________________ ग्लो० 477-532] वैराग्यरतिः। 161 हतारिवर्गश्चारित्रसैन्यस्य परिपोषकः / भुञ्जानो राज्यमायातः ख्यातकीर्त्तिरिहोत्तमः // 506 // स्वसंवेदनसिद्धं मे यद् राज्ये परमं सुखम् / स्वप्नेऽपि नास्ति तद् राजन् ! शक्रचक्रभृतामपि // 507 // यथाऽहमुत्तमः कर्मपरिणामस्य नन्दनः / निकृष्टाद्यास्तथाऽन्येऽपि सन्यनन्ताः प्रवाहगाः // 508 // हरिजंगाद यद्येवं तदाहं तेषु कीदृशः / सूरिः प्राह नरेन्द्र ! त्वं मध्यमः प्रतिभासि मे // 509 // त्रिवर्गमाराधयसि यद् विभज्य दिवानिशम् / इदं मध्यमराज्यस्य लक्षणं च प्रकीर्तितम् // 510 // हरिर्मोहकरिध्वंसहरिमाह ततो गुरुम् / अलं मध्यमराज्येन ममानेनागरीयसा // 511 // आत्मीयमुत्तमं राज्यं भदन्त ! मम दाप्यताम् / सूरिराह महाराज ! त्वया चारु विचारितम् // 512 // महान्तो नैव तुष्यन्ति स्वल्पेन विपुलाशयाः / मृगवत् किं मृगारातिस्तृणग्रासेन तुष्यति // 513 // आपातरम्यं तुच्छं च त्यजन् वैषयिकं सुखम् / मुक्तावृत्तिष्ठते भव्यो भवं स्वप्नोपमं विदन् // 514 // यदि त्वमौत्तमं राज्यमादातुमभिकाङ्क्षसि / तदा भागवतीं दीक्षां गृहाण भवनाशनीम् // 515|| इदं सूरेर्वचः श्रुत्वा हरिराजः प्रमोदितः / पुत्रं शार्दूलनामानं राज्ये संस्थाप्य चारुधीः // 516 // दिनान्यष्ट जिनेन्द्राणां कृत्वा पूजामहोत्सवम् / दत्त्वा दानं तथाऽर्थिभ्यो गुरून् सत्कृत्य भावतः // 517|| समं मयूरमार्या परैश्च नृपपुङ्गवैः / तस्योत्तमगुरोः पार्थे निष्क्रान्तः शान्तशात्रवः // 518 / / ततः प्राप्यौत्तमं राज्यं विज्ञानानन्दमेदरः / विजहार महोदारमानसः पृथिवीतले // 519 // राग्ये परिणमत्यस्य पर्यायात् समवर्धत / शुक्लस्य शुक्लजात्यस्य स्वभाव जनितं सुखम् // 520 // इतश्च मैथुनेनाहं सागरेण च नाटितः / भ्रान्तो बहुषु देशेषु क्लेशलक्षाणि सोढवान् // 521 // 'अथाऽन्यदा महारण्ये पतितोऽत्यन्तभीषणे / श्रान्तो मेदस्वलस्वेदः स्थितो बिल्वद्रुमान्तिके // 522 // प्ररोहं भूमिगं दृष्ट्वा तच्छास्वानिर्गतं मया / ज्ञात्वा निधानं खाता सा सागरप्रेरितेन भूः / / 523 / / ततो दृष्ट्वा महाकुम्भमुद्वर्तुं रत्नपूरितम् / अधोगतं भाग्यमिव प्रवृत्तोऽहं प्रमोद्भाग् // 524 // स्फोटयन्निव दिग्भागांस्तावद्भीषणनादतः / कालः करालवदनः क्रोधञ्चलितलोचनः // 525 // अभाग्येन समाहूतः कृतान्त इव मूर्तिमान् / उद्भूतस्तत्र वेतालो दीर्घदंष्ट्रः सुदारुणः // 526 // तेनाहमारटन्नच्चैः क्षिप्त्वा वदनकोटरे / पाटितोऽत्रान्तरे जीर्णा गुटिका मे पुरातनी // 527|| ततस्तामपरां दत्त्वा भवितव्यतया तया / नीतः पापिष्ठवासायां पुर्यां सप्तमपाटके // 528 // तत्रानुभूय दुःखानि सर्वस्थानेष्वनन्तशः / भ्रान्तोऽनन्तं पुनः कालमन्यान्यगुटिकाबलात् // 529 // प्रोक्तोऽहं कृतसत्कर्मा भवितव्यतयाऽयदा / आर्यपुत्र ! त्वया स्थेयं गत्वा साह्रादपत्तने // 530 // तथेत्युक्तवतो दत्तस्तया. पुण्योदयः सखा / गुटिका च ममान्याऽथ प्रस्थितोऽहं वरानने ! // 531 // इति मैथुनलोभलोलताफलधारामवधृत्य कृत्यवित्। विरतौ स्थिरतामुपैति यो लभतेऽसौ सुयशःश्रियं फलम् / / 532 // // इति वैराग्यरतौ षष्ठः सर्गः // . 1. प्रवृत्तः सागराज्ञया // 505 // स्फो° / वै-२१