________________ 158 महोपाध्यायश्रीयशोविजयगणिविरचिता [ पञ्चमः सर्गः कथं तत्र प्रवेक्ष्यामि महाराज्येऽतिदुर्गमे ? / चौरान् कथं हनिष्यामि ? का नीतिः श्रेयसी मम ? // 418 // स्फोरणीयं मया स्थाने पौरुषं कुत्र कीदृशम् ? / तत् सर्वं वद वेत्ताऽस्ति सर्वोपायविधेर्भवान् // 419 // .. पृष्टः सन्नुत्तमेनैवं सिद्धान्तः समभाषत / वत्स ! राज्यस्य योग्योऽसि नात्रार्थे कोऽपि संशयः // 420 // उद्दिश्य मोक्षं तनुषे धर्म संसारभीतिभाग् / यशः सुखं च ते तत्र बाधकं नानुषङ्गिकम् // 421 // पित्रा राज्यं प्रदत्तं यत् तद् ज्ञातं तत्त्वतस्त्वया / तत्र प्रवेशनोपायमेतं विद्धि नरोत्तम ! // 422 / / प्रष्टव्या गुरवः पूर्व राज्ये प्रविशताऽऽन्तरे / अध्येतव्यं तदादिष्टं धर्मशास्त्रं प्रयत्नतः // 423 / / विभाव्यस्तस्य भावार्थः कार्या तद्विहितक्रिया / सन्तः सेव्यास्तथाऽसन्तस्त्याज्या धार्या दया हृदि / 424 // वचः सत्यं मितं वाच्यं नादत्तं ग्राह्यमण्वपि / कामिन्यो विषवद् ज्ञेया मोच्यः सर्वः परिग्रहः // 425 // धार्या व्रतोचितो वेषो विहर्त्तव्यमसङ्गिना / आहारोपधिशय्यादिशुद्धा कार्याऽङ्गयापना // 426 // देयो नैवावकाशश्च निद्राऽऽलस्यादिविद्विषाम् / जातु नाध्युपपत्तव्यं हृद्येषु विषयेषु च // 427 // जुगुप्सनीया न पुनः कुरूपाद्यर्थसन्ततिः / क्षालनीयः सदैवात्मा निर्मलैर्भावनाजलैः // 428 // .. धार्याः समिति-सन्तोष-तपः-स्वाध्याय-गुप्तयः / तितिक्षितव्याः सद्ध्यानादुपसर्ग-परीषहाः // 429 // . यतितव्यमसम्पन्नयोगेषु धृतिधीजुषा / तत्रेत्थं कुर्वतो राज्ये प्रवेशो नृपतेर्भवेत् // 430 // तत्र राज्ये प्रवेष्टव्यं भवताऽप्यनया दिशा / ग्रहीतव्यश्चान्तरङ्गोऽभ्यासनामा सहायकः // 431 // सैन्याचारित्रधर्मस्य परो वैराग्यनामकः / समेष्यति सहायस्ते ताभ्यां सिद्धिः करे तव // 432 // ताभ्यां युक्तेन भवता रोद्रव्याऽन्तर्द्विषां गतिः / तत्सैनिका निहन्तव्याः स्थिरीकार्या सुहृच्चमूः // 433 // पूर्वद्वारे प्रवेष्टव्यं तत्र राज्ये त्वया ततः / सन्ति तद्वामदिग्भागे पू-ामादीनि विद्विषाम् // 434 // सुहृदां दक्षिणे भागे चित्तवृत्तिमहाटवी / सर्वाधारा पुनस्तेषां तदन्ते निर्वृतिः पुरी // 435 // .. अस्ति पश्चिमदिग्भागे स्थिताऽतीत्य महाटवीम् / तव राज्यफलं पूर्ण तां प्राप्तस्य भविष्यति // 436 // तस्यामेव त्वयाऽन्यत्र गन्तव्यमविलम्बिना / औदासीन्याभिधमहाराजमार्गममुञ्चता // 437 // आयान्ति विविधास्तत्राध्यवसायजलाश्रयाः / तद्भाववारि कलुषं न पेयं रोगवृद्धिकृत् / / 438 // मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यैर्निर्मलीकृतम् / पेयं तद् येनै सर्वस्ते श्रमस्तापश्च हीयते // 439 // नद्यायाति विवेकार्बहुमध्येऽस्य धारणा / प्राप्तव्या शासनस्थैर्याव्याक्षेपबलतस्त्वया // 440 // तत्रोत्थास्यन्ति ये चौरा महाव्युत्थानगर्त्ततः / भवता भञ्जनीयास्ते भावनांऽशनिनाऽखिलाः // 441 // द्रक्ष्यसि प्रगुणं धर्मध्यानदण्डोलकं ततः / गन्तव्यं तेन गत्वाऽसौ महामार्गे पतिष्यति // 442 // सबीजयोगसंज्ञाने गच्छतस्तत्र भावि ते / प्रावल्यं धर्मसैन्यस्य मोहप्रलयपूर्वकम् // 443 // रजस्तमोलयाच्छुभ्रा भवित्री राज्यभूरपि / लप्स्यसेऽवहितः शुक्लध्यानदण्डोलकं ततः // 444 // विमलः केवलालोको भावी ते तेन गच्छतः / ततो निर्बीजयोगाख्ये वहन्मार्गे पतिष्यति // 445 / / समुद्घातः केवलिना विधेयस्तत्र च त्वया / विषमारीन् समीकर्तुं हन्तव्या योगराक्षसाः // 446 // 1. प्रवेष्टव्यं तत् त्वयाऽप्यनया दिशा / स्वाङ्गिकश्च ग्रहीतव्योऽभ्यासनामा ॥२.येन तापस्ते श्रमस्तृष्णा च हीयते॥