________________ ग्लो० 1-53 ] वैराग्यरतिः। अदृष्टसृष्टिवैषम्यापवादापनिनीषया / एकरूपाः कृता एते धात्रा किं सृष्टिपाटवात् ? // 25 // एषां लावण्यपुञ्जानां राज्योचितमहोभृताम्' / सुदुश्चरवतादाने को हेतुरिति कौतुकम् // 26 // तदेहि तावत् पृच्छावः प्रत्येकं मुनिपुङ्गवान् / अमून् किं कस्य वैराग्ये कारणं समभूदिति ? // 27 // मयैवमस्त्विति प्रोक्ते पार्श्वमेकमुनेर्गतौ / अकलङ्केन पृष्टोऽसौ किं ते वैराग्यकारणम् ? // 28 // मुनिः प्राह शृणु ग्रामवास्तव्योऽहं कुटुम्बिकः / लोकोदरे तत्र निशि प्रदीपनकमुत्थितम् // 29 // प्रससर्प महाधूमो ज्वालाजालमवर्धत / वंशस्फोटरवः सर्वैः श्रुतो लोकाः समुत्थिताः // 30 // रुदन्ति डिम्भरूपाणि नार्यो धावन्ति विह्वलाः / रटन्त्यन्धाः कलकले जाते क्रोशन्ति पङ्गवः // 31 // षिङ्गाः किलकिलायन्ते मुष्णन्ति परिमोषिणः / सर्वस्वानि च दह्यन्ते शोचन्ति कृपणा भृशम् // 32 // अमातापितृकं सर्वं सञ्जातमसमञ्जसम् / कश्चित् प्रदीपने तत्र विबुद्धो मन्त्रविद् महान् // 33 // उत्थाय ग्राममध्यस्थे स च गोचन्द्रके स्थितः / तेनात्मकवचं कृत्वा रेखयाऽकारि मण्डलम् // 34 // शब्देन तेन महताऽऽहूता ग्रामेयका जनाः / मण्डले मे प्रविशत यूयमागच्छतात्र भोः ! // 35 // सर्वस्वानि च नाङ्गानि दह्यन्ते भवतां यथा / तच्छ्रुत्वा प्राविशन् तत्र लोकाः स्वल्पतमाः किल // 36 // प्रहिला इव शेषास्तु प्रदीपनकतस्ततः / दह्यमानेषु गेहेषु तृणकाष्ठादि चिक्षिपुः // 37 // तस्य विध्यापनं कर्तुमीषुघृतभृतैर्घटैः / मण्डलस्था जगुर्वहिशमोपायोऽस्य नैष वः // 38 // जलेन विध्यापयत वह्नि प्रविशताऽत्र च / मण्डले यूयमस्माकमिव शान्तिर्भवेद् यथा // 39 // तत् तेषां न वचः केचित् कर्णेनाकर्णयन्त्यपि / केचिद्वसन्ति निन्दन्ति केऽपि रुष्यन्ति केचन // 40 // मण्डलस्थास्ततो लोकास्तस्थुर्मीनेन तान् प्रति / कैश्चित्तु वचनं तेषामादृतं पुण्यभाजनैः // 41 // ममापि प्रतिभातं तद् भवितव्यतया वचः / प्रविष्टो द्रुतमुत्प्लुत्य ततोऽहं तत्र मण्डले // 42 // ते ग्रामीणा मया दृष्टाः प्राप्य प्रबलमारुतम् / प्रदीपनेन दोप्तेन दह्यमाना हताशयाः // 43 // मण्डलस्थेषु लोकेषु प्रव्रजत्सु कियत्स्वपि / अहं प्रवजितो भद्र ! वैराग्ये हेतुरेष मे // 44 // इमां मुनेगिरं श्रुत्वाऽकलङ्को मुदितो हृदि / चलितोऽन्यमुनेः पार्श्वे न बुद्धोऽर्थो मया परम् // 15 // अकलङ्को मया पृष्टस्ततः किमयमाह ते ? / कं भावमाकलय्य त्वं हृष्टोऽस्यथ जगाद सः // 46 // योऽयं लोकोदरग्रामः स्ववासाहों निवेदितः / मुनिना विद्धि संसारं तं मित्र घनवाहन ! // 47 // रात्रिस्तत्र सदाऽविद्या लग्नं तस्यां प्रदीपनम् / रागद्वेषाग्निना धूमस्तामसो भाव उत्थितः // 48 // ज्वालौघो राजसो भावो वंशस्फोटरवैः समाः / कलहास्तत्र रोषाग्नेरुत्तिष्ठन्ति च जन्तवः // 49 // रुदन्ति डिम्भरूपाभाः कषाया हृदयग्रहाः / अशुद्धलेश्या संज्ञाश्च नार्यो धावन्ति विह्वलाः // 50 // भवकोलाहले मूर्खा रटन्त्यन्धा इवातुराः / ज्ञानिनोऽपि क्रियाशून्या जनाः क्रोशन्ति पङ्गवः // 51 // उच्चैः किलकिलायन्ते नास्तिकाः षिड्गसन्निभाः / मुष्णन्तीन्द्रियचौराश्च धर्मसर्वस्वमङ्गिनाम् // 52 // रागाग्निना च दह्यन्ते सर्वस्वानि शरीरिणाम् / किं कुर्म ? इति शोचन्ति तद् दृष्ट्वा कृपणाः परे // 53 // 1. म् / को दीक्षाग्रहणे हेतुरिति मे हृदि कौतुकम् // 2. तत्र भावाग्नेरुत्ति //