________________ महोपाध्यायश्रीयशोषिजयगणिविरचिता [ सप्तमः सर्गः . चित्रासवसुरापूर्ण राजितम् शितिनीरजैः / लोकैश्च चारुचषकसरकं मदघूर्णितैः // 112 // नानाविधविलासाढयं कृततालमहारवम् / दिव्यकान्तजनाकीर्णं मत्तस्त्रीकृतविभ्रमम् // 113 // वीणामदलकांस्यादिनादवर्द्धितसम्मदम् / सेवितं सर्वसामग्रीयुक्तमापानकं मया // 114 // तत्रानन्ता न चेष्टन्ते न भाषन्ते च घूर्णिताः / मदेन व्यवहारं च नैव कुर्वन्ति लौकिकम् // 115 // अन्येऽप्यनन्तास्तद्रूपाः सन्ति तत्र जनाः परम् / कार्य लोकव्यवहृतेस्ते कुर्वन्त्यन्तरान्तरा // 116 // तादृशास्तत्र सन्त्यन्येऽप्यसङ्ख्याः पार्थिवादयः / परे पुनरसङ्ख्याता निर्भरं मद्यपायिनः // 117 / / न जिघ्रन्ति न पश्यन्ति नापि शण्वन्ति किञ्चन / लिहन्ति जिह्वया किञ्चित् किन्त्वाराटिमुचो भृशम् // 118 // न शृण्वन्ति न पश्यन्ति सङ्ख्यातीताः परे पुनः / जिघ्रन्ति केवलं किञ्चित् परे सङ्ख्यातिगाः पुनः // 119 // नाऽऽकर्णयन्ति किन्त्वक्षणा पश्यन्ति पुरतः श्रितम् / तत्राऽसङ्ख्याः परे मद्याल्लक्षिताः शून्यमानसाः // 120 // अन्ये पुनरसङ्ख्याता दृष्टा विस्पष्टचेतनाः / दुर्मद्यमत्तता तेषु किन्त्वाकालमवस्थिता // 121 // पाट्यन्ते ते च भिद्यन्ते छिद्यन्ते रिपुभिस्ततः / मदोद्धताः प्रकुर्वन्ति मिथस्तीत्रां च वेदनाम् // 122 // . . भ्राम्यन्ति मदिरोद्धान्तास्तत्राऽसङ्ख्याः परेऽपि च / अज्ञा अव्यक्त घोषाश्च गच्छन्ति जननीमपि // 123 // . अन्येऽपि तत्र विद्यन्ते सङ्ख्यातीता मनुष्यकाः / गाढमत्तास्तथाऽन्ये च ते पुनर्द्विविधाः स्मृताः // 124 // तत्र ये गाढमत्तास्ते विलुठन्तो भुवस्तले / वातं पित्तं मलं मूत्रं भक्षयन्ति मुहुर्मुहुः // 125 // इतरे भद्र ! सङ्ख्यातास्ते पुनर्मदिरामदात् / गायन्ति परिनृत्यन्ति युष्यन्ति च हसन्ति च // 126 / / भूयो लुठन्ति धावन्ति वल्गन्ति च परस्परम् / चुम्बन्ति वक्त्रनेत्राणि बालानां योषितां तथा // 127 // कुर्वन्तेऽनार्यकार्याणि सहन्ते तीनवेदनाः / न तु मद्याद् विरज्यन्ते राजभिर्दण्डिता अपि // 128 // अन्ये सन्ति मदाध्माताश्चतुर्वृन्दव्यवस्थिताः / सदा केलिप्रियाः सङ्ख्यातीता नृत्यादिनिर्भराः // 129 // आपानकस्था मध्यस्थाः सङ्ख्याताः सन्ति चापरे / अमद्यपा मद्यपैस्ते ब्राह्मणा इति कीर्तिताः // 13.0 // स्थिता अनन्ता मोदन्ते परे त्वापानकाद् बहिः / आपानकस्य वैषम्यं पश्यन्तो मदवर्जिताः // 131 // एतेषु लोकमेदेषु त्रयोदशसु हिण्डितः / अनन्तशो विमुच्याऽहं भेदमाद्यं तथाऽन्तिमौ // 132 // विण्-मूत्र-श्लेष्मजम्बाल-वान्तपित्ताऽशुचिस्थले / कचिल्लुठन् क्वचिद् रिङ्खन् दुर्मयात् क्वचिदारटन् // 133 // उत्तिष्ठनिपतन् धावन् हसन् नृत्यन् रणं सृजन् / कुट्यमानो जनैर्दुःखधोरणीरनुभूतवान् // 134 // द्राह्मणैरन्यदा दृष्टस्तैरापानकमध्यगैः / कृतः कृपालुभिर्मद्यत्यागाय मयि तैः श्रमः // 135 // वचः पूत्कुर्वतां तेषामहं तु मदघूर्णितः / ने ज्ञातवान् पर्यटितस्ततस्तत्र पुनः पुनः // 136 // . अथान्यदा क्वचित् तेषां वचने हुं कृतं मया / यतितं तैश्च यावन् मे मद्यधस्मरको गतः // 137 // तैर्मद्यदोषाः कथिता मयि संलब्धचेतने / कारितो मद्यविरतिं जातोऽहं ब्राह्मणस्ततः // 138 // तेषु प्रव्रजितश्चाहं यदद्यापि न जीर्यति / मयं तजारयिष्यामि दीक्षया भावरुक्छिदा // 139 // इदं मुनिवचः श्रुत्वा भावज्ञानात् प्रमोदभाक् / अकलको मया पृष्टो व्याजहाराशयं मुनेः // 140 // 1. न किञ्चिच्छुतवान् भ्रान्तस्ततस्तत्र //