________________ 160 महोपाध्यायश्रीयशोविजयगणिविरचिता [ षष्ठः सर्गः प्रातिहार्यैरहार्यश्रीरसावित्येवमादिभिः / विभ्राजते महाभागः श्रेयःसागरचन्द्रमाः // 477 / / निःस्वेदो निर्मलो देहस्तस्य हृयो निरामयः / रक्तं मांसं गोक्षीर-हार-तारकसन्निभम् / / 478 // न दृश्याऽऽहार-निर्हारचेष्टा चर्मदृशां नृणाम् / अम्भोजसुरभिः श्वासः सहजेयं गुणावली / / 479 // कोटीकोट्योऽपि मान्त्यस्य क्षेत्रे योजनमात्रके / तद्भाषा भाति सर्वेषामेकाऽपि स्वस्वभाषया // 480 // तेत्तेजसा प्रशाम्यन्ति मारि-वैर-रुगीतयः / पूर्वोत्पन्ना न भाविन्यो नृणां प्रादुर्भवन्ति च // 481 / / योजनानां शते न स्याद् दुर्भिक्षं तत्प्रभावतः / स्तेनादिभीरवृष्टिश्चातिवृष्टिश्च कदापि न // 482 // मोहक्षयोद्भवा एते गुणास्तस्येन्दुनिर्मलाः / चारुरेष ध्वजच्छत्रसच्चक्रासनचामरैः / / 483 // दधते काञ्चनाब्जानि पदन्यासेऽस्य निर्जराः / वप्रत्रयेऽशोकतले शोभतेऽसौ चतुर्मुखः // 484 // अधोमुखाः कण्टकाः स्युस्तस्मिन् विहरति क्षितौ / द्रुमा नमन्ति तस्याने दुन्दुभिर्दन्ध्वनीति च // 485 // भवत्यवस्थितं तस्य केश-रोम-नखादिकम् / ऋतवश्चेन्द्रियार्थाश्चानुकूलास्तस्य सर्वदा // 486 // भूमिर्गन्धोदकैः सिक्ता पुष्पवृष्टिश्च जायते / पक्षिणोऽपि च कुर्वन्ति तद्विहारे प्रदक्षिणाम् / / 487 // वाति वातः सदा तस्यानुकूलो याति जातुचित् / देवकोटिन तत्पादेिते देवकृता गुणाः // 488 // इत्युत्तमोत्तमस्येयं भूतिर्वाग्गोचरातिगा / इमामनुभवन्नेष नृपोऽगानिवृति पुरीम् // 489 // . त्वदादेशं विधायेत्थम् राज्यषट्कं निरीक्षणात् / आगतोऽहं त्वदभ्यर्णे यथा दृष्टं च भाषितम् // 49 // ... वितर्कवाचं श्रुत्वैनामप्रबुद्धो व्यचिन्तयत् / सिद्धान्तेन यथोक्तं मे तथैवेदमभूदहो ! // 491 // पालनापालनाद् राज्यं कारणं सुख-दुःखयोः / तेनोक्तं तद् वितर्केणापीत्थमेव समर्थितम् // 492 // निकष्टाऽधमयोर्जातं तद दःखस्यैव कारणम् / तद राज्यं सर्वेथा येन ताभ्यां दष्पालितं कृतम // 493 // विमध्यमस्य सम्पन्नं तत् स्वल्पसुखकारणम् / बहिर्भूतेन तेनेदं यत्कृतं मन्दपालितम् // 494 // मध्यमस्य पुनर्जातं तद्भूरिसुखकारणम् / प्रविश्य तेन यदिदं पालितं मध्यमादरात् // 495 // द्वयोश्वरमयोर्जातं निःशेषसुखकारणम् / तद्राज्यं पालितं येन ताभ्यां सर्वोचितादरात् // 496 // राज्यषट्रकमिदं ज्ञात्वा सर्व ज्ञातं मया किल / ईगविवर्त्तभृद्विश्वं तथा चाहुर्मनीषिणः // 497|| येन संवत्सरो दृष्टः सकृत् कामश्च सेवितः / तेन सर्वमिदं दृष्टं पुनरावर्तकं जगत् // 498 // ततो जातः प्रबुद्धोऽसौ नष्टा सर्वाऽप्रबुद्धता / इदं प्रसङ्गतः प्रोक्तं मया तुभ्यं नरेश्वर ! // 599 / / कथं दोषोऽन्यदोषेण स्यादिति प्रस्तुतं पुनः / निकृष्टाधमवत् तत्र निश्चयो दोषसङ्क्रमः // 50 // यथा मोहादिभिश्चौरैस्तौ दृष्ट्या च प्रपीडितौ / तथाऽसौ मित्रदोषेण पीड्यते धनशेखरः // 501 // हरिराह महाभाग ! नष्टोऽसौ मम संशयः / गतेषु तेषु भूपेषु षट्सु किं भावि ? तद् वद // 502 / / सूरिराह महाराज ! ये केऽपि भुवि देहिनः / ते कर्मपरिणामस्य पुत्राः सर्वेऽपि तत्त्वतः // 503 // आवर्तमानैस्तैः सर्वैः षड्भेदान्तर्भविष्णुभिः / सा स्थितिः पाल्यतेऽन्यान्यैर्निर्लेपश्च न जायते // 504 // तिष्ठन्त्वन्ये सुतास्तस्य विद्धि मामेव तत्सुतम् / स्वराज्ये यः प्रविष्टोऽहं सिद्धान्तोदितमार्गतः // 505 / / 1. भाति भामण्डलं तस्य मारिवैररुगीतयः / पूर्वोत्पन्नाः प्रशाम्यन्ति नान्याः // 2. तस्मात् // .