत्यचापि तवाजीणं किश्चिद् देहे ततो न चेत् / करिष्यसि मदुक्तं तत् पुनरीटर भविष्यसि // 204 // भयात् प्रत्ययलाभाच्च ततस्तेनोदिता मया / प्रव्रज्या स्वीकृतेयं तद्भोजना जीर्णनाशनी // 205 // यां यामुपदिशत्येष क्रियां तां तां करोम्यहम् / अधुना विधिना मेऽभूदिदं वैराग्यकारणम् / / 206 // अकलङ्कस्तदाकर्ण्य ययावन्यमुनि प्रति / ययौ कोऽस्यार्थ इत्युच्चैर्मया पृष्टो जगाविदम् / / 207 // अनेनाऽपि भवो मित्र ! प्रोक्तश्वट्टमठोपमः / परस्परमसम्बद्धाश्चट्टाभास्तत्र जन्तवः // 208 // माता पिता च नामीषां तत्त्वतोऽस्ति न वा धनम् / न बान्धवाश्च मिलिताः सर्वे भिन्ना हि जन्तवः // 209 // तेषां च जीवचट्टानां संसारमठवर्तिनाम् / बन्धहेत्वभिधं भक्तमायात्येव कुटुम्बकम् // 210 // बैहवः सन्ति तल्लोकाः पञ्च सङ्ग्राहकाः परम् / प्रमादो योग-मिथ्यात्वे कषाया-विरती तथा // 211 // भनादिसंस्कारवशाद् बन्धहेतुकुटुम्बकम् / इदं च जीवचट्टानां हितकृत् प्रतिभासते // 212 // छात्रभोजनतुल्यं तत् कर्म सम्पादयत्यलम् / भुञ्जते जौवचट्टास्तन्मोहमन्त्रेण संस्कृतम् // 213 // अनायतिज्ञास्ते तेन प्रयन्त्युदरं निजम् / तद्विपाका यदज्ञानं प्राप्नुवन्ति सुदारुणम् // 214 / / अनभिग्रहमिथ्यात्वसन्निपातोऽयमिष्यते / अनेनैकेन्द्रियत्वे स्युः काष्ठवन्नष्टचेतनाः // 215 / / भृशं घुरघुरायन्ते द्वीन्द्रियत्वे च जन्तवः / त्रीन्द्रियत्वे च लोलन्ते भुक्तदोषादितस्ततः // 216 // चतुरक्षासंज्ञिपश्चेन्द्रियत्वे च वितन्वते / तामेव चेष्टामधिकां भृशं झपझषायितम् // 217 // गर्भजत्वे वितन्वन्ति तेऽपर्याप्ता भवन्ति च / रुद्धकण्ठाः स्तब्धजिह्वा भूरिदुःखौघविह्वलाः // 218 // बाध्यन्ते ताप-शीताधैर्गताश्च नरकेषु ते / आपन्नाः पशुभावं च चेतयन्ते न किञ्चन / / 219 // मनुष्यत्वे च मुह्यन्ति देवत्वे शेरते भृशम् / दारुणा जीवचट्टानां दशेयं सन्निपातजा / / 220 // ये तु स्वाभिनिवेशेन विपरीतं जिनागमात् / एकान्तक्षणिकाद्यर्थ मन्यन्ते कुनयाश्रिताः // 221 // आभिग्रहिकमिथ्यात्वोन्मादस्तेषामसौ स्मृतः / सन्मार्गदूषणात् ते हि प्रलपन्ति यथा तथा // 222 // हसन्तीव तपः सत्यचारित्रगुणनिह्नवात् / वल्गन्तीव विना हेतुं नास्त्यात्मेत्यादिवादिनः / / 223 // सर्वज्ञमतनिष्णातै रुदन्तीव निराकृताः / यथेष्टचेष्टाचारेण नृत्यन्तीव लसत्कराः // 224 // गायन्ति च पठन्तश्च तर्कदण्डोलकान्निजान् / एवं कर्मविषोन्मादाद् भवन्ति ग्रहिला जनाः // 225 / / यच्चोक्तं तेन मुनिना मोचितोऽहं कृपालना / महावैद्यकदक्षेण सन्निपातात् सुदारुणात् // 226 // तद् युक्तमेव यदमी भवन्त्येव कृतश्रमाः / सिद्धान्ते वैद्यकाकारे मुनयः शुद्धबुद्धयः // 227 // 1. कर्ण्य मुदितोऽन्यमुनि // 2. तद्गताः //