________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [ सप्तमः सर्व भवप्रदीपनं रौद्रं वर्णितं मुनिनेदृशम् / अमातापितृकं चैतदुक्तं त्रातुरभावतः // 54 // विबुद्रो मन्त्रवित् तत्र सर्वज्ञः परमेश्वरः / तेन चोत्थाय विहितं विशालं तीर्थमण्डलम् // 55 // गोचन्द्रकाकृतौ तच्च मध्यलोके प्रकाशितम् / धृत्वा धर्मात्मकवचं सूत्रमन्त्रस्य रेखया // 56 // तेन देशनयाऽऽहानं समुत्साह्याङ्गिनां कृतम् / प्राविशन् मण्डले स्तोका भवस्थानन्तभागगाः // 57 / / अन्ये बद्धाः कलत्रादौ कुर्वन्ति धनसञ्चयं / क्षेपोऽयं तृणकाष्ठादे यो जन्मप्रदीपने // 58 // क्षेपोऽत्र घृतकुम्भानां कषायोद्दीपनं मुहुः / तिष्ठन्ति वारितास्ते च न मूढा मण्डलस्थितैः / / 59 // शमाम्बुना न कुर्वन्ति शान्ति न प्रविशन्ति च / मण्डले नैव शृण्वन्ति हितं हासादि कुर्वते // 60 // केचिदेव प्रबुध्यन्ते यथाऽसौ भाषते हितम् / प्रबुद्धोऽसौ मुनिगिरा प्रविष्टस्तीर्थमण्डले // 61 // दृष्टाश्चानेन ते लोकाः संसारग्रामवासिनः / रागद्वेषाग्निनाऽत्यन्तं दह्यमानाः प्रसर्पता // 62 // अशुद्धभावपवनप्रेरितोऽसौ महानलः / दहत्यतिभरीभूतो जीवान् ग्रामेयकानिव // 63 // दृष्ट्वाऽसौ तान् तथाभूतान् भीतो यत् प्राव्रजद् भवान् / सङ्घमण्डलमुख्यत्वं तद् ययाविति निश्चिनु // 6 // मुनिमध्यस्थितश्चैष न संसारप्रदीपने / दह्यते धर्ममेघेन विध्यापयति तत् परम् // 65 // प्रदीपनकमुद्दिष्टं तदिदं मुनिनाऽऽवयोः / प्रतिबोधाय तद्भावबोधाद् मोदमहं गतः // 66 // भावश्चायं मुनेरत्र युवयोर्दह्यमानयोः / प्रदीपने ध्रुवं युक्तः प्रवेशस्तीर्थमण्डले // 6 // भावोऽयं रोचते मह्यं तुभ्यं किं रोचते न वा / इति श्रुत्वाऽकलङ्कस्य वचोऽहं मौनमाश्रितः // 68 // द्वितीयस्य मुनेः पाश्वमकलको मया सह / गत्वा नत्वाऽथ तं भक्त्याsपुच्छद् वैराग्यकारणम् // 6.9 // स प्राह गृहवासो मे वैराग्यायानघाभवत् / तथाहि गृहमेकत्र ग्रामे जीर्णमभूद् मम // 70 // निशि चौराः समागत्य खनन्ति तदनारतम् / मुष्णन्ति यदि पश्यन्ति धनं कचन किञ्चन // 71 // क्रूराः पतन्ति मार्जारास्तत्र निर्यान्ति पन्नगाः / वृश्चिकाः सञ्चरन्त्युच्चैर्दुःखयन्ति च मूषकाः // 72 // भग्नाऽभूत् तत्र शय्या मे वासः शटितमेव च / चौरैमुषितवित्तस्य प्राणवृत्तिश्च भिक्षया // 73 // कुरूपा दन्तुरा काणा नित्यं कलहकारिणी / भार्या च बह्वपत्यानां जनयित्री ममाभवत् // 74 // मलमूत्रैरपत्यानां नासावशुचि लिम्पति / गृहं तनोति नातिथ्यमतिथेरागतस्य च // 75 // पुलं च तृणधूलीनां गृहाद् नापनयत्येसौ / गुणवन्ध्या न सन्ध्यायां दीपमुद्दीपयत्यपि // 76 // गृहपाधै ममाभूवन् चाण्डालाः प्रातिवेश्मिकाः / व्याधाश्च मैनिका म्लेच्छा मद्यपाश्च सहस्रशः // 77|| अस्थिभिस्तद्विनिःक्षितैरन्यैश्चाशुचिसञ्चयैः / नाभूद् गृहविभागो मे तद्गृहेभ्यः कदाचन // 78 // सर्वोऽपि मादृशः प्रायस्तद्ग्रामस्थोऽखिलो जनः / ततो न तत्र केनापि वारितो नापि निन्दितः // 79 // दुरवस्थां गतस्यापि तादृशीं कुरुते रतिम् / विड् गर्त्ताशूकरस्येव गृहवासः स मे सदा // 80 // गृहस्थानन्यदाऽद्राक्षमेकत्राहं गतः पुरे / महासौधस्थितान् पूतान् तैरहं प्रतिबोधितः // 81 // मद्ग्रामगृहवासस्य स्वरूपं तैनिवेदितम् / संहृता मोहमाया च स्वतुल्यस्तैरहं कृतः // 82 // 1. त्यसौ / तमोमय्यां न शर्वय्यां दीप //